________________
EC
सम्मतिः कान्ड १, गा० ५
सन्मानविषयत्वेन, संग्रहस्य न युज्यते । महाविषयता भावा-ऽभावार्थान्नैगमान्नयात् ॥ १ ॥ यथा हि सति संकल्प-स्तथैवासति विद्यते । तत्र प्रवर्त्तमानस्य, नैगमस्य महार्थता ॥२॥ संग्रहाव्यवहारोऽपि, सद्विशेषावबोधकः । न भूमविषयोऽशेष-सत्समूहोपदर्शिनः ॥३॥ नर्जुसूत्रः प्रभूतार्थों, वर्तमानार्थगोचरः।। कालत्रितयवृत्त्यर्थ,-गोचराद्व्यवहारतः ॥४॥ कालादिभेदतोऽप्यर्थ-मभिन्नमुपगच्छतः। नर्जुसूत्रान्महार्थोऽत्र, शब्दस्तद्विपरीतवान् ॥ ५॥ शब्दात्पर्यायभेदेना-ऽभिन्नमर्थमभीप्सतः । न स्यात्समभिरूढोऽपि, महार्थस्तद्विपर्ययः ॥ ६ ॥ क्रियाभेदेऽपि चाभिन्न-मर्थमभ्युपगच्छतः। नैवम्भूतः प्रभूतार्थो, नयः समभिरूढतः ॥७॥ पूर्वः पूर्वः प्रभूतार्थो, नैगमादिनयेष्विह।
परः परस्तु सूक्ष्मार्थ-स्तदित्थं सिद्धिमाययौ ॥ ८॥" इति । द्रव्यार्थिकनये सकलोपाधिरहितत्वेन शुद्धसन्मात्रस्यैव विषयीकरणात् सम्यगेकत्वेन सर्वस्य ग्रहणात् सङ्ग्रह एव शुद्धः, प्रकृतगाथायां "द्रव्यार्थिकनयाऽशुद्धप्रकृति गमनयोऽपि" इत्यनुक्तेः पूज्यश्रीसिद्धसेनदिवाकरमतेन सङ्ग्रहव्यवहारनयाभ्यां नैगमनयो न पृथग्भूत इति न चर्चाई । सामान्यविशेषविमिश्रणाद्वयवहारस्संग्रहापेक्षयाऽशुद्धः । अत एव सम्मतिटीकायां सर्वमेकं सदविशेषादिति शुद्धद्रव्यास्तिकाभिप्रायाः, अशुद्धस्तु द्रव्यार्थिको व्यवहारनयमतावलम्बी एकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकसांख्यदर्शनाश्रित इत्युक्तम् , पर्यायार्थिकनये तु यन्नयापेक्षया योऽल्पविषयको नयस्स तन्नयापेक्षया शुद्ध इत्युत्तरोत्तरनया अस्पाल्पविषयकाश्शुद्धशुद्धतरशुद्धतमा, पूर्वपूर्वनयास्त्वशुद्धाशुद्धतराऽशुद्धतमाः, बहुबहुविषयकत्वात् , तथाहि-एतत्प्रकरणकारमते ऋजुसूत्रनयस्य पर्यायार्थिकनयभेदत्वात् स वावदशुद्धः, कालकारकलिङ्गादिभेदेऽप्यर्थाभेदाभ्युपगमपरत्वात् , शब्दनयस्तु शुद्ध, तन्मतेन कालादिभेदेन वस्तुनो मेदाम्युपगमात् । ततोऽपि समभिरूढः शुद्धतरः, तन्मते पर्यायशब्देषु निरुक्तिभेदेन मिन्नस्यार्थस्याभ्युपगमादेकार्थवाचकपर्यायशब्दाभावात् पर्यायभेदेनापि भेद
"Aho Shrutgyanam"