________________
सम्मति. काण्ड , गा.. मादरणीयमेव प्रेधावद्भिः विषयाधिकारिसम्बन्धप्रयोजनात्मकानुबन्धचतुष्टयशालित्वात् , यौवं तवं, यथोन्मत्तवाक्यमिति । तत्रानुबन्धत्वं नाम प्रवृत्तिजनकज्ञानजनकज्ञान. विषयत्वं प्रवृत्तिप्रयोजकज्ञानविषयत्वं वा, तत्सङ्गमनश्चैवम्-प्रवृत्तिरत्र शास्त्राध्ययन विषयिका, तजनकज्ञानमिदं शास्त्राध्ययन मदिष्टसाधनमित्याकारकं ज्ञान मत्कृतिसाध्य. मित्याकारकं ज्ञानच, तच्च विशिष्टबुद्धौ विशेषणवानं कारणमिति नियमेन तत्र विशेषणी. भूतस्य मदित्यस्येष्टेत्यस्य च ज्ञाने सत्येव भवतीति तजनकज्ञानमस्य शास्त्रस्याः ध्ययनेऽहमधिकारीति ज्ञानम्, एतच्छात्राध्ययनस्यैतच्छास्त्रवाच्यार्थज्ञानं साक्षात् मोक्षश्च परम्परया फलमितीष्टज्ञानञ्च, तद्विषयत्वमधिकारिणि प्रयोजने च वर्तते, अस्य शास्त्रस्य द्रव्यानुयोगविषयप्रतिपादनपरत्वात्तदभिधेयस्य सामान्यतो ज्ञाने सत्येवेदं शाखें मत्कृतिसाध्यमिति ज्ञानं भवति, तथा शास्त्रस्याभिधेयेन सह प्रतिपाद्यप्रतिपादकमावसम्बन्धस्य ज्ञाने सत्येवेदं शास्त्रं मदिष्टसाधनमिति ज्ञानं सम्भवतीति प्रवृत्तिजनककृति. साध्यत्वप्रकारकप्रकृतशास्त्रविशेष्यकज्ञानजनकमभिधेयज्ञानं प्रवृत्तिजनकेष्टसाधनत्वप्रकारका प्रकृतशास्त्रविशेष्यकज्ञानजनकच प्रतिपाद्यप्रतिपादकभावसम्बन्धज्ञानम् , एवं प्रयोजनेन तत्वज्ञानेन सहास्य शास्त्रस्य जन्यजनकभावसम्बन्धज्ञानश्च, तद्विषयत्वमभिधेये सम्बन्धे च वर्तत इति । अत्राक्षेपपरिहारौ अन्धगौरवभियाऽनुक्तौ बृहट्टीकातोऽवसे यौ, इति द्वितीयकारिकार्थः परिपूर्णभावं नीत इति ॥ २ ॥
अथ भेदप्रभेदविशिष्टमूलभेदोपेतं नयस्वरूपं सूक्ष्मेक्षिकया यावन्नावगच्छति तावतस्य पुंसो नयविषयकसमीक्षाया अभावेनाविचारितरमणीयतयाऽयुक्तं युक्तं युक्तमप्ययुक्तं प्रतिमासेत, एवञ्चार्थानां युक्तायुक्तत्वविभागोऽपि प्रमाणगोचरचारी न स्यात्, अन्यथा प्रतिपत्तेः, तदेवाह भाष्यसुधाम्भोधि:-" अत्थं जो न सम्मिक्खइ, निक्खेवनयप्पमामओ विहिणा । तस्साऽजुत्तं जुत्तं जुत्तमजुत्तं वा पडिहाइ ॥२२७३।" इति। एवं "दुष्टांशच्छेदतो नांही दूषयेद्विषकण्टकः" इति न्यायात् स्याद्वादप्रमाणसम्राटपदस्थानीयर्जुसूत्रनयस्यैकान्तस्वावगाहिदुष्टांशं बहुव्यवहारोच्छेदकं विषकण्टककल्पेन न्यायनयेनादिव्युत्पत्त्यापायकेन यदि तत्तत्रयविधिज्ञो न स्यात्तदा कथं निराकुर्यात् , किश्च जैनागमेऽपि यदज्ञानद्वेषादिदोषकलुषितेन केनापि जमाल्यादिनेव दोषबुद्धयाऽनन्तांशात्मकस्य वस्तुन एकाग्रंशमन्यथा परिगृहीतं तदपि विशेषतो नयज्ञानं विना नयोक्तिभिर्यथार्थतया कथं स्थापयेत् । एवं ____नथि नयेहि विहूणं सुत्तं, अत्थो य जिणमए किंचि।।
आसज्ज उ सोयारं नए, नयविसारओ बूया ।। २२७७॥" इति भाष्योक्तेः दृष्टिवादे कालिकश्रुते च एतत्सूत्रमेतनयापेक्षया एतत्सूत्रश्चैतन्त्रयाऽ. पेषया अयमर्थ एतनयापेक्षया अयमर्थश्चैतनयापेक्षयेत्यपि तत्तनयज्ञानं विना कथं जानी:
"Aho Shrutgyanam"