________________
सम्मति. काट १, पा. ४
द्रव्यार्थिकन यस्य प्रकृतिः शुद्धा सङ्ग्रहप्ररूपणाविषयः, सङ्ग्रहस्य सङ्ग्रहनयस्य प्ररूपणाअभिधायकपदसंहतिः तद्विषयः, अत्र विषयेण विषयिग्रहणं कर्तव्यमिति तद्वाच्यार्थविषयकं यज्ज्ञानं तद्रपा, अशुद्धां तामाह-'पडिस्वे' इत्यादि । घटादिनाऽशुद्धद्रव्येण सह सङ्कीर्णा या सत्ता तल्लक्षणे प्रतिरूपे वचनार्थनिश्चयो व्यवहारस्तस्य द्रव्यार्थिकनयस्थ पुनरिति प्रकृति स्मारयतीति अशुद्धा प्रकृतिरिति सचिसार्थः, विस्तृतार्थस्त्वेवम् "दछद्वियनयपयडी" द्रव्यार्थिकनयप्रकृतिः प्रागुक्तार्थस्य द्रव्यास्तिकनयस्य "संसिद्धिप्रकृती त्विमे स्वरूपं च स्वभावश्च निसर्गश्च" इत्यमरकोशवचनात् प्रकृतिस्स्वभावः 'सुद्धा' शुद्धा विशेषाऽसंमिश्रा विशेषानवगाहिनीति यावत् । सा केत्यत आह-'संगहपरूवणाविसओ' इति, सङ्ग्रहप्ररूपणाविषय इति । सङ्गृह्णाति सामान्यरूपतया सर्व वस्तु क्रोडी. करोतीति सङ्ग्रहः । यद्वा सर्वेऽपि भेदास्सामान्यरूपतया सङ्गह्यन्तेऽनेनेति सङ्ग्रहः, सर्ववस्त्व. भेदग्राहिनयः सङ्ग्रहनय इति यावत् , तस्य प्ररूपणा-घटायर्थो वक्त्रा प्ररूप्यते प्रतिपाद्यतेऽनया सा प्ररूपणा-इति व्युत्पत्तिसिद्धाऽभिधायकपदसंहतिः, तस्या विषयः प्रतिपाद्यः, अत्र सङ्ग्रहप्ररूपणाविषय इत्यनेनोपचारतो विषयेण विषयिणोऽभिधानात् सङ्ग्रहप्ररूपणाऽमिधेयार्थविषयक ज्ञानं ग्राह्यम् , अन्यथा का प्रस्तावः शुद्धद्रव्यार्थि केऽभिधातुं प्रक्रान्ते सङ्ग्रह प्ररूपणाविषयाऽभिधानस्य ?, यतः शुद्धद्रव्यार्थिकनयो ज्ञानात्मक इति तत्प्रकृतिश्शुद्धा सङ्ग्रहनयज्ञानात्मिकेत्यभिधातुं युक्तम्, न तु सङ्ग्रहप्ररूपणाविषय इति, ननु सङ्ग्रहनयाभिप्रायतस्सङ्ग्रहप्ररूपणाऽभिधेयः सदात्मकभाव एवेत्यत्र का युक्तिरिति चेत् , उच्यते, यानि सुबन्तानि तिङन्तानि वा पदानि वाक्यानि वा तदर्थमात्रस्य भावस्वरूपव्यतिरिक्तत्वे शशशृङ्गकल्पत्वापत्या सुबन्तार्थत्वं तिङन्तार्थत्वं वा न स्यादिति तयोः सन्मात्रस्वरूपभाव. रूपत्वमेवेति, ननु यत्र तिङन्तक्रियापदं न श्रूयते तत्र का गतिरिति चेत्, उच्यते, तत्रा. स्तिभवतीत्यादिक्रियाऽध्याहार्या, अत एव वैयाकरणैः " सर्व वाक्यं क्रियया परिसमाप्यते" इति मन्यते, उक्ताशयेनैव "अस्तिभवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते" इति पातञ्जलभाष्येऽपि (अध्याय २, पा.३, सू. १, वार्तिक ११) इत्युक्तं सङ्गच्छते । शशशृङ्गादे - नाभावाज्ज्ञानविषयत्वं सद्पताव्याप्यमिति सद्रूपत्वे सत्येव पदार्थानामवगतिर्भवितुमर्हति, नान्यथा, सदूपत्वपरित्यागे घटपटादिवस्तुमात्रं निस्स्वरूपं स्यादित्यस्त्यर्थः सत्तालक्षणोऽर्थः सर्वशब्दानाम् , तथा चान्तर्णीताशेषविशेष सन्मात्रमेवाध्यक्षस्य शब्दस्य वा विषय इति सिद्धम्। नन्वेवं घटत्वेन घटोऽयं पटत्वेन पटोऽयमित्याद्याकारमपि ज्ञानमनुभूयते, न च घटत्वं पटत्वादिकं वा सत्तात्मकम् , तस्य तद्वयाप्यत्वेन विशेषरूपत्वादिति चेद्, घटत्वपटत्वादि. विशेषोऽपि सन्नेव अन्यथा शशशृङ्गादेरिव तस्य ज्ञानविषयत्वं न भवेत् अतस्सर्वविशेषात्मक सन्नेव कदाचिद् घट इति कदाचिच्च पट इत्यादिरूपेण प्रतिभासते, यथैकमेव पानकद्रव्यं मधुरादिरसमयं मधुरादितत्तद्रसात्मना प्रतीयते तद्वत्प्रकृतेऽपि । न च घटपटादेः सद्रूपव्य
"Aho Shrutgyanam"