________________
सम्मति० काण्ड १, गा० ३ न भवतीति च व्यावृत्तप्रत्ययस्यावाध्यमानस्य प्रतिप्राणिप्रतीतेः, तथा चैतदनुमानसिद्धौ यौ द्रव्यपर्यायव्यतिरिक्तो सामान्यविशेषौ तद्ग्राहिणावतिरिक्तनयो किमिति नोक्तावित्यपि शङ्का निरस्ता, तयोर्द्रव्यपर्यायान्तर्भावात् , तथाहि ऊर्ध्वतासामान्यतिर्यक्सामान्यभेदेन सामान्यं द्विविधम् , तत्र पूर्वापरपर्यायेष्वनुगतप्रतीतिविषयीभूतं त्रिकालानुयायिवस्त्वंशलक्षणमूर्ध्वतासामान्यं द्रव्यरूपमेव, तस्यैव तद्रूपत्वात् , "पूर्वोत्तराखिलविवर्तसमूहवर्ति, द्रव्यस्वभावमिति युक्तिवलात्प्रसिद्धम् । . सामान्यमन्वयधियः पदमूर्खताख्यम् , येन प्रमुक्तमिह किञ्चन नास्ति वस्तु॥"
इत्युक्तेः। तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं शब्दसङ्केतोपयोगित्वेन व्यञ्जनपर्याय एवान्तर्भूतम् , " स्थला: कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्यायाः" इति प्रावनिकप्रसिद्धेः । विशेषोऽपि पर्याय एवान्तर्भूत इति नैताभ्यामधिकनयावकाशः । एवं भेदोऽपि पर्यायात्मा अभेदश्च द्रव्यात्मेति न ताभ्यामप्यतिरिक्तनयावकाश इति । अत्र छन्दोमङ्गभयात् 'पर्यायास्तिक' इति वक्तव्ये 'पर्यवनयः' इत्युक्तम् , तेन पर्यायास्तिकेत्यस्याप्ययमर्थः, पर्येत्युत्पादविनाशौ प्रामोतीति पर्यायः, तत्रैव 'अस्तीति मतिरस्य स पर्यायास्तिकः, यद्वा पर्याय एवार्थः पर्यायार्थः, सोऽस्ति यस्यासौ पर्यायार्थिकः, यहा पर्याये न तु द्रव्ये स्थित इति पर्यायस्थितः। तत्र पर्यायास्तिकनयमतश्चैवम्-शुद्धद्रव्यार्थिकनयेन ब्रह्ममात्रस्यैव सत्त्वाऽभ्युपगमे एको बद्धः, एको मुक्ता, एकः सुखी, एको दुःखी, एको रङ्क, एको धनाढ्य इत्यादिभेद व्यवस्थोच्छिन्ना स्यात् , सा काल्पनिकीति चेत्, तर्हि ब्रह्मैव सदित्यपि कल्पनाशिल्पिनिर्मितस्वसिद्धान्तवासनाप्रभवत्वेन काल्पनिकं किन्न स्यात् । नन्वभेदप्रतीतेस्त्रिकालाबाधितत्वात्तद्विषयीभूतोऽभेद एवं युक्तो न तु भेद इति चेत् , तर्हि चन्धमोक्षव्यवस्थानुपपत्तिस्स्यात्, यत आत्मनो बद्धत्वे मोक्षस्य तद्विरुद्धधर्मत्वात्तदनुपपत्तिः, पूर्व बद्धः पश्चान्मुक्त इति चेत्, तर्हि विरुद्धधर्माध्यासाझेदापत्तिरिति नैकस्य स्थिरस्य बन्धमोक्षाविति । कालत्रयवर्ति न किञ्चिदपि वस्तु सत्, क्रमयोगपद्याभ्यामक्रियाकारिस्वाभावात् , किन्तु यत्सत्तक्षणिकमिति व्याः क्षणिकमेव सत् , अत एवैतन्मते उत्पादध्यययोरर्थक्रियाकारित्वलक्षणसत्त्वनियतत्वात् सत्ववद्वस्तुमात्रं तच्छालीति गीयते, तस्मा. पर्यायार्थिकनयाऽभ्युपगतार्थवाधने द्रव्यार्थिनययुक्तय इव द्रव्यार्थिकनयाभ्युपगतविषय. बाधने पर्यायार्थिकनययुक्तयोऽपि तुल्यवदेवोजम्मन्त इति नैकत्र पक्षपातः कार्य:, किन्तु परस्परसापेक्षद्रव्यपर्यायोभयोपग्रह एव विधेय इति तत्वम् , अत एवान्ययोगद्वात्रिंशिकायां कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिपादैः
" य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव । .. परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन ! शासनं ते ॥ २६ ॥"
"Aho Shrutgyanam"