________________
सम्मति• काट १, गा.. पदंप्राप्तिरूपमक्सेयम् । वीतरागशासनतस्वामृतरसपायित्वेन सद्भावतः परानुग्रहैकलीनचित्तानां तस्याऽवश्यम्भावाद , यतो न हि शास्त्रपरमरहस्यवेदिनस्साक्षात्परम्परया वा निश्रेयसार्थ न भवति तत्प्रतिपादनायोत्सहन्ते, प्राज्ञत्वहानेः, श्रोतुस्त्वप्रधानं हेयोपादेयोपेक्षणीयेबर्थेषु हानोपादानोपेक्षालक्षणम् । प्रधानन्तु संसारकारागृहबन्धनकारणीभूतं निखिलं हेयार्थतवं ज्ञपरिज्ञया हेयत्वेन विज्ञाय तस्य त्रिकरणयोगतः प्रत्याख्यानपरिज्ञया प्रत्यारूयानेन प्रत्याख्याय च मुत्येककारणीभूतं निश्शेषोपादेयतवश्व ग्रहणबुद्धया यथार्थभावेन गृहीत्वा उपेक्षणीयार्थश्च सर्व कृतपूजनस्तुत्यादिकृतनिन्दाताडनादिजनोपरि रागद्वेषाऽकरणलक्षणमाध्यस्थ्यवृत्योपेक्ष्य च सग्गृहीतसम्यग्ज्ञानक्रियात्मकसन्मार्गस्य सम्यगाराधना कस्वा तदुत्तरोत्तरोत्तमोत्तमभवसुदृढतदभ्याससात्मीमावेनाविकलकारणसामग्यवाप्त्या मुक्तिलक्षणं योध्यम् , उक्तश्च
"सम्यग्भावपरिज्ञाना-द्विरक्ता भवतो जनाः।
क्रियाऽऽसक्ता विघ्नेन, गच्छन्ति परमां गतिम् " ॥ १ ॥ इति । तब सर्वेषां बुद्धिमतामविगानेनाभीष्टमनुगुणोपायश्चेति निष्प्रयोजनवानभिमतप्रयोजनत्वाशझे सुतरामेव व्युदस्ते । अभिधेयसम्बन्धौ तु सामर्थ्याद्गम्येते, तथाहि
__ आगममलारहृदयनिष्ठसमयपरमार्थविस्तरविहाटजनपर्युपासनसकर्णताप्रयोजकद्रव्यानुयोगविषय एतत्प्रकरणप्रतिपाद्योऽर्थोऽभिधेयः, अनेनाभिधेयशून्यत्वारेका निरस्ता, अमुष्य चाभिधेयस्य स्वज्ञानद्वाराऽभ्युदयनिक श्रेयसोपयोगित्वादवश्यं मोक्षार्थिनोपादेयतयाऽनुपादेय. स्वाशङ्का दस्त एवं निरस्ता, सम्बन्धस्त्वभिधेयेन सहास्य शास्त्रस्य वाच्यवाचकभाव. लक्षणोऽनुक्तोऽपि श्रूयमाणतत्तच्छब्दवाच्यतत्तदर्थविषयकशाब्दबोधान्यथानुपपत्तिबलादेव गम्यते । सम्मतितर्कप्रकरणमुपाय:, तदर्थज्ञानमुपेयः, स च प्रयोजनाभिधानादेवाभिहित इत्युपायोपेयभावसम्बन्धोऽप्यत्र ज्ञेयः । एतत्प्रकरणोक्तार्थसन्दोहोऽपि न स्वकपोलकल्पनाशिल्पिनिर्मिता, किन्तु चतुर्दशपूर्व विद्गणधर श्रीगौतमस्वाम्यादिगुरुपरम्पराऽऽयात इति गुरुपर्वक्रमसम्बन्धोऽपि, एतत्प्रकरणवाच्यार्थतद्विषयकज्ञानयोर्विषयविषयिभावसम्बन्धोऽपि चात्रोक्ष इति सम्बन्धरहितत्वाशङ्काऽनुत्थानोपहतैवेति । अस्याध्ययनेऽधिकारी चैतत्प्रकरणामिहितद्रव्यानुयोगतत्त्वजिज्ञासुरुक्तप्रयोजनकामश्चेत्यनधिकारित्वाशङ्काऽपि दुरापास्ता, तस्मादेतस्प्रकरणप्रतिपाद्यद्रव्यानुयोगतत्रचित्तै काग्यपुरस्सरश्रवणमनननिदिध्यासनक्रमेण स्व. समयपरसमययथार्थाऽयथार्थविवेचने समुद्दीप्तप्रज्ञानां तत्रार्पितयोगानां पुंसां सम्यग्दर्शनं शुद्ध मवति, निक्षेपप्रमाणनयसप्तमङ्गथादिप्रतिपाद्यानेकान्ततत्वज्ञानं च यथार्थ विशिष्टतमं भवति, तेन च चरणकरणयोस्सारं विदित्वा चारित्रपरिणतिश्च विशुद्धा भवतीत्येवं विशिष्टफलोत्पादकसम्यग्मतिविधाय्यनल्पसतर्कगर्भतया यथार्थाऽभिधानं सम्मतितर्काख्यं प्रकरण.
"Aho Shrutgyanam"