________________
सम्मति० काण्ड , गा५ सूत्रनया, ' तस्स उ' तस्य तु-ऋजुसूत्रतरोस्तु 'सहाईया साहपसाहा सुहममेया' शन्दादिकाः शाखा-प्रशाखाः सूक्ष्मभेदार, यथा तरोशाखा स्थूला प्रशाखा ततस्सूक्ष्मा प्रतिशाखा ततोऽपि सूक्ष्मतरा तद्वत् शाखात्मकश्शन्दनयः स्थूलः, प्रशाखात्मकस्सममिरूढनयस्ततस्मुक्ष्मः, प्रतिशाखात्मक एवम्भूतनयस्ततोऽपि सूक्ष्मतर इति सचिसार्थः । विस्तृतार्थस्त्वेवम्-मूलनिमेणं-अत्रानेकान्तव्यवस्थाग्रन्थे 'मूलनिमाणं' इतिपाठः। मूलमेव आयमेव निर्माण आधारो मूलनिर्माण, मूलभृताधारः आद्याधारः पर्यायनयस्यर्जुस्त्रवचनविच्छेदः । ऋजु वर्तमानक्षणमात्रवर्ति वस्तु तस्यैव वर्तमानतत्तत्क्षणस्थितिलक्षणस्वस्वरूपे व्यवस्थितत्वेन सद्रूपत्वात्, अतीतानागतयोस्तु विनष्टानुत्पनतया परस्वरूपत्वेनासदपत्वात, तदेव सूत्रयति अर्थक्रियाकारितया सत्वेन परिच्छिनत्ति निश्चिनोति, नातीतं, न वाऽनागतम्, तत्र सस्वव्यापकस्य क्रमयोगपद्याभ्यामर्थक्रियाकारित्वस्य निवृत्या तव्याप्यस्य समस्याऽपि निवृत्तिरिति तयोरसत्त्वेन कुटिलत्वादित्यजुसूत्रम् , तस्योच्यत इति वचनम् उच्यमानं पदं वाक्यं वा तस्य विच्छेदः, अन्तः सीमेति यावत् 'कृदभिहितो भावो द्रव्यवत्प्रकाशत' इतिन्यायात् कुदमिहितो भावो द्रव्यवत् कदभिहितद्रव्यवद्भासत इत्यर्थकाद् यथा “ अमृतरसप्रस्यन्दमाध्वीका" इतिकुसुमाञ्जलीयोदयनाचार्यवचने अमृतरसेति पदस्य रस्यमानममृतमि. त्यर्थः, एवमेव प्रतिमाशतकद्वितीयपयस्वोपज्ञवृत्ती " नामादित्रयमेव " इत्यत्र नामादिपदस्य नामादिनिक्षेपपरत्वात् कृदभिहितन्यायाद् निक्षिप्यमाणं नामादित्रयमित्यर्थः कृतः। तद्वदचनविच्छेद इत्यस्यापि विच्छिद्यमानं वचनमित्यर्थः । अत्रानेनोपचाराद्विच्छिद्यमान वचनप्रतिपाद्यार्थविषयकर्जुसूत्राख्यो नयबोधो ग्राह्यः । तस्य च स्वविषयं प्रतिपादयतः पूर्वापरपर्यायाऽसंसक्ते वर्तमानैकपर्याय एवं वचनं विच्छिद्यते समाप्यते । वर्तमानपर्यायस्यातीतानागतात्मकपरपर्यायाऽसंस्पर्शित्वेन तन्मात्रस्यैव बोधजनकत्वात् , उक्तश्च ऋजुप त्राभिमतमर्थ प्ररूपयद्भिः
" पलालं न दहत्यग्नि-दस्यते न गिरिः क्वचित् । .. नाऽसंयतः प्रव्रजति, भव्यजीवो न सिद्ध्यति ॥ १॥” इति ।
अस्मिन्जुसूत्रमते यः पलालरूपपूर्वपर्यायः सोऽग्निना न दह्यते, दहनक्रियाकाले पलालपर्यायस्य विनष्टत्वात् , यश्च भस्मभावरूपवर्तमानपर्यायोऽग्निना दह्यते स न पलालभावमनुभवति । अयम्भाव:-क्रियाजन्यफलशालिन्येव कर्मत्वं भवति, क्रियाजन्यफलशालित्वश्च क्रियाकाले विद्यमानस्यैव, तथा चाग्निना दहनक्रियाकाले यदेव विद्यमानं तस्यैव क्रियाजन्यफलशालित्वात्कर्मत्वावबोधकद्वितीयाविभक्तिप्रकृतिप्रतिपाद्यत्वम् , पला. लस्य त्वग्निना दाहसमये न स्वस्वरूपेणावस्थानमिति तत्र दहनक्रियातो भस्मीभावलक्षणविकारस्य फलरूपस्याऽभावेन तत्कर्मत्वमेव न सम्भवति, यतो यद्भस्मीभावमनुभवति
"Aho Shrutgyanam"