________________
सम्मति० का १, गा० . विनापि तज्ज्ञानेन शाब्दप्रतीतिरस्यादिति किमन्तर्गडना तेनेति वाच्यम् , सङ्केताभिव्यक्तस्यैव तस्य पदार्थस्मृतिद्वारा शाब्दप्रतीतिजनकत्वात् , तथा च सम्बन्धस्य कथश्चित्सम्बन्धिद्वयाऽभिन्नत्वेन सम्बन्धिनः शब्दस्योक्तसम्बन्धद्वारा नित्यत्वमिति द्रव्याथिंकनयापेक्षया नामनिक्षेपश्शब्द इति सिद्धम् । ननु भवतु नामनिक्षेपसिद्धिस्तथापि तनाम वस्तुस्वरूपमेवेत्यत्र किं मानमिति चेत्, उच्यते, नाम वस्तुस्वरूपमेव तत्प्रत्ययहेतुत्वात् , स्वधर्मवत् , नामायत्तात्मलाभास्सर्वव्यवहारा इति. तद्धे तुत्वाचेत्यनुमानमेव । " अर्थाभिधानप्रत्ययास्तुल्यनामधेयाः" इति वचनादेकमन्दवाच्यत्वेन नामनामवतोः कथश्चिदभेदतश्शब्दस्यार्थात्मकत्वादेव स्तुतौ रागः स्तुत्यस्य, द्वेषश्च निन्दायां द्वेष्यस्येति, भगवन्नामनिक्षेपस्य भगवद्रूपत्वादेव च तनामस्तुतिरपि भगवत्स्तुतिरेवेति तयाऽऽरोग्यबोधिलाभसमाधिमरणादिफलोत्पादो दृश्यत इत्येतदृष्टान्तबलात् सर्वस्य नाम्नः स्ववाच्यार्थस्वरूपत्वं ज्ञेयम् । यद्वस्तु भावभूतार्थलक्षणाऽसङ्घटितं भावपदार्थेन सहाभेदबुद्धिलक्षणेनामुकोऽयमित्यभिप्रायेण सद्भूताकारेण पुस्तचित्रकर्मादावसभृताकारेणाक्षादौ चेत्वरकालं यावत्कथिकं वा स्थाप्यते प्रतिनिधीयते तद्वस्तु स्थापना, णिजन्तात्स्थाधातोः कर्मणि युप्रत्ययः। भावभूते सर्ववस्तुनि स्वाकारसदृशाकारववतद्रहितत्वलक्षणसद्भावासद्भावान्यतर. रूपतया स्थापनायाः प्रवर्त्तमानत्वात् द्रव्यधर्मसद्धावादे कत्वाध्यवसायकृतमेव तस्या द्रव्या. र्थत्वमिति द्रव्यार्थिकनिक्षेपः स्थापना । एतेन कल्पनाशिल्पिनिमित्तत्वेन तत्तद्वस्तुस्थापना तत्तद्वस्तुतो भिन्नैवेति न मुख्यार्थस्वरूपेत्याशङ्कापि निरस्ता, यतो घटाकारोऽपि घट एव, तुल्यपरिणामत्त्वात् , अन्यथा तत्वाऽयोगात् , मुख्यार्थमात्रामावादेव तत्प्रति कृतित्वोपपत्तेः, अत एव जिनप्रतिमा जिनसदृशीति सिद्धान्ते गीयते, अक्षादावभिप्रायसम्बन्धं प्रतिभादौ चाकारसम्बन्धं पुरस्कृत्योपास्थमाना जिनादिस्थापना एकसम्बन्धिज्ञानमपरसम्बन्धिस्मा. रकमिति न्यायेन स्थाप्यस्मृतिद्वारा स्थाप्यगतगुणप्रणिधानोद्रेकलक्षणमात्राभिवृद्धस्तजनित. निर्जराविशेषस्य विधायिनी, तथा च सूत्रबोधितवलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोबोधकाभिप्रायाकारान्यतरसम्बन्धवचं तत्स्थापनात्वमिति फलितं भवति । ननु नामस्थापनयोः को विशेष इति चेत्, उच्यते-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवघ्रादिराकार उपलभ्यते, न तथा नामेन्द्राद्रौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति, नैवमिन्द्रादिनामश्रवणमात्राद् , यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते, नैवमिन्द्रनामादावित्येवमन्य. दपि वाच्यमिति । " सम्भावमसम्भावे ठवणा" इत्यावचनाच्छास्त्रे सद्भावासद्भावाभ्यां स्थापना द्विधा गीयत इति तल्लक्षणं तदुभयलक्षणं च किमिति चेत्, उच्यते, स्थाप्यमानस्ये न्द्रादेरनुरूपाङ्गोपाङ्गचिह्ववाहनाहरणादिपरिकरो य आकारविशेषो यद्दर्शनात् साक्षाद्विद्यमाने
"Aho Shrutgyanam"