________________
६४
सम्मति० काण्ड, पा" दारणक्रियायां सत्यामसत्याश्च घटशब्दवाच्य एको घटा, कुटशब्दवाच्य एका कुट:, शक्रशम्दवाच्य एकश्शक्रः, पुरन्दरशब्दवाच्य एकः पुरन्दर इति यदभ्युपगतं तत्रैवम्भूतनयोऽभ्युपैति, तन्मते हि स्वव्युत्पत्तिनिमित्तक्रियाऽऽविष्टत्वे सत्येव तत्तच्छन्दवाच्या, नान्यदा, यतः परमैश्वर्यानुभवन काल एवेन्द्रः, अन्यदाऽनिन्द्रा, इन्द्रोपयोगः काल एवं वोपयोगेन्द्रः, तत्क्षणानन्तरं तत्पूर्व वाऽनिन्द्रः, पश्चात्तदुपरमात्, तत्पूर्व तदभावात् , पुरदारणकाल एव तदुपयोगकाल एव वा पुरन्दरः, अन्यदाऽपुरन्दरः, प्रतिक्षणाऽतिक्रामि. स्वाद वस्तुनो बुद्धिविषयो बुद्धिस्थो वा योऽर्थः स शब्दार्थः, अयम्भाव:-क्षणे क्षणे अन्य एवार्थ उत्पद्योत्पद्य बुद्धिविषयो भवति बुद्धौ वा तिष्ठतीति योऽर्थो यस्मिन् क्षणे बुद्धिविषयो बुद्धिस्थो वा, तस्मिन्नेव क्षणे सोऽर्थः, अन्यदाऽनर्थः, इत्येवं प्रशाखाता प्रतिशाखामिव सूक्ष्मतममेवम्भूतनयोऽध्यवस्यति । यदुक्तम्
"तक्रियापरिणामोऽर्थ-स्तथैवेति विनिश्चयात् ।
एवम्भूतेन नीयेत, क्रियान्तरपराङ्मुखः ।। १ ॥” इति तच विवेचयिष्यते चाग्रे । एतच्च ऋजुसूत्रपदव्युत्पत्तिनिमित्तं प्रत्युत्पन्नग्राहित्वं पर्याय नयत्वमात्रपर्यवसन्नमभिप्रेत्य द्रष्टव्यम् । तथा च ऋजुत्रपदव्युत्पत्तिनिमित्तस्य प्रत्युत्पन्न ग्राहित्वस्य सकलपर्यायनयवृत्तित्वेन पर्यायनयत्वस्वरूपत्वमेव, एवञ्च तादृशधर्मालिङ्गितस्य. र्जुसूत्रस्य शाखाप्रशाखाप्रतिशाखात्वेन त्रयाणां शब्दसमभिरूद्वैवम्भूतनयानामुपदर्शनं पर्यायनयस्यैव शाखाप्रशाखाप्रतिशाखारूपतयोपवर्णनं पर्यवसितम् , तथा च पर्यायार्थिकनयतरो. मुलस्थानीय ऋजुसूत्रनय शाखास्थानीयः शब्दनयः, प्रशाखास्थानीयस्ममभिरूढनयः, प्रतिशाखात्मक एवम्भूतनय इति तचतुष्टयात्मकः पर्यायार्थिकनय इति भावः । यदा विशेषणभेदाऽप्रयुक्तर्जुमूत्रविषयप्रतियोगिक भेदानाधारविषयकप्रतीतिविषयकत्वम् , विशेषणभेदाप्रयुक्तो य ऋजुसूत्रनयविषय प्रत्युत्पन्नवस्तुप्रतियोगिको भेदस्तदनाश्रयविषयकप्रतीतिविषयो यस्य तत्कत्वमित्येवं पर्यवसितार्थमिह शब्दादीनामृजुसूत्रभेदत्वं परिभाष्यते, तथा च शब्दनयविषयस्य ऋजुसूत्रनयविषयाद्भेदो लिङ्गसङ्ख्थापुरुषकालकारकोपसर्गलक्षणविशे. पणमेदप्रयुक्त एव । एवं समभिरूढनयविषयस्यापि संज्ञालक्षणविशेषणभेदादेव निरुक्तमेदः । एवमेवम्भूतनयविषयस्यापि व्युत्पत्तिनिमित्तक्रियालक्षणविशेषणभेदप्रयुक्त एवोक्तभेदा, न तु स्वत इति विशेषणभेदाऽप्रयुक्तर्जुसूत्रविषयप्रतियोगिकभेदानाधारविषयकप्रतीतिविषयकत्वं शब्दादिनयानां सिद्धमिति । न ह्येवं व्यवहारस्य निरुक्तदिशा पारिभाषिकं सग्रहमेदत्वं सिद्ध्यति, यतस्स्वरूपत एव सनहनयविषयात्सामान्याद् व्यवहारनयविषयस्य विशेषस्य भेदेन तस्य विशेषणभेदाऽप्रयुक्तत्वेन तादृशमेदाऽऽधारविषयकप्रतीतिविषयकत्वमेव व्यवहारनयस्येति । नन्वेवमृजुत्रपदव्युत्पत्तिनिमित्तस्य प्रत्युत्पन्नग्राहित्वस्य पारिभाषिकस्य
"Aho Shrutgyanam"