________________
सम्मति. काळ १, गा० ४ वाक्यमपि " इत्युक्तेर्थमर्थ प्रतीतिवाक्यस्वरूपम् , प्रत्यर्थमिति व समस्तरूपमिक, वृक्षं वृक्षं प्रति विद्योतते विद्युदित्यत्र वृक्षं वृक्षं प्रतीतिवाक्यस्वरूपम् , प्रतिवृक्षमिति च समस्त. रूपमिव वा, रूपं रूपं प्रतीति-वाक्यस्वरूपम् , प्रतिरूपमिति तु समस्तरूपम् , तत्र प्रतिशब्दो वीप्सायाम् , रूपशब्दश्च वस्तुन्यत्र प्रवर्तते, तेनायमर्थ:-रूपं रूपं प्रति वस्तु वस्तु प्रति यो वचनार्थनिश्चयस्स व्यवहारो व्यवहारनयः, तस्य द्रव्यार्थिकनयस्य प्रकृतिः स्वभाव इति। तस्य विवेचनमेवं सम्मतितर्के कृतम्-प्रतिरूपमेव वचनार्थनिश्चयो व्यवहारे हेतुन पुनः रस्तित्वमात्रनिश्चयः, यतः 'अस्ति' इत्युक्तेऽपि श्रोता शङ्कामुपगच्छन् लक्ष्यते, अत: 'किमस्ति ' इत्याशङ्कायो' द्रव्यम्' इत्युच्यते, तदपि किम् ? पृथिवी, साऽपि का ? पक्षा, सोऽपि कः १ चूतः, तत्राऽप्यर्थित्वे यावत् 'पुष्पितः'' फलितः' इत्यादि तावनिश्चिनोति यावद्व्यवहारसिद्धिरिति । व्यवहारो हि नानारूपतया सत्ता व्यवस्थापयति, तथैव संव्य. वहारसम्भवात् , अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञां बिभ्रत् अशुद्धा द्रव्यार्थिकप्रकृतिर्भवतीति । अस्यायम्भाव:-यावता विशेषोपगमेनापालगोपालसाधारणो व्यवहारस्समर्थितो भवति तावानेव विशेषसन्तानो व्यवहारविषय इति निर्णीयते । इत्थश्च व्यवहारयोग्यान्तिमविशेषाभ्युपगमरूपो व्यवहारो नैवम्भृते प्रविशति, एवमेव चास्य द्रव्यार्थिकत्वं सुरक्षितं भवति, व्यवहारो हि नानारूपतया सत्ता व्यवस्थापयतीति वचनेन व्यवहारस्य महासामान्यरूपसत्ताभ्युपगमोऽस्तीति न भ्रमितव्यम् , महासामान्यं हि सत्वमेकमेव, तस्थ च नानारूपत्वं बाधितमेव किन्त्वनेन वचनेन महासत्ता नास्त्येव, परन्तु स्वरूपसत्तैव प्रतिव्यक्तिनियता नानेति प्रतिपाद्यते, अत एव स्यादस्त्येव घटा, स्यानास्त्येव घट इत्यादिसप्तमझ्याः सत्तारूपास्तित्वप्रतिपादकस्य प्रथमभङ्गस्य सङ्ग्रहमूलकत्वं सत्ताप्रतिपक्षरूपनास्तित्वात्मकविशेषप्रतिपादकस्य द्वितीयभङ्गस्य व्यवहारमूलकत्वं "एवं सत्तवियप्पो" इत्यादिव्याख्याने प्रतिपादयिष्यमाणं सङ्गच्छत इति । अनुगतव्यवहारस्त्वतधावस्येव विबोध्यः। यद्यपि विशेषमात्राभ्युपगन्त्रा व्यवहारेण किमपि सामान्यमनुगतं वस्तुभूतं नाङ्गीकृतमिति यथा सर्वानुगतं महासामान्यं सत्तास्वरूपं न तदभिमतं तथा द्रव्यत्वाद्यवान्तरसामान्यमपि परापरसामान्यस्वरूपं घटत्वाद्यपरसामान्यस्वरूपं न वस्तुभूतमभिमतम् ,तथापि लौकिकः सर्वोऽपि प्रवृत्तिनिवृत्यादिफलको व्यवहारस्तेनोपपादनीय इति यादृशं द्रव्यत्वादिकमनुगतप्रतीतिनियामकं तेनाश्रयणीयं तादृशं महासामान्यमपि तेनाभ्युपगन्तव्यम्, द्रव्य. त्वादिकश्चातळ्यावृत्तिरूपमपोहशब्दाभिधेयं काल्पनिकं यथा तदभिमतं तथा महासामान्य सत्त्वमपि, अन्यथा सत्-द्रव्यं पृथिवी वृक्ष आम्र इत्यादि सामान्यविशेषाश्रयणप्रवृत्तं व्यवहरणं कथं तस्य सङ्गतं स्यात् । इयांस्तु विशेषः, सङ्ग्रहनये यन्महासामान्यं सत्त्वं तदेव वस्तु, तत्सद्रूपमेव, न तु तदाश्रयः सन् , धर्मधर्मभावानापनमेव तत् , तदेव चावान्तरद्रव्यस्वादिरूपेणानुगतेन व्यक्तिस्वरूपैर्विशेषेवावभासत इत्येतावता सर्वात्मकं सर्वाणि चान्यानि
"Aho Shrutgyanam"