________________
सम्मति० काण्ड 1, गा. तिरिक्तस्वरूपस्याऽभावे घटः पटादिभिन्नः पटश्च घटादिमिना, अयं ब्राह्मणः अयं राजन्य इत्यादिभेदव्यवहार उच्छिन्नस्स्यादिति वाच्यम् , यत एकस्मिन् चन्द्रमसि तिमिररोगोपप्लुतदशा द्वित्वप्रतिभासवद् भेदप्रतिपादकस्वस्वागमजन्यवासनावासितचित्तानां भेदप्रतिभासेनाभिन्नमपि भिन्नवदाभासत इति पदार्थभेदावमासो भ्रान्त एव, न तु यथार्थ इत्येवं सर्व भेदा. पलापी सर्वे सन्मात्रतया सगृहन् संग्रहः शुद्धा द्रव्यास्तिकनयप्रकृतिरिति व्यवस्थितम् । एतेन द्रव्यार्थिकनयशुद्धप्रकृतिसङ्ग्रहनयविषयप्ररूपणापरस्सच्चिदानन्दस्वरूपब्रह्मवादश्शुद्धद्रव्यार्थिकांशः, तन्मते हि ब्रह्मभिन्नस्याशेषजगतो नामरूपात्मकस्य मिथ्यात्वम् , ब्रह्मणस्त्वद्वितीयसचिदानन्दात्मकस्य त्रिकालाबाधितस्वरूपतया सत्यत्वम् , यतो ब्रह्मैव तेन तेन घटाद्यात्मनाऽवभासते, तथा च सर्पमालावस्त्रादौ सर्वत्रेदस्वरूपस्येव घटपटमठादो सर्वत्र ब्रमात्मकसद्रूपस्यानुगामित्वात्तदेव परमार्थसदिति घटपटादिरूपस्य जगतः सत्ता ब्रह्मसत्तैव, अतो ब्रह्मरूपेण सर्वस्यैकत्वमिति सङ्ग्रहनयमूलकत्वं वेदान्तदर्शनस्येति । भर्तृहरिस्वीकृतशब्दसन्मात्रस्वरूपब्रह्मवादोऽपि शुद्धसङ्ग्रहनयमूलक एव, वैयाकरणाभ्युपगतिरप्येतद्वादावलम्बि. न्येच, एतन्मते शब्दब्रमस्वरूपेण सर्वस्यैक्यात् । उक्तश्च वाक्यपदीये ग्रन्थे प्रथमकाण्डे "अनादिनिधनं ब्रह्म, शब्दतत्वं यदक्षरम् । विवर्ततेऽर्थभावेन, प्रक्रिया जगतो यतः ॥ १ ॥ न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं, सर्व शब्देन भासते ॥२॥ वायूपता चेद् व्युत्क्रामे-दवबोधस्य शाश्वती । न प्रकाशःप्रकाशेत, सा हि प्रत्यवमर्शिनी॥३॥" इति । अत एव नयोपदेशे "जातं द्रव्याथिकाच्छुद्धादर्शनं ब्रह्मवादिनां । तत्रैके शब्दसन्मानं चित्सन्मानं परे जगुः ॥ ११० ॥ इत्युक्तं सङ्गच्छते । नन्वनेन द्रव्यार्थिकन यस्य सनहनयप्ररूपणाविषयविषयकज्ञानरूपा शुद्धा प्रकृतिरुक्ता, अस्याऽशुद्धा प्रकृतिः केत्याशङ्कायां तामुपदर्शयितुमुत्तराद्धमाह " पडिरूवे पुण वयणस्थनिच्छओ तस्स ववहारो" प्रतिरूपे पुन: वचनार्थनिश्चयः तस्य व्यवहारः, प्रतिरूपं प्रतिबिम्बं घटादिनाऽशुद्धद्रव्येण सङ्कीर्णा सत्ता, स्वरूपसत्तेति यावत् , तस्मिन्प्रतिरूपे यो वचनार्थनिश्चयस्स व्यवहार:-व्यवहारनयः तस्य द्रव्या. र्थिकस्य पुनरिति प्रकृति स्मारयतीति प्रकृतिः । वचनार्थनिश्चय इत्यस्यायमर्थ:--उच्यत इति वचनम् , हेयोपादेयोपेक्षणीयविषयनिवृत्तिप्रवृत्युपेक्षालक्षणव्यवहारसम्पादनार्थमुच्यमानं घटोऽस्तीत्यादिवाक्यम् , तस्य घट इति विशेषस्वरूपतयाऽस्तीति सामान्यस्वरूपतयाऽभि. धेयो व्यवहारक्षमो योऽर्थः तस्य निश्चयो-निश्चयनं निश्चय:-निर्णयः, व्यवहरणं व्यवहरतीति वा व्यवहारः, लोकप्रसिद्धव्यवहारप्रवर्तनपरो नयो व्यवहारनयः। तथा च निवृत्तिप्रवृत्युपेक्षालक्षणव्यवहारसम्पादकशब्दार्थनिश्चयो व्यवहारनयस्तस्य द्रव्यार्थिकनयस्याऽशुद्धा प्रकृतिरितिभावः । पडिरूवं इत्येवं प्रथमान्तत्वे तु प्रतिरूपं प्रतिबिम्बं विशेषेण घटादिनाऽशुद्धद्रव्येण सङ्कीर्णा सत्तेति यावत् पुनश्शब्देन प्रकृतिः स्मार्यत इति सा प्रकृतिः-स्वभावः । अत्रापि विषयेण विषयिग्रहणं कार्यमिति घटाद्यशुद्धद्रव्यसङ्कीर्णसत्ताग्राहिज्ञानास्मिका
"Aho Shrutgyanam