________________
सम्मति० काण्ड १, गा० ६
I
भावनिशेषः, तु पुनः, पर्यायास्तिकस्य पर्यायास्तिकनयस्य, प्ररूपणा प्ररूपणाविषयः, प्ररूप्यते इति प्ररूपणेति व्युत्पत्तेः, तत्र कर्मणि प्रपूर्वकरूपधातोर्युप्रत्ययः । पर्यायमात्रग्राहिणस्तस्य भावस्य पर्यायरूपतया तन्मात्रग्राहित्वेऽप्युक्त निक्षेपत्रयस्य विवक्षितमावानात्मकत्वेन तदग्राहकत्वात् । यद्वा नामस्थापनाद्रव्यमित्येष निक्षेपो " वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये | कर्त्तव्यमन्यथाऽनुक्त - समत्वात्तस्य कुत्रचित् ॥ १ ॥” इति वचनात् सर्वे वाक्यं सावधारणं भक्तीति नियमेन द्रव्यार्थिकस्य द्रव्यार्थिकनयस्यैवामिमतः, न पर्यायास्तिकनयस्य, नामादिनिक्षेपत्रयस्य विवक्षितभावानात्मकत्वात्, पर्यायास्तिकन यस्य तु भावलक्षणपर्याय मात्रग्राहित्वात् । भावो भावनिक्षेपः, तु पुनः, पर्यायास्तिकस्य पर्यायास्तिकनयस्यैव, प्ररूपणा प्ररूपणाविषयः । न द्रव्यार्थिकनयस्य, तस्य द्रव्यमात्रग्राहित्वेन भाषाऽनवलम्बित्वादिति । तत्र यस्य कस्यचिद्वस्तुनो व्यवहारार्थमभिधानं निमित्तसव्यपेक्षं निमित्तानपेक्षं वा यत्सङ्केत्यते तन्नाम, यथा स्वर्गाधिपस्य स्वर्गाधिपत्यलक्षणैश्वर्यात्मकनिमित्तापेक्षया इन्द्र इत्यभिधानं अयमिन्द्र इत्येवं सङ्केत्यते, अर्थात् यस्य नाम्नो व्युत्पत्तिनिमित्तविशिष्टोSर्थो यो भवति तत्र तन्नाम यदि सङ्केत्यते तदा निमित्तसव्यपेक्षं तत्, एवं सङ्केतद्वारा यनामवाग्यतया व्यवहर्त्तव्यो योऽर्थो व्युत्पत्तिनिमित्ताऽऽकलितो न भवति तत्र तादृशनिमित्तमन्त
;
वतनाम व्यवहारार्थं सङ्केत्यते तदा निमित्तानपेक्षं तत्, यथा गोपालदारके इन्द्रशब्दपर्यायान्तरशक्रपुरन्दराघवाच्ये अयमिन्द्र इति सङ्केतमात्रेणारोपितमिन्द्रनाम इन्द्रनामनिक्षेपः । अत्रेदमवधेयम् -गोपालदारकस्येन्द्रपदवाच्यत्वे तत्रेन्द्रपदवाच्यतावच्छेदकं नेन्द्रत्वं, भावेन्द्रवर्त्तिनस्तस्य गोपालदारकेऽभावात् नापि गोपालदारकत्वं यस्मिन्गोपालदार के इन्द्रपदवाच्यता नास्ति तत्रापि गोपालदारकत्वस्य सद्भावात् गोपालसम्बन्धित्वदारकत्वोमयघटितमूर्त्तिकस्य तस्य सखण्डस्य किञ्चित्पदप्रवृत्तिनिमित्तत्वाभावात्, किन्तु यस्मिन् गोपालदार के इन्द्रपदसङ्केतः क्रियते तद्गोपालदारके जन्मतो मरणपर्यन्तमुपचयापचयतोऽनेकशरीरमेदतस्तदनुगतं सामान्यमेव चैत्रत्वादिसामान्यवत्समस्ति तदेव तत्रेन्द्रपदवाच्यतावच्छेदकं तच्च नामेन्द्रत्वशब्देनाभिधीयत इति । सङ्केतकरणं कचिदभेदेन यथाऽयं घटः, अत्र घट इत्यस्य घटशब्दवाच्य इत्यर्थकत्वेन तस्याभेदसम्बन्धेनेदंपदार्थेऽन्वय करणादमेदेन सङ्केतकरणम् । कचिद्भेदेन यथा ' अस्य चार्य शब्दो वाचक इति, अत्र वाचकशब्दस्य बोधजनकत्वप्रकारकेच्छा विशेष्योऽर्थः तदेकदेशे बोधे षष्ठयर्थस्य विषयत्वस्य निरूपकत्वसम्बन्धेनान्वयः, तस्मिँत्र विषयत्वे इदंप्रकृत्यर्थस्य घटत्वावच्छिन्नस्याधेयत्वसम्बधेनान्वयः तथा च घटत्वावच्छिन्ननिष्ठविषयतानिरूपकबोध जनकत्व प्रकार केच्छा विशेष्यो
"
शब्द इति बोध इत्येवं भेदेन सङ्केतकरणम्, इच्छा चात्र घटविषयकबोधजनको घटशब्दों 'भवत्वित्याकारिका 'सैव च सङ्केतः ' तत्करणं च तद्विषयकप्रतिपाद्यगतबोधानुकूलो व्यापारः, स चायमस्य वाचक इत्याकारक आप्तोपदेशरूपः, अथवा घटशब्दवाच्यो घट इत्याकारको
६९
"Aho Shrutgyanam"