________________
सम्मति• काक 1, मा. घटशब्दजन्ययोधविषयत्वप्रकारकेच्छाविशेष्यो घट इत्याकारकप्रतिपाद्यगतबोधानुकूलव्यापार: सङ्केतकरणं, तत्रेच्छा घटपदाद् घटो बोद्धव्य इत्याकारिका । तत्रापि वस्तुनः कथञ्चित्सामान्यविशेषात्मकतया समानासमानाकारपरिणत्यात्मकेऽपि तस्मिन् न प्रतिव्यक्तिमिनत्वलक्षणाऽसमानपरिणामस्सङ्केतोपयुक्तः, तस्याननुगतत्वेन तत्सङ्केतितशब्दश्रवणे तदर्थविषयककर्मक्षयोपशमसहकृत्तसङ्केतज्ञानसमुद्भूतवाच्यवाचकमावसम्बन्धस्मरणप्रभवार्थस्मृतिद्वारा तत्सजातीयव्यत्यन्तरशान्दबोधानुपपत्तिप्रसङ्गात् , न च प्रत्येकं सर्वासु व्यक्तिषु सङ्केतादुक्तदिशा शान्दवोध इति वाच्यम् , व्यक्तीनामानन्त्येन तावतीषु सङ्केतकरणस्याशक्यत्वात् , किन्तु समानपरिणतिलक्षणतिर्यक्सामान्यस्यानुगतत्वेन तदात्मके तद्विशिष्टे वा सङ्केत: कत्तुं शक्य इति समानपरिणाम एव सङ्केतोपयुक्ता, परपुरुषोचारितशब्दश्रवणेनापि समानपरिणतिविशिष्टस्यैवार्थस्य शाब्दबोधे प्रतिभासमानत्वात् स एव शब्दार्थी, यशाब्दप्रतीतो प्रतिभाति स एव शब्दस्यार्थ इत्यत्र प्रामाणिकानामविवादात्, न त्वसमानपरिणामोऽत्यन्त. विलक्षणस्तस्यार्थः। ननु समानपरिणामस्यानुगतत्वेन तद्विशिष्टे वस्तुनि सङ्केतकरणसौकयोद्भवतु तदभिधायि नाम, किन्तु तद्र्व्यार्थिकनयाभिमतनिक्षेपरूपं कथम्, शब्दरूपस्य नाम्नः कृतकत्वेन द्रव्यधर्मस्य नित्यत्वस्य तत्राभावेन द्रव्यरूपत्वाभावेन द्रव्यार्थिकनयविषयत्वामावादिति चेत् , उच्यते, दूरादागतोऽयं शब्द इत्यादिप्रतीतिसिद्धक्रियावचा. दिहेतुना शब्दस्य पौद्गलिकतयैव सिद्धेः, अत एव वायुवहनसंहरणद्वाराऽनुपातशैलादि. प्रतिघातादिक सङ्घटते, इदमुक्तं भवति-धूमवद्वायुना नयनं, धूमवद्गृहादौ पिण्डीभवनं, तोयवद् द्वारानुविधानं, पर्वतनितम्बादिषु वायुवत्प्रतिघातादिकच शब्दस्य पौगलिकत्वे सत्युपपन्नं भवति, गुणत्वे च तस्य वायुवहनसंहरणादीनां क्रियाविशेषाद्यात्मकत्वेन तदनुपपत्तिस्स्यात् , गुणे क्रियानङ्गीकारात् , यदाह भगवान् भाष्यकार:
___“जं ते पोग्गलमइआ, सकिरिया वाउवहणाओ॥ २०६ ॥ ... धूमोव्व संहरणाओ, दाराणुविहाणओ विसेसेणं ।
तोयं व णितंबाइसु, पडिघायाओ अ वाउव्व ।। २०७॥" इति ॥ अत एव " वारसहि जोयणेहिं सोयं अभिगेण्हए सई" इति पारमर्षवचस्सङ्गच्छते । तथा च पुद्गलरूपतया नित्यत्वेन तत्र द्रव्यत्वमस्त्येव, शब्दस्य वा स्वस्वरूपेणापि किञ्चिस्कालस्थायितया घटादेरिव द्रव्यरूपत्वमेव, पर्यायस्यैकक्षणमात्रस्थायित्वलक्षणत्वेन तद्रप. त्वामावाच । किश्च शब्दस्य कृतकत्वेऽपि यस्मिन् यस्मिन्नर्थे सङ्केतद्वारेण शब्दो नियुज्यते तस्मिन् तस्मिन्नर्थे प्रतिपादकत्वेन प्रवर्तत इत्यनुगतत्वेन द्रव्यसाधाद्रव्यार्थिकनयामिमतनिक्षेपरूपं शब्दात्मकं नामेति प्रतिपत्तव्यम्, किश्च वाच्यवाचकभावसम्बन्धी नित्यः, अन्यथा वाच्यस्यावाच्यत्वं वाचकस्य चावाचकत्वं कदाचित्स्यात् , न चैवं तर्हि सङ्केतग्रई
"Aho Shrutgyanam"