________________
सम्मति० काण्ड , गा। प्रमात्मकप्रतीतो प्रामाण्यं तदितरत्र तदितरदिति विशेष्यविधया भासमानघटपटादयस्सन्त एवाभ्युपगन्तव्याः, स्वसिद्धान्ततत्वमिथ्याभिनिवेशवलात् तत्र प्रकारांशविधया भासमाना ब्रक्षात्मकसत्ता स्वप्रामाणिक्येव, पित्तमण्डूकवसाञ्जनादिदोषबलादेव श्वेतवस्तुमात्रे प्रतीय मानपीतत्ववत् | अथ श्वेतवस्तुमात्रेऽनुगतत्वेन प्रतीयमानमपि पीतत्वं बाधितम् , दोष. निवृत्ती यन्मया प्राक् पीतत्वेनोपलब्धं तन पीतमित्युत्तरकालबाधकप्रत्ययभावात् । ब्रह्म सत्ता तु कालत्रयेऽप्यवाधिता, कदापि तत्र बाधकप्रत्ययाभावादिति कालत्र यावच्छिन्नाबा. धितब्रह्मसत्तैव पारमार्थिकीति चेत् , तर्हि धयंशे ज्ञानमात्रस्य सर्वैरपि प्रेक्षादक्षरविगानेन प्रामाण्याऽभ्युपगमाद् घटः सन् पटस्सन्नित्यादिप्रतीतो धर्मिभूत घटपटादयोऽपि पारमा. र्थिका अभ्युपगन्तव्याः। अथ "सदेव सोम्येदमग्र आसीत् , एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन" इत्यादि श्रुतिश्रवणमनननिदिध्यासनप्रयुक्तसुदृढदशापनामेदभावनाजन्यब्रह्मतत्वसाक्षात्कारे सर्वेषां वस्तूनां मिथ्यारूपतयैव प्रतीयमानत्वाम ते परमार्थतः सत्याः, किन्तु व्यवहारत इति चेद् , मैवम् , पूर्वोत्तरपर्यायाभ्यां स्वद्रव्येण चोत्पादव्ययधौ. व्यानुभवादिप्रमाणेन यदेवोत्पादव्ययध्रौव्ययुक्तं तदेव सदिति साधितत्वेन साधयिष्यमाणत्वेन चोत्पादादिधर्मत्रयाक्रान्तभावावगाह्यबाधितप्रतीतिविषयत्वेन तेषामेव परमार्थतः सदूप. स्वात् । एकान्ताभिन्नैकस्वरूपे ब्रह्मतत्वे उक्तसल्लक्षणस्याऽघटमानत्वेन तस्याऽसद्रूपत्वात् । मेरुवन्नैव केऽपि भावाः शाश्वताः, किन्तु काश्चनकामिन्यादिसंयोगवदनित्या इति शेयबुध्ध्या सम्यग् विज्ञाय प्रत्याख्यानप्रतिज्ञया सर्वथा तत्परित्यागकरणेनैकत्वादिभावनाप्रशस्तध्यानादिरलेन सच्चिदानन्दलक्षणब्रह्मस्वरूपावाप्तावपि तस्य ज्ञेयपरिणतिभेदेन प्रतिक्षणं तद्विषयकज्ञानपरिणतिभेदभावादुत्पादादिसल्लक्षणयुक्तत्वादेव सत्स्वरूपत्वमभ्युपगन्तव्यम् । न च व्यवहारोऽप्याप्तपुरुषव्यवहृतोऽप्रामाणिकः, अन्यथा कश्चेतयिताऽप्रामाणिकव्यवहार मभिजानन् प्रवर्तेत निवर्तेत वेति व्यवहारस्यैव विलोपेन जगन्निरीहं स्यादित्याप्तपुरुषकृतव्यवहारसिद्धिभाजो विभिन्नभावाः परमार्थभूता एवाभ्युपगन्तव्या। किञ्च ब्रह्मात्मकसत्ताविप्रतिपन्नान् प्रति तत्साधकाऽनुमानमेव प्रमाणतया शरणीकर्तव्यम् । तच्च पक्षसाध्यहेत्वादिपरिकरपरिकरितत्वेनाने कपटितमिति तस्य प्रामाण्ये द्वैतापत्तिः । अप्रामाण्ये ब्रह्मा. स्मकसवाऽसिद्धिः, उक्तश्च" हेतोरद्वैतसिद्धिश्चेद् , द्वैतं स्याद्धेतुसाध्ययोः।
हेतुना चेद्विना सिद्धि-द्वैतं वाङ्मावतो न किम् ? ॥१॥" इति एवं ब्रह्माद्वैतवादे "कर्मद्वैतं फलद्वैतं, लोकद्वैतं विरुद्ध्यते । विद्याऽविद्याद्वयं न स्यात, बन्धमोक्षद्वयं तथा ॥१॥" इत्याद्यापत्तिश्च ज्ञेयेति । यद्वा " प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्याद् द्वितीयामर्भ
"Aho Shrutgyanam"