________________
सम्मति० काण्ड १, गा० १० वृत्तविशेषविषयामावेन विशेषतराविषयताकत्वे सति विशेषविषयताकपर्यायाधिकनयात्मकविषयिणोऽप्यभावाद, द्रव्यमात्रग्राहकद्रव्यार्थिकनयस्य पर्यायमात्रग्राहकपर्यायार्थिकनयस्य च मावे वा मिथ्यात्वमेव, अन्यथाविषयग्राहित्वात् , यद् यत्र यदपेक्षयाऽस्ति तस्य तत्र तदपेक्षया ग्राहकत्वेनैव नयप्रामाण्यात् । नन्वेवमेकान्तस्याभेदस्य मेदस्य चाभावेन तद्रूपविषयाभावाद् द्रव्यार्थिकपर्यायार्थिकनयो न स्तस्तर्हि " तित्थयस्वयणसंगह-विसेसपथारमूलवागरणी" इत्यादितृतीयगाथोक्तो नयस्य द्रव्यार्थिकपर्यायार्थिको मूलभेदी विरुध्येते इत्यत आह-' भणयाइ उ विसेसो' इति भजना-उपसर्जनप्रधानभावावगाहना, द्रव्या. थिंकनयेन पर्यायस्योपसर्जनमावेन द्रव्यस्य च प्रधानमावेनावगाहना, एवं पर्यायार्थिकनयेन द्रव्यस्योपसर्जनमावेन पर्यायस्य च प्रधानभावेनावगाहना तया, तुः अवधारणे तयैवानयोनययोर्विशेषो भेदः, स्वेतरनयविषयसव्यपेक्षतयैव स्वस्वविषयग्राहिणौ द्रव्यार्थिकपर्यायार्थिकनयो प्रमात्मकाविति स्वविषयेतरविषयमुपसर्जनीकृत्य स्वविषयश्च प्रधानीकृत्य स्वस्वविषयावगाहितयैव तयोर्मेद इति भावः । यद्वा भजनायास्तु विवक्षाया एव विशेषः 'इदं द्रव्यम् , अयं पर्यायः' इत्ययं भेदः, तथा तद्भेदाद् विषयिणोऽपि तथैव भेदः, विवक्षाभेदकृतविषयभेदप्रयोज्यप्रतिभास मेदेनानयोनययोर्भेद इति यावत् । अयममिप्राय:-सामान्य. विशेषात्मके वस्तुतत्वे उपसर्जनीकृतविशेषं यदन्वयिरूपं तद्रव्यमिति विवक्ष्यते यदा तदा द्रव्यार्थिकनयविषयः, यदा तूपसर्जनीकृतान्वयिरूपं तस्यैव वस्तुनो यदसाधारणं विशेषरूपं तद्विवक्ष्यते तदा पर्यायार्थिकनयविषयभूतं तद्भवतीत्येवं विवक्षाया भेदे तत्कृतषियभेदेन तद्विषयकविषयिणोऽपि मेद एव ॥ ९॥ एवंरूपभजनाकृतमेव भेदं दर्शयितुमाह
" दवअिवत्तव्वं, अवत्थु णियमेण पज्जवणयस्स ।
तह पज्जववत्थु अव-त्थुमेव दवहिनयस्स ॥१०॥" द्रव्यार्थिकवक्तव्यं द्रव्यार्थिकनयाऽभिधेयं द्रव्यमवस्तु नियमेन निश्चयेन पर्यायनयस्य मते, एवमेव पर्यायवस्तु पर्यायनयाभ्युपगत पर्यायाख्यं वस्तु अवस्त्वेव द्रव्यार्थिकनयस्य मते। तथा च पर्यायार्थिफनय उत्पाद-व्ययप्रतिमासे प्रामाण्यं निश्चिनोति, अत एव तद्विषयावुत्पादव्ययौ सत्यौ, ध्रौव्यप्रतिमासे त्वप्रामाण्यं, ध्रौव्याभाववति ध्रौव्यप्रकारकत्वा. तस्य, तत्राप्रामाण्ये च तद्विषयस्यापि धौव्यस्याऽसत्यत्वमेव, न तु तत्प्रतिमासमेव प्रतिक्षिपति, न खलु बाधकसहस्रेणापीदं रजतमिति ज्ञानं नाभूदित्येवं प्रतिक्षिप्यते कैश्चिदपि निष्णाते, किन्तु रजतत्वाभाववति रजतत्वप्रकारकत्वेनाप्रामाण्यमेव निश्चीयते, तद्वत्प्रकतेऽपि, एवं द्रव्यास्तिकोऽपि ध्रौव्यप्रतिभासे प्रामाण्यं निष्टङ्कयति, अत एव तद्विषयीभूतं ध्रौव्यमेव सत्यम् , उत्पादव्ययप्रतिमासे त्वप्रामाण्यमिति तद्विषयौ तौ न सत्यावित्ययं स्वस्त्र. विषयपक्षपातोऽयुसः, धौव्यनिरपेक्षोत्पादव्यययोरुत्पादव्ययनिरपेक्षधौव्यस्य च पूर्वमेव
"Aho Shrutgyanam"