________________
सम्मति० काम , गा०.५ धनुगतप्रतीतिर्न स्यादिति मिन्नेष्वभिमबुख्यन्यथानुपपत्तेस्स्वाश्रयेभ्यस्सत्ताद्रव्यत्वादिक मित्रमेव, सत्ताद्रव्यत्वादितस्स्वाश्रयव्यक्तीनामभेदे तद्वत्तासामप्येकत्वापत्येयं व्यक्तिभिमैतद्वयक्तरियमपि भिन्नत्यादिमेदव्यवहार उच्छिन्नस्स्यादिति दृश्यमानभेदव्यवहारान्यथाऽनुपपत्या ततस्तासामपि भेद एवेति नैगमनयाऽभिप्रायः, तदुक्तं विशेषावश्यकभाष्ये
" सदिति भणिएऽभिमन्नइ दव्वादत्थंतरं ति सामन्नं ।
अविसेसओ मईए सव्वत्थाणुप्पवित्तीए ।। २१९० ॥ गोत्तादओ गवाइसु निययाधाराणुवित्तिबुद्धीओ।
परओ य निवित्तीओ सामन्नविसेसनामाणो ॥ २१९१॥" इति . व्यवहारनयस्त्वेवं नैवाभिमनुते, विशेषाणामेव वस्तुत्वेन व्यवस्थापनपरत्वात्तस्य, अत एव विशेषतो व्यवाहियते निराक्रियते सामान्यं येनेति व्यवहार इति तस्य व्युत्पत्तिस्सिद्धान्ते गीयते, तन्मते विशेषव्यतिरिक्तं नास्ति सामान्यम् , योग्याउनुपलब्धेः, खपुष्पवत् , विशेषास्तु सन्ति स्वप्रत्यक्षग्राह्यत्वात् , घटादिवत् । किश्च जलाहरण-व्रणपिण्डीप्रदानादिको लोकव्यवहारो घट-निम्बपत्रादिविशेषैरेव साक्षात् क्रियमाणो दृश्यते, न सामान्येन, तस्माचदर्थान्तरभृतं सामान्य नास्त्येव, लोकव्यवहाराऽनिर्वाहकत्वात्तस्य, यदभ्यधायि तस्वसुधावर्षिभाष्यकारेण- "उवलंभववहाराभावाओ निव्विसेसभावाओ ।
तं नस्थि खपुष्पं पिव संति विसेसा सपचक्वं ॥ २२१४ ।।
जं च विसेसेहिं चिय संववहारो वि कीरए सक्खं । - जम्हा तम्मत्तं चिय फुडं तदत्यंतरमभावो ॥ २२१५ ॥” इति
इत्येवं नैगमव्यवहारयोर्मेंदः सिद्धान्तविदा व्यावर्ण्यते इति ॥ ४ ॥
एतावत्प्रबन्धेन सामान्यप्रस्तारार्थकसङ्ग्रहप्रस्तारस्य मूलव्याकरणी द्रव्यार्थिकनयः, सहव्यवहारौ तद्विकल्पाविति प्रतिपाद्याधुना विशेष प्रस्तारस्य मूलव्याकरणी यः पर्यायार्थिकनयस्तस्य वृक्षस्वरूपस्य मूलमृजुसूत्रनयः शब्दसममिलढवम्भूतनयास्तु तच्छाखाप्रशाखाप्रतिशाखारूपास्स्थूलसूक्ष्मसूक्ष्मतरभेदा इत्येतत्प्रतिपादयितुमाह
मूलनिमेणं पज्जव-णयस्स उज्जुसुअवयणविच्छेदो । तस्स उ सहाईआ, साहपसाहा सुहुमभेया ॥ ५॥ इति गाथासूत्रम् ।
पजवणयस्म पर्यायनयस्य, 'मूलनिमेणं' आधाधारः, स क इत्यत आह-"उज्जुसुयवयणविच्छेदो" ऋजुत्रवचनविच्छेदो लक्षणया विच्छिद्यमानवचनप्रतिपाद्यार्थविषयकर्जु
"Aho Shrutgyanam"