________________
सम्मति• काण्ड 1, गा•४ ऋजुसूत्रनयेन वर्तमानावश्यकपर्याये द्रव्योपचारः क्रियत इत्यौपचारिकद्रव्यावश्यकाभ्युपगमेऽपि न पर्यायार्थिकन यचतुर्भेदक्षतिः, तेन नयेन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपकरणाव, मुख्येनैव च विभागो युक्त इति । अत्र वैशेषिकमते भावत्वाभावत्वयोः पदार्थत्वव्याप्यत्वविवक्षां कृत्वा भावः षड्विधः अभावश्च चतुर्विध इति विभागवद् द्रव्यार्थिकत्वपर्यायार्थिकत्वयोनयत्वव्याप्यत्वविवक्षा कृत्वैव द्रव्यार्थिकः तत्तत्सरिकतविवक्षाभेदतो द्विविधस्त्रिविधश्चतुर्विषो वा, पर्यायाथिकनयश्च चतुर्विधस्त्रिविधो वा इति विभक्तविभागः कृतः । वैशेषिकमते भावत्वाभावत्वयोः पदार्थत्वव्याप्यत्वेऽपि तदविवक्षायां द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वानां पदार्थत्वव्याप्यत्वे सति पदार्थत्वव्याप्याव्याप्यत्वलक्षणविभाजकत्वात्तद्रूपेण यथा पदार्थविभागोऽङ्गीक्रियते तथाऽऽहंतमतेऽपि द्रव्यार्थिकत्वपर्यायार्थिकत्वयोनयत्वव्याप्यत्वेऽपि तदविवक्षायां तु सङ्ग्रहत्वनेगमत्वादिसप्तधर्माणां नयविभाजकत्वात्तद्रपेण मूलसप्तनयविभाग एव युक्तः। उक्ताशयेनैव “से किं तं नए ? सत्त मूलणया पन्नत्ता तं जहा-णेगमे, संगहे, ववहारे, उज्जुसुए, सद्दे, सममिरूदे, एवंभूए, इति सूत्रं सङ्गच्छते, न तु भावाभावद्रव्यगुणकर्मसामान्यविशेषसमवायप्रागभावध्वंसाऽत्यन्ताभावाऽन्योन्याभावा द्वादश पदार्था इतिवद् द्रव्यार्थिकपर्यायार्थिकनैगमसनव्यवहारर्जुसूत्रशब्दसमभिरूढवम्भृता नव नया इति मूलनयविभागो युक्ता, किन्तु द्रव्यत्वगुणत्वादीनां सप्तधर्माणां मिथो विरोधिधर्मत्ववद्भावत्वाभावत्वयोर्न द्रव्यत्वगुणत्वादिभिस्सह मिथो विरोधिधर्मत्वमिति तद्घटितधविभागाभाववन्नैगमत्वसवहत्वादिसप्तधर्माणां मिथो विरोधिधर्मत्वात्तद्रूपेण मृल. नयविभागसम्भवेऽपि द्रव्यार्थिकत्वपर्यायार्थिकत्वयो गमत्वसङ्ग्रहत्वादिधर्मेस्सह मिथो विरोधाभावात्तद्घटितनवधर्मेण मूलनयविमागाभाव एव युक्तः, अत एव न्यायाचार्यश्रीयशोविजयोपाध्यायैस्स्वकृततत्वार्थविवरणे "एतेन नवनया द्रव्यार्थिकः पर्यायार्थको नैगमः सनहश्चेत्यादिविभागो जैनाभासस्य दिकपटदेशीयस्य देवसेनस्य निरस्तो द्रष्टव्यः, भेदप्रभेदानां सहोक्तो विभागवाक्यविधातात् , "न हि भवति मू मूर्तपृथिव्यप्तेजोवावाकाशकालदिगात्ममनास्येकादश द्रव्याणीति विभजतो वैशेषिकबालस्य चतुर्दशभूतग्रामे त्रसेवरमेदद्वयं प्रक्षिप्य षोडशधा विभजतो वाऽऽर्हतवालस्य नोपहासः' इत्युक्तं सङ्गच्छते ॥३॥ ___ अथ "सेसा वियप्पा सिं" इत्यनेनैतत्प्रकरणकारमतेन सङ्ग्रहप्रस्तारमूलव्याकरणिद्रव्यार्थिकस्य सङ्ग्रहव्यवहारनयाख्यो द्वौ विकल्पी ग्राह्यो, अत एवोत्तरगाथायामुक्तभेदद्वयस्यैव शुद्धाशुद्धस्वभावप्रदर्शनं कृतं, तत्राद्यो भेदः शुद्धस्वमात्रः, द्वितीयस्त्वशुद्धस्वभाव इति प्रतिपादयितुं चतुर्थी गाथामाह सूरिः
दव्वट्टियनयपयडी सुद्धा संगहपरूवणाविसओ।। (पडिरूवे) पडिरूवं पुण वयणस्थनिच्छओ तस्स ववहारो ॥ ४ ॥ .
"Aho Shrutgyanam"