________________
सम्मति काण्ड १, ०५
17
+
वाsनन्तरोक्तस्य सकलपर्यायनय मेदेषु वृत्तित्वेन नयविभाजकर्जुसूत्रत्वधर्माक्रान्तानां शब्दादिनयानां त्रयाणामृजुसूत्रनयात्मकमूलस्य शाखा प्रशाखाप्रतिशास्त्रात्वाभ्युपगमे तेषां नयविभाजकोपाधिव्याप्यविभाजकोपाधिमध्येन नयप्रभेदत्वापतेः 64 'सत्त मूलणया पचत्ता इति सूत्रविरोधप्रसङ्ग इति चेत्, मैवम्, शब्दादिनवभिन्नत्वे सति प्रत्युत्पन्नमा हित्वमृजुसूत्र त्वमिति लक्षणलक्षितस्यैवर्जुसूत्रत्वस्य नयविमाजकधर्मतयाऽभ्युपगमात् तस्य च शब्दादिनयेष्वभावेन तद्वयाप्यत्वस्य शब्दनयत्वादावभावात् शब्दनयादीनां नयप्रमेदत्वापच्यभावात्, तथा च नोक्तसूत्रव्याघातः । पूर्वोक्तपारिभाषिकलक्षणस्यर्जुसूत्रत्वस्य प्ररूपणं तु शब्दादिनयानामृजुसूत्र शाखा प्रशाखाप्रविशाखात्व प्रदर्शनायेति || अयश्च सर्वोऽपि ऋजुसूवचनविस्तारो बाह्यार्थाभ्युपगमपरो दृष्टव्यः, स च सौत्रान्तिकाख्यतथागतमतविशेषस्य वैभाषिकाख्य तथागतमतविशेष्यस्य च मूलकारणम् । ननु अनयोः किं वैलक्षण्यमिति चेत्, | उच्यते, तयोः क्षणिकवाह्यार्थाभ्युपगमापेक्षया साम्यमेत्र, परमाद्यस्य ग्राह्यग्राहक योर्विभिभक्षणे निष्पत्तिः, ज्ञानज्ञेयस्वलक्षण योर्विषयविषयिभावसम्बन्धाभावेऽपि प्रतिकर्मव्यवस्था ' यदाकारं ज्ञानं तत् तज्ज्ञानकर्मेति व्याप्तिसहकृताद् घटपटादिज्ञानं घटपटादिकर्मकं प्रतिनियततत्तदर्थाकारत्वादित्यनुमानात् सिद्ध्यतीति साकारविज्ञानवादः । अत एवैतन्मते " प्रत्यक्षो नहि बाद्यवस्तुविसरः सौत्रान्तिकैराश्रितः" इत्युक्तेः प्रत्यचतो नार्थसिद्धिः किन्त्वनुमानादेव, यदाकारं ज्ञानं तेन तत्सिद्धिरिति व्याप्तेः । द्वितीयस्य तु मते " अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेष्यते " इत्युक्तेर्ज्ञानज्ञेययोरेकक्षण एवोत्पतिः प्रतिनियततत्तदर्थोत्पादक सामग्रीप्रभवत्वादेव ज्ञानस्य प्रतिकर्मव्यवस्थेति निराकारविज्ञानवादः । तन्मते निर्विकल्पप्रत्यक्षादेव बाह्यार्थसिद्धिः, न तु सविकल्प प्रत्यक्षात् तस्याऽसद्विषयकवेनाप्रामाणिकत्वात् नन्वेवं तर्हि नीलादेः क्षणिकत्वेन दानादौ च स्वर्गप्रापणसामर्थ्यमावेन नीलादिनिर्विकल्प प्रत्यक्षानीलादेखि क्षणिकत्वांशस्य दानादिनिर्विकल्प प्रत्यक्षादानादेरित्र स्वर्गप्रापणसामर्थ्यांशस्यापि सिद्धिप्रसङ्ग इति चेत्, मैत्रम्, यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता इतिवचनात्तदेशे सविकल्प प्रत्ययानुत्पादात्तदंशे प्रामाण्याभावात्तदसिद्धेः । यद्वा ऋजु बाह्यार्थापेक्षया ग्राहकसंवित्तिभेदविकलमविभागं बुद्धिस्वरूपम कुटिलं सूत्रयतीति ऋजुसूत्रः शुद्धपर्यायास्तिकनयः । अयश्च बहिरर्थसंस्पर्शरहितक्षणिकविज्ञप्तिमात्राभ्युपगमपरयोगाचाराख्यशौद्धोदनिमतविशेषप्रवर्त्तक इति । अथवा एकत्वानेकत्वसमस्तधर्म कला पविकलतया तदपि विज्ञानं विचार श्रेण्या शून्यरूपमृजु सूत्रयतीति ऋजुसूत्रः, अयश्च माध्यमिकदर्शनावलम्बी सर्वभावशून्यताप्रतिपादनपरो माध्यमिक संज्ञकबौद्ध मतविशेषप्रवर्त्तको ज्ञेयः, " सवनयमयं जिणमयमणवजमचतं " इति भाष्योक्तेः अशेषांशविशिष्टार्थग्राहित्वात् सर्वनयात्मकं भगवद्दर्शनम्, इतरांशनिरपेक्षैकैकांश प्रतिपादकत तद्दर्शनानि च वस्त्वेकैकां परि
,
·
S
""
"Aho Shrutgyanam"