________________
सम्मति• काड, गा.४ तदात्मकानि, न तु वस्तुतस्तदन्यानि सन्तीति । व्यवहारनये तु यावन्तो व्यक्त्यात्मका विशेषा व्यवहारपथमुपगच्छन्ति ते सर्वे वस्तुभृता एव, सामान्यानि च सर्वाण्यतव्यावृत्तिरूपाणि कल्पितान्येव व्यवहारफलकानि, न तु स्वरूपतो वस्तुभूतानीति, तथा च वस्तुभूतं महासामान्य परमार्थतो नाभ्युपगतं सत्तालक्षणमिति तदनभ्युपगमोऽपि सङ्गन्तः, अपोहलक्षणतदभ्युपगमेन सद्रव्यमित्यादिविभजनाऽपि साधुसङ्गता, एवं परापरसामान्यादिविभजनमपि, तत्त. सामान्याधारभृता व्यक्तिलक्षणविशेषा वस्तुभूता इति तद्धर्मतया तान्यपि सामान्यानि वस्तु. भूतानीति व्यवह्रियन्ते, ईदृशविचारसमाश्रयणतोऽवान्तरसामान्याभ्युपगन्तत्वं व्यवहारस्येति भावनीयम् । अत्र सत्ताऽपेक्षया द्रव्यत्वमपरसामान्यम्, पृथिवीत्वापेक्षया परसामान्यम् , पृथिवीत्वमपि द्रव्यत्वाऽपेक्षयाऽपरसामान्यं वृक्षत्वापेक्षया च परसामान्यम् , वृक्षत्वसामान्यमपि पृथिवीत्वापेक्षयाऽपरसामान्यं आम्रत्वापेक्षया च परसामान्यमित्येवं परापरसामान्यानि तत्तद्वयक्तिलक्षणयावदन्त्यविशेषानपि प्रवृत्युपयुक्तानभ्युपगच्छति व्यवहारनय इत्युक्तं भवति । यतो न हि परापरसामान्यविभजनाक्रममनादृत्यान्त्यविशेषाऽभ्युपगमो व्यवहारनयस्य समस्ति, तथा सति व्यवहारस्वरूपमेवासौ जह्यात् , किन्तु सर्वेषां विभक्तानां परापरसामान्यानामन्तिम. विशेषरूपतैवेत्यत्रान्तिमविशेषाभ्युपगमस्य पर्यवसानमिति । ननु नैगमनयोऽपि सत्तालक्षणं महासामान्यमेकं द्रव्यत्वपृथिवीत्वादिकं परापरसामान्यं तदाश्रयविशेषाँश्चाभ्युपगच्छति, अत एव सामान्यविशेषग्राहिणो ये शब्दार्थाध्यवसायास्तद्वृत्तिद्रव्यार्थिकत्वव्याप्यजातिमचमिति तल्लक्षणं सिद्धान्तविदो विदन्ति, तथा च कोऽनयोर्विशेष इति चेव, उच्यते, नेगमस्य नैकविधत्त्वाद् यो नैगमस्सत्तामात्रं महासामान्य मनुते तस्य सङ्ग्रहनयेऽन्तर्भावः, यश्च तद्वयतिरिक्तपरापरसामान्यानि तदाश्रयव्यक्तीचोररीकरोति तस्य व्यवहारनयेऽन्तर्भावः कर्त्तव्यः । अत एवास्यां गाथायां नैगमो न पृथग् जगृहे, सहव्यवहारातिरिक्ततद्विषयासिद्धेः। तथा च " संवरजस्तमोलक्षणं सामान्यमेकमचेतनं द्रव्यम् , अनेकं च चेतनं द्रव्यमर्थोऽस्तीति द्रव्यार्थिकः, अशुद्धो व्यवहारनयाभिप्रेतार्थाभ्युपगमस्वरूपो बोद्धव्यः, वक्ष्यति चाचार्य:"जं काविलं दरिसणं एयं दबहियस्स बत्तवं ॥ इति बृहट्टीकोक्तेर्व्यवहारनयविषयप्ररूपणा. परसांख्यवादमूलभूतो द्रव्यार्थिकनयोऽशुद्ध इति प्रतिपादितं भवति । वेदान्तप्रकृतिभूतसङ्ग्रहनयेनकतया विषयकृतस्यात्मनो भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद् व्यवहार. प्रकृतिकत्वं साङ्ख्यदर्शनस्य विवक्षितमिति तात्पर्यम् । अत एव "अशुद्धाद् व्यवहाराख्यात्, ततोऽभूत् साङ्ख्यदर्शनम् । चेतनाचेतनद्रव्या-नन्तपर्यायदर्शकम् । १११॥ इति नयोपदेशोक्तं सङ्गच्छते । येषां च मते पृथक नैगमनयो विद्यते तन्मते यद्यपि परसामान्यपरापरसामान्यापरसामान्यानि तदाश्रयविशेषाँश्चाभ्युपगच्छति नैगमो नयस्तथाऽप्यसौ मिथस्सामान्यतदा. श्रयव्यक्त्योर्मेंदमामनुते, यतः सत्तासामान्यं द्रव्यत्वादिकं च स्वाश्रयेभ्योऽभिन्नं स्यात्तदास्वाश्रयवत्तस्याप्यनेकत्वाततस्स्वाश्रयेषु यावत्स्वनुगतधर्मामावात् सत्सत् द्रव्यं द्रव्यमित्या
"Aho Shrutgyanam"