________________
सम्मति० का १, गा. तहहनक्रियाकाले वर्तमानमेव दहनक्रियाकर्म, तश्च न पलालः, तदानीमपलालभाषादिति नाग्निः पलालं दहतीति सिद्ध्यति । एवं गिरावपि ज्ञेयम् । या पूर्वक्षणा. वच्छिमोऽसंयतस्स न प्रव्रजति, तदानीमसंयतभावात् , यश्च प्रव्रजति स नासंयतः, तदानी संयतभावात् , एवं यो भन्यो न स सिद्धयति, भव्यत्वपर्यायकाले सिद्धिपर्यायाऽभावात् , यश्च सिध्यति स न भव्यः, सिद्धत्वपर्यायकाले भव्यत्वपर्यायविनाशात , न चैवं तर्हि व्यवहारबाधः स्यादिति वाच्यम् , सर्वस्मिन् नये क्वचिदंशे तद्बाधाऽवश्यंभावादिति । "तस्स उ सद्दाईआ, साहपसाहा सुहुमभेया" इति तस्य ऋजुसूत्रतरोः, तुरवधारणार्थः, तेन तस्यैव न द्रव्यार्थिकस्य शब्दादयो गुणिभूतार्थप्रधानीभूतशब्दद्वारा श्रोतुः प्रतीतिजनका अत एव शब्दनयत्वेन प्रतीताः शब्दंसमभिरूढवम्भूताख्यास्त्रयो नया: शाखाप्रशाखा. प्रतिशाखा इव स्थूलसूक्ष्मसूक्ष्मतरभेददर्शिवात्सूक्ष्मो मेदो विशेषो येषां ते सूक्ष्म मेदाः। यथा हि तरोः स्थूलाशाखाः, ततस्सूक्ष्मास्तत्पशाखाः, प्रतिशाखास्तु ततोऽपि सूक्ष्मतरा:, एवमृजुसूत्रतरोस्स्थूलसूक्ष्मसूक्ष्मतरा: शाखाप्रशाखापतिशाखारूपा यथाक्रममशुद्धशुद्धशुद्धतराशब्दसमभिरूद्वैवम्भूताख्यास्त्रयो नया ज्ञेयाः। तथाहि " तटस्तटीतटं 'गुरुर्गुरवः' एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता" वर्तमानकक्षणमात्रवृत्तिमेरुः क्षणमात्र. वर्तित्वलक्षणस्वसत्ताकाले भवतीति व्यवाहियते, स एव स्वोत्तरक्षणापेक्षया बभूवेति व्यवझियते, स्वपूर्वसमयापेक्षया स एव भविष्यतीति व्यवहियत इति बभूव भवति भविष्यति सुमेरुः । जलाहरणं करोति कुम्भः, क्रियते कुम्भश्चैत्रेण, "संतिष्ठते अवतिष्ठते, इत्यादौ त्रिलिङ्गवृत्तिशब्दवाच्यमेकवचनान्तबहुवचनान्तशब्दवाच्यमुत्तममध्यमप्रथमपुरुषवाच्यश्च विभिन्नकालबोधकशब्दवाच्यश्च भिन्नकर्तृकर्मबोधकशब्दवाच्यश्च विभिन्नोपसर्गबोधकशब्दवाच्यश्चै. कमेव वस्तु ऋजुसूत्राभ्युपगतं लिङ्गसङ्कथापुरुषकालकारकोपसर्गभेदेन भिन्नं शब्दनयो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते । तदुक्तम्
" विरोधिलिङ्गसङ्खयादि-भेदाद्भिन्नस्वभावताम् । .
तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ।।" इति । शब्दनयाभ्युपगतं घटकुटकुम्भादिशक्रपुरन्दरशचीपत्यादिपर्यायभेदेऽप्यभिन्नमर्थमुक्ततत्तत्संज्ञा दैव्युत्पत्तिनिमित्तक्रियामेदप्रयुक्तस्वस्ववाच्यभिन्नभिन्नार्थ शाखातः प्रशाखामिव सूक्ष्मतरं समभिरूढनयोऽध्यवस्यति तदाह
___“पर्यायशब्दभेदेन, भिन्नार्थस्याधिरोहणात् ।
___ नयः समभिरूढः स्यात्, पूर्ववञ्चास्य निश्चये ॥ १॥" इति । समभिरूढनयेन घटत इति व्युत्पत्तिनिमित्तघटनक्रियायां कुटतीति व्युत्पत्तिनिमित्तकुटनक्रियायां शक्नोतीति व्युत्पत्सिनिमित्तशकनक्रियायां पुरन्दास्यतीति व्युत्पत्तिनिमित्तपुर
"Aho Shrutgyanam"