________________
सम्मति • काण्ड १, ०३
५०
किमपि व्यभिचारस्थलं न स्यात्, यस्मिन् यस्मिन् अनुमाने व्यभिचारो यत्र तदन्यत्वविशेषणदानस्य सुलभत्वात्, तस्मादुभयसंप्रतिपन्न स्पष्टाक्षरान्यथाऽनुपपच्या भगवन्मुखोच्चरितैव सेत्यभ्युपगन्तव्यम्, किञ्च स्याद्वादभाषायां भगवतोऽचिन्त्य पुण्यसंभारतया तन्मुखो चरितत्वाभ्युपगमे न किमपि प्रतिबन्धकमिति तत्र कुड्यादिनिस्सृतत्वस्य तत्र च भगवदतिशय कारणकत्वस्य तादृशदेशनायां भगवन्मुखोच्चरितत्वोपचारस्य च कल्पनायां बीजाभावान्न तथा क्लिष्टकल्पना युक्तिमती । किश्च लोके दृश्यमानमेवाचिन्त्यशक्तिकभगवदतिशय प्रभावाद्विशिष्टतरं भवति, न स्वदृष्टम्, तथा च पुरुषमुखोच्चरितैव भाषा लोकेऽनेकार्थबोधिनी दृश्यत इति भगवदतिशयप्रभावाद्. भगवन्मुखोश्च्चरितंत्र भाषाऽनन्तार्थबोधिनी भवति । सामान्यपुंसां यथाक्षयोपशमं क्वचित्कदाचित्परिमितार्थबोधेऽपि पुरुषधौरेय पुंसामपायापगमाऽतिशय हेतु कज्ञानातिशयात्प्रतिक्षणमपरिमितनिश्शेषार्थ साक्षात्कारवदिति कल्पनैव युक्तिमती, दृष्टानुसारिणी कल्पनैव प्रामाणिकी न त्वदृष्टानुसारिणीति न्यायात् अधिकमस्मत्कृततच्चार्थ विवरण गूढार्थदीपिकाख्यटीकातोऽवसेयम् । एतेन केवलज्ञानावाप्तौ कृतकृत्यत्वात् किमर्थ तीर्थकरणे प्रवर्त्तन्ते तीर्थकरा इत्यप्याशङ्का निरस्ता, यदि ते मुक्तात्मवत्सर्वथा कृतकृत्यास्स्युस्तदा नैव प्रवर्तेरन्, न चैत्रम्, अद्यापि भवोपग्राहि कर्मचतुष्टयस्यावशिष्टत्वात्, तदन्तर्गत पूर्वत् तीय भवाराधितविंशतिस्थानक्कतपोबलनिकाचितबद्धतीर्थकर नामकर्मोदयादेव तीर्थकरणे प्रवर्तन्त इति । उक्तश्च~" तीर्थप्रवर्त्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम | तस्योदयात्कृतार्थोऽप्य - हँस्तीर्थं प्रवर्त्तयति ॥ १ ॥
तत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्त्तनाय, प्रवर्त्तते तीर्थकर एवम् ॥ २ ॥ " इति ॥
तीर्थकराणां वचनं आचाराङ्गादिद्वादशविधं तीर्थकरवचनम्, न चाऽऽचाराङ्गादिवचनस्य गणधरभगवत्प्रणीतत्वान्नैवमिति वाच्यम्, यतः तच्छन्दतो गणधर भगवत्प्रणीत मध्यर्थतोऽईत्प्रभुनिर्दिष्टमेव, यदभिहितं 'अत्थं मासइ अरिहा, सुत्तं गंथंति गणहरा निउणं' इति, तस्य सङ्ग्रहविशेषौ, सम्यक् गृह्यते अनुगतबुद्ध्या ज्ञायते इति सङ्ग्रहः पूर्वोत्तरपर्यायेष्वनुगत बुद्धिजनक मूर्ध्वता सामान्यशब्दवाच्यं द्रव्यम्, न तु सदृशपरिणामलक्षणतिर्यक् सामान्य शब्दवाच्यम्, तस्य व्यञ्जनपर्याय एवान्तर्भावात्, विशिष्यते व्यावृत्तबुद्ध्या ज्ञायत इति विशेषो व्यावृत्तबुद्धिविषयो विशेष शब्दवाच्य सहभाविक्रमभाविभेदभिन्नः पर्यायः, सङ्ग्रह विशेषश्व सङ्ग्रहविशेष द्रव्यपर्यायौ, तयोः प्रस्तारः प्रस्तीर्यते विस्तीर्यते येन नयराशिना सङ्ग्रहादि - केनासौ प्रस्तारः, तस्य मूलव्याकरणी, " मूलमाद्ये शिफार्मयोः " इत्यमरकोशवचनान्मूलं आद्यम्, व्याक्रियते व्याख्यायतेऽनेनेति व्याकरणं व्याख्यानम्, तद्यस्यास्तीति व्याकरणी, मूलं चासौ व्याकरणी मूलव्याकरणी, आद्यव्याख्याता, व्याख्यानश्च न ज्ञानादृत इति आद्य
"Aho Shrutgyanam"