________________
सम्मति० काम्फ १, गा० ३
५१
ज्ञाता वा सङ्ग्रहप्रस्तारस्य सङ्ग्रहव्यवहारनयात्मकस्य, नैगमस्य सङ्ग्रहव्यवहारानन्तर्भावे तु नैगमसहव्यवहारात्मकस्य वाऽऽद्यो वक्ता ज्ञाता वा द्रव्यार्थिकनयः । विशेष प्रस्तारस्य चर्जुसूत्रशब्दादेराद्यो वक्ता ज्ञाता वा पर्यायार्थिकनयः, तदेवाह - दवडिओत्ति, द्रु गताविति धातु:, ततश्च द्रवति तास्तान् स्वपर्यायान् प्राप्नोति मुञ्चति वेति तद् द्रव्यम्, यद्वा द्रवति गच्छति तास्तान् पर्यायानिति द्रव्यम्, कर्त्तरि यत् पूर्वोत्तरपर्यायानुगाम्यूर्ध्व तासामान्याख्यद्रव्यमिति भावः, अस्तीति मतिर्यस्यास्ति स आस्तिको द्रव्ये आस्तिको न तु पर्याये, तन्मते परमार्थभूतपर्यायाभावादिति द्रव्यास्तिका, द्रव्य - आस्तिकयोस्समासः । यद्वा द्रव्यमेवार्थी यस्य न तु पर्यायाः स द्रव्यार्थः, द्रव्यार्थ एव द्रव्यार्थिकः । स्वार्थिकोऽत्र ठन् प्रत्ययः । अथवा द्रव्ये वस्तुतत्वबुद्ध्या स्थितः न तु पर्यांये इति द्रव्यस्थितः । अयं हि नयों द्रव्यमेव मृदादिलक्षणं निखिलस्थासकोश कुशूलकपालघटाद्याकारानुयायि वस्तु सन्मन्यते, तस्यैव तदाकारानुयायिनः स्थासोऽपि मृत् कोशोऽपि मृदित्येवमनुगत प्रतीतिविषयत्वात्, स्थासकोशाद्याकाराणां तु वासनाविशेषप्रभवविकल्पसिद्धत्वेनापारमार्थिकत्वात् । तदुक्तं नयोपदेशे
44
तिर्यगूर्ध्वप्रचयिनः, पर्यायाः खलु कल्पिताः ।
सत्यं तेष्वन्वयि द्रव्यं, कुण्डलादिषु हेमवत् ॥ १ ॥” इति
इदं हि मतमशुद्ध मूलभूताशुद्धद्रव्यार्थिकनयस्य, शुद्धद्रव्यार्थिकनयस्तु शुद्धसङ्ग्रहनयमूलत्वेन मृद्रव्यहेमद्रव्यादिकमपि तस्य सत्सामान्यापेक्षया भेदरूपत्वेन कल्पनाशिल्पिनिर्मितमेव मनुते, वस्तुतो वस्तु मेदाभावात्, किन्तु 'सदेव सोम्येदमग्र आसीत् । एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन' इत्यादि श्रुतिसिद्धं ब्रह्मैव सत्, स्वस्त्रपर्यायानुगत
मृद्रव्यादिष्वपि सर्वेषु सत्सदित्यनुगतप्रतीतेः, यदेवावाधितकालत्रयानुगतप्रत्ययगोचरीभूतं तदेव सत्, नान्यत्, अत एवैतन्मते त्रिकालाबाधितत्वं पारमार्थिक सच्चं गीयत इति । पजवणओ - इति-परि समन्तात् अवनं अत्रः - पर्यवो- विशेषः, नयनं नयः, वस्त्वेकांशपरिच्छेदः, पर्यवाणां नयः पर्यवनयः, अत्र लुप्तषष्ट्या विषयत्वार्थकत्वेन पर्यवविषयको ज्ञानारमको नयः पर्यवनयः, पर्यवाभ्युपगन्ता नयः पर्यवनय इति यावत्, लुप्तषच्या वा प्रतिपादकत्वार्थकत्वेन पर्यत्रप्रतिपादको वाक्यात्मको नयः पर्यवनय इति । ननु गुणविषयक - स्तृतीयो गुणार्थिकनयोऽप्यत्र किमिति नोक्त इति चेत्, उच्यते, गुणस्य पर्याय एवान्तभूतत्वेन पर्यायार्थिक इत्यत्र पर्यायशब्दस्य पर्यायसामान्यवाचित्वात्तेन क्रमभाविपर्यायसहभाविगुणोभयाभिधानात्पर्यायार्थिकनयेनैव चरितार्थत्वात् । एतेन अर्थ: सामान्यविशेषात्मा अन्यथानुपपद्यमानाऽबाध्यमानानुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्, न चात्र हेत्वसिद्धिः, तत्तघटेषु घटोsयं घटोऽयमित्यनुगतप्रत्ययस्य ताम्रो मार्तिकः सौवर्ण इति पटादिर्वा
"Aho Shrutgyanam"