________________
सम्मति० काण्ड १, मा० ५ च्छेदलक्षणततनयप्रभवाणीति ग्रन्थकार एवाने प्रतिपादयिष्यति । तथा च तत्तद्दर्शनमूलकारणत्वात्तत्तन्मयः प्रकृतिस्तस्मादाविर्भूतत्वात्तत्तदर्शनं विकृतिरिति पूर्वोक्तव्युत्पत्त्या ऋजुसूत्रनयस्य सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकभेदभिन्नवौद्धदर्शनप्रकृतित्वं प्रतिपाद्य ऋजुसूत्रनयस्य पूर्वापरक्षणावस्थितक्षणिकार्थद्वयकार्यकारणभावाभ्युपगमपरसौत्रान्तिकाख्यतथागतमतविशेपप्रकृतित्वम् , शब्दनयस्य च एकक्षणस्थविषयतज्ज्ञानरूपपदार्थद्वयकार्यकारणभावाभ्युपगमपस्वैभाषिकाख्यतथागतमतविशेषप्रकृतित्वम् , सममिरूढनयस्य च परमार्थभूतबारार्थो नास्त्येव, विज्ञानमेव पूर्वपूर्ववासनावैचित्र्यात् स्वाभिननीलपीताद्याकारमवभासत इति परमार्थभूतवाद्यार्थाऽभावान तद्राहकं ज्ञानम्, अयं नील इत्यादिबहिर्वदवभासस्तु वासनाविपर्ययकृतो भ्रम इति बाह्यनिरपेक्षक्षणिकसाकारवादाभ्युपगन्तृयोगाचाराऽभिख्यशोद्धो. दनिमतविशेषप्रकृतित्वम् , एवम्भूतनयस्य च विज्ञानमपि विचार्यमाणमेकानेकरूपत्वाऽयो. गाच्छून्यतारूपमिति शून्यताभ्युपगमपरमाध्यमिकसंज्ञकवौद्धमतविशेषप्रकृतित्वं सम्मतिटीकायां यथा प्रतिपादितं तथोव्यते-" अथवा सौत्रान्तिकवैभाषिको बाह्यार्थमाश्रितो ऋजुसूत्र-शब्दौ यथाक्रमम् , वैभाषिकेण नित्यानित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमात् , शब्दनयेऽनुप्रवेशस्तस्य । अत्र वैभाषिकस्य शब्दनयपक्षपातित्वे ज्ञानार्थलक्षणयोगपद्यरूप. व्यञ्जनपर्यायप्रधानत्वादिति द्वितीयोऽपि हेतुर्नयामृततरङ्गिण्यामुपाध्यायैरुक्त इति । बाह्यार्थप्रतिक्षेपेण विज्ञानमात्रं समभिरूढो योगाचार । एकानेकधर्मविकलतया विज्ञानमात्रस्याप्यभाव इत्येवम्भूतो व्यवस्थित एवम्भूतो माध्यमिक इति," अत्र तार्किकमते सैद्धा. न्तिकमतेऽपि च पूर्वपूर्वनया बहुबहुविषयका उत्तरोत्तरनयावाल्पाल्पविषयकाः, सत्तारूपेण सकलार्थविषयकात्सनहातार्किकमते सत्ताव्यतिरिक्तसामान्यविशेषविषयकस्य व्यवहारस्याल्पविषयकत्वम् , ताशव्यवहाराच्च वर्तमानक्षणमात्रस्थाय्याभ्युपगमपरस्य सूत्रस्याल्प. विषयकत्वम् । सैद्धान्तिकमते च सम्मात्रविषयकस्य सङ्ग्रहस्य भावाभावपदार्थविषयका भंगमादल्पविषयकत्वं, समस्तसत्समूहाभ्युपगमपरत्वेन बहुविषयकात् सङ्ग्रहात् विशेषार्थमात्राभ्युपगन्तव्यवहारस्याल्पविषयकत्वम् , कालत्रयवर्तिविशेषार्थविषयकव्यवहाराद्वर्तमान क्षणमात्रवर्णाभ्युपगच्छत ऋजुसूत्रनयस्याल्पविषयकत्वम् , लिङ्गसंख्यापुरुषादिभेदेऽप्यभिन्नमर्थमुपगच्छत ऋजुसूत्राल्लिङ्गसंख्यापुरुषादिभेदेन भिन्नमर्थमभ्युपगच्छन् शब्दनयोऽल्प. विषयका, संज्ञाभेदेऽप्यभिन्नमर्थमुररीकुर्वच्छब्दनयाद्भिभसंज्ञाप्रयुक्तार्थभेदस्वीकतसमभिरूननयोऽल्पविषयका, ततोऽपि व्युत्पत्तिनिमित्तक्रियाभेदप्रयुक्तार्थभेदावलम्ब्येवम्भूतनयोऽल्पविषयकः, यत इन्द्रादिशब्दव्युत्पत्तिनिमित्तभृतेन्दनादिक्रियायां सत्यामसत्यां चेन्द्राधास्मकेऽर्थे इन्द्रादिशब्दव्यपदेशं यथा समभिरूढनयोऽभ्युपैति न तथैवम्भूतो नयः, एतन्मतें स्वव्युत्पत्तिनिमित्तभूतक्रियापरिणतिकाल एव शब्दवाच्यार्थसत्ताऽभ्युपगमेन तादृशक्रियापरिणत्यभावकाले भिन्नक्रियासद्भावेनार्थभेदसद्भावादिति । तदुक्तं तत्वार्थश्लोकवार्तिके
"Aho Shrutgyanam"