________________
४५
सम्मति० का १, गा० १
"}
वावशब्दे " । ३ । ३ । ३३ । इति पाणिनीयसूत्रस्य प्राप्तेः घञ्प्रत्ययान्त विस्तारशब्दस्यैव प्रयोक्तुमुचिततया नात्रात्प्रत्ययान्तस्य विस्तरशब्दस्य प्रयोगस्समीचीन इति चेत्, मैत्रम्, यशब्दार्थयोरमेदपक्षं समाश्रित्य विस्तरशब्दप्रयोगो विहितः, भेदपक्षेऽपि शब्दार्थयोः पारमार्थिकस्सम्बन्धोऽस्तीति प्रतिपादयितुमेवाभेदविवक्षामाश्रित्यार्थ विस्तारेऽपि शब्दविस्तरत्वं समारोप्य घञोऽप्राप्ति सम्पाद्यावन्तस्यैव प्रयोगः कृत इति, तस्य विहाट इवि विशेषेण हाटयति दीपयति श्रोतृबुद्धौ प्रकाशमानानर्थान् प्रकाशयतीति विहाटः, विपूर्वात् हृद्वातोर्दीपनार्थकाद् घञ्प्रत्ययः 44 हलव | ३ | ३ | १२१ । इति पाणिनीयसूत्रेण, स चासौ जनश्च चतुर्दश पूर्वविदादिश्रुतस्थविरलोको विहाटजनः, तस्य पर्युपासनम् परित उपास्तिरिति पर्युपासनम्, सेवा, आस् उपवेशने इति धातोः पर्युपात्मकोपसर्गद्वयवशतः सेवार्थे वर्तमानाद् भावार्थे ल्युट् प्रत्ययः । पर्युपासनपदेनात्र कारणे कार्योपचारात् सेवाजनितव्याख्यानं लक्षणया बोध्यम्, कारणीभूत सेवासम्पादनेन चतुर्दशविदादिसकाशात् तदीयव्याख्यानप्रवर्तनस्य कारयितुं शक्यत्वात् । तत्र विहाटजन व्याख्याने सहकर्णाभ्यां वर्त्तत इति सकर्णः त्रिकरणयोगसोल्लास श्रवणै कसावधानीकृत कर्ण व्यापारः तद्वयाख्यातार्थसुखग्रहणधारणनिश्चयादिकरण पदुमन्दबुद्धिरपि " जह होइ तमत्थमुन्नेस्सं " यथा इति येन प्रकारेण भवति तं तथाभूतमर्थमुन्नेष्ये लेशतः प्रतिपादयिष्ये । यद्वा " उत् " उपसर्ग उत्कृष्टार्थद्योतक इत्युत्कृष्टतया नेष्ये प्रापयिष्ये, स्वप्रतिपादनमहिम्ना तमर्थ श्रोतृजनबुद्धिविषयीकरणद्वारा ती हृदयंगमं करिष्ये । प्रतिपादयित्रा विदुषा प्रतिपादितोऽप्यर्थी यदि श्रोतृजनबुद्धौ नावतरति तदा प्रतिपादयितुरेव जाड्यमवगम्यते, " वक्तुरेव हि तज्जाड्यं यतः भोता नं बुध्यते " इति न्यायात्, अतश्शास्त्रीयदिव्य चक्षुस्सुगुरु निस्सीम कृपासुधा श्रुतसमुद्रान्तर्निमग्नतावाप्ताऽनर्ध्यगम्भीरातिसूक्ष्माऽनल्पतश्वरत्नसुस्पष्टीकरणप्रकारेण अतिकुण्ठितबुद्धयोऽपि श्रोतृजना यमर्थमर्हच्छास्त्रपरमरहस्यभूतं श्रुत्वा सतात्पर्य विभाव्य विनिश्चित्य च द्रव्यानुयोगविषय कागमाऽतिगहनसूक्ष्मतरानप्यर्थान् सुखेन ग्रहीतुं धारयितुं निखेतुमतिपटुप्रज्ञा इतरसकलशास्त्रेषु प्रामाण्याप्रामाण्यविवेककर्त्तारश्च भवन्ति तमर्थमनेन प्रकरणेनाहमपि प्रतिपादयिष्ये इति भावः । अथाभिधेयसम्बन्धयोस्सामर्थ्याद्गम्यमानत्वेन प्रयोजनार्थितयैव शास्त्रश्रवणादौ श्रोतृजनस्य प्रवृत्तेः प्राधान्येन प्रवृत्यङ्गभूतं प्रयोजनमेव मुख्यवृत्या प्रतिपादयितुमुपन्यस्तयाऽनया गाथया तद् यथा व्यञ्जितं तथोच्यते, तत्र प्रयोजनं द्वेधा कर्तु श्रोतु, पुनर्द्विविधम् अनन्तरं सान्तरं च । तत्र कर्तुरनन्तरं प्रयोजनं आगममलारह्रदय स्समयपरमार्थविस्तरविहाटजन पर्युपासनसकर्णो यथा भवति तथार्थव्युत्पादनं गाथयैव साक्षान्निर्दिष्टम् । श्रोतुस्त्वेतत्प्रकरणार्थप्रतिपत्तिस्तदन्तर्गततया प्रतीयते, सान्तरप्रयोजनन्तु द्वेषा प्रधानम प्रधान, तत्राप्रधानं कर्त्तुस्सच्वानुग्रहख्यात्यादिकम् प्रधानन्तु सर्वोक्तोपदेशेन यः सानामुपग्रहम् । करोति दुःखतानां स प्राप्नोत्यचिराच्छिवम् " ॥ १ ॥ इत्युक्तेः परम
46
.
7
"Aho Shrutgyanam"