________________
सम्मति
५७
"
प्रकृतिः, कस्य प्रकृतिः किं नयस्वरूपा च सा, स नयश्च किंस्वरूप इत्याशङ्कामुक्तार्थ स्पष्टीकरणेन समाधत्ते - वचनार्थनिश्चयस्तस्य व्यवहार इति, तस्यार्थः पूर्ववदिति । यथाभूतयावद्विषयाम्युपगमे सति प्रवृत्तिनिवृत्युपेक्षालक्षणो लौकिकव्यवहारः प्रवर्त्तते तथाभूततावद्विषयकज्ञानमेव तथाभूतव्यवहारनिदानमभ्युपगन्तव्यम्, तत्र प्रवृत्तिलक्षणो व्यवहार उपादेयतावच्छेदकरूपेणोपादेयविषयको भवतीति तत्रोपादेयतावच्छेदकीभूतो यो धर्म इष्टसाधनतावच्छेदकधर्म पर्यवसितस्तद्रूपेणोपादेयस्येष्टसाधनस्य ज्ञानं कारणम्, एवं निवृत्तिलक्षणो व्यवहारो हेयतावच्छेदकधर्मेण हेयविषयको भवतीति तत्र हेयतावच्छेदकीभूतो योऽनिष्टसाधनतावच्छेद की भूतधर्म पर्यवसितः तद्रूपेण हेयस्य द्विष्टसाधनस्य ज्ञानं कारणम्, एवमुपेक्षालक्षणो व्यवहार उपेक्षणीयतावच्छेदकधर्मरूपेणोपेक्षणीय विषयको भवतीति तत्रोपेक्षणीयतावच्छेदको धर्म इष्टसाधनत्वानिष्टसाधनत्वान्यतरानवच्छेदकधर्म पर्यवसितस्तद्रूपेणोपेक्षणीयस्येष्टसाधनानिष्टसाधनान्यतराऽनात्मकस्य ज्ञानं कारणम् । एवञ्च सङ्ग्रहनयविषयः केवलसत्चैत्र, न वस्तु, तस्याः सत्ताया एकस्या एकरूपत्वस्यैव युक्तत्वेन हेयरूपत्वे निवृत्ति लक्षण एव व्यवहारस्स्यात्, न प्रवृत्यादिरूपः एवमुपादेयरूपत्वे प्रवृत्तिलक्षण एव व्यवहारस्स्यात्, न निवृग्यादिलक्षणः, एवमुपेक्षणीयरूपत्वेऽप्युपेक्षा लक्षण एव व्यवहारस्स्यात्, न तदन्यो व्यवहारः । वस्तुत एकोऽपि व्यवहारस्तत्र न भवेत्, तदवच्छेदकस्य कस्यचिद्धर्मस्य धर्मिभिन्नस्य द्वैतापत्तिभियाऽभ्युपगमात्सम्भवात् इति लोकव्यवहार सिद्ध्यर्थं परस्परतो विभिन्नस्वभावा हेयोपादेयोपेक्षणीयस्वरूपा भावास्तत्तद्धर्मावच्छिन्नास्सन्तो व्यवहारोपयोगिशब्दप्रभवसंवेदने प्रतिभासन्त इत्यभ्युपगन्तव्यमिति व्यवहारनयाभिप्रायः । यश्च सर्व वाक्यं क्रियया परिसमाप्यते " इति नियमः प्रागुक्तः सोऽपि नाभ्युपगम्यते । न च यत्रान्यत्क्रियापदं न श्रूयते तत्रापि " अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्वीति गम्यते " इति भाष्यवार्तिकवचनविरोधस्स्यादिति शङ्कनीयम्, तस्य यत्र किश्चिस्क्रियापदमध्याहर्तुं शक्यते तादृशस्थलविषयकत्वेना सार्वत्रिकत्वात्, यत्र तु स्थले कस्यापि क्रियापदस्य नाध्याहारस्सम्भवति तत्र तु क्रियां विनाऽपि वाक्यपरिसमाप्तिर्भवत्येव यथा त्रयः कालाः' इत्यादौ, अत्र सन्तीत्यध्याहारे भूतभविष्यत्कालयोस्तत्रानन्वयापत्तेः, आसन् इत्यध्याहारे वर्त्तमान भविष्यत्कालयोस्तत्रानन्वयापत्तेः, भविष्यन्तीत्यध्याहारे भूतवर्त्तमानकालयोरन्वयस्तत्र न स्यादिति तत्र क्रियापदं विनैव वाक्यपरिसमाप्तित्रदन्यत्रापि यत्र क्रियापदं न श्रूयते तत्रापि क्रियापदं विनैव परिसमाप्तिः परिकल्पनीयेति ।
44
4
० काण्ड १, गा०-४
यच्च सङ्ग्रहनयमूलप्रकृतिकवेदान्तदर्शने घटपटमठादौ सर्वत्र सन् सन्नित्यनुगत प्रतीतिविषयत्वाद् ब्रह्मात्मकसत्चैव पारमार्थिकीत्याद्यर्थकं प्रागुक्तं तदप्यसङ्गतमेव, यतः प्रतीतिमा - त्रस्य विशेष्यीभूतधर्म्यशे प्रामाण्यमेवाऽविमानेन तवज्ञैस्सर्वैरभ्युपगतं, प्रकारांशे तु
८
"Aho Shrutgyanam"