________________
४४
सम्मति. काल 1, गा० १ । तथा च शास्त्रीयश्रोतृप्रवृत्तिप्रयोजकज्ञानविषयीभूतप्रयोजनाभिधेयसम्बन्धाधिकार्यात्मकाऽनुबन्धचतुष्टयमस्मिन् प्रकरणेऽस्ति न वेति शङ्काशमुद्धर्तुकामस्तत्प्रदर्शनप्रवणां कृत्स्नशास्त्रार्थसमाहिकामादिवाक्यरूपां गाथामाह
'समयपरमत्थवित्थर-विहाडजणपज्जुवासणसयनो।
आगममलारहियओ, जह होइ तमत्थमुन्नेस्सं ॥ २॥" अत्र " आगममलारहृदयः" इत्येतच्छन्दग्राह्यस्यागमार्थप्रतिपस्यसमर्थहृदयस्यैदंयुगीनात्यल्पज्ञजनस्य प्रसिद्धत्वात्तमुद्दिश्यादग्धदहनन्यायेनाप्राप्त समयपरमार्थविस्तरविहाटजनप. {पासनसको यथा भवति तमर्थमुझेष्ये इत्येतद्विधीयते । समयस्याईदागमस्य प्रमाणास्तराबाधितत्वेन यथार्थतया तत्वदर्शनान्तरोक्तार्थाऽपेक्षया परम उत्कृष्टो योऽर्थस्तस्य यो विस्तरो रचनाविशेषः तस्य विहाटः श्रोतबुद्धिग्राह्यार्थप्रकाशको यो जनश्चतुर्दशपूर्वविदादि. लोकः तस्य पर्युपासनं सेवाजनिततद्वथाख्यानं तत्र सकर्णः तद्वयाख्यातार्थयथार्थावधारणसमर्थों यथा भवति तथा तमर्थमुन्भेष्ये लेशतः प्रतिपादयिष्ये इत्युक्तविधेयस्य सोपार्थः । पदार्थस्तूच्यते "आगममलारहियओ" इति-आगममलारहृदयः, तत्राविच्छिन्नसद्गुरूपारम्पर्येण वासनाद्वारेणागच्छतीत्यागमः, यद्वा आ समन्ताद् गम्यन्ते झायन्ते जीवादय: पदार्था अनेनेत्यागमा, शास्त्रम्, आङ् पूर्वकाद् गम् धातोः " गमश्च" ३-२-४७ इति पाणिनीयसूत्रेण खच्प्रत्यये आगमशब्दनिष्पत्तिः। मलमिव आरा प्राजनकविभागो यस्याऽसौ मलारः, गोगली, आगमे तद्वत् कुण्ठमागमार्थप्रतिपत्त्यसमर्थ हृदयं यस्य स तथा, अकृत्रि. मवरभक्तिबहुमानप्रसन्नसुगुरुपदीयमानागमप्रतिपाद्यगम्भीरार्थग्रहणानुकूल प्रज्ञाविहीनत्वेना. तिमन्दधीरिति यावत् । “ समयपरमत्थविस्थरविहाडजणपज्जुवासणसयनो" इति, समयपरमार्थविस्तरविहाटजनपर्युपासनसकर्णः, सम्यक् प्रमाणान्तराऽविसंवादित्वेनेयन्ते निश्चीयन्तेऽर्था अनेनेति समयः, यद्वा सम्यक अवैपरीत्येनाप्यन्ते परिच्छिद्यन्ते जीवादयोऽर्था अनेनेति करणप्रत्यये समयः । सम्यक् याथार्येनायन्ति अयन्ते वा जानन्त्यर्थान् अनेनेति वा समया, अथवा सम्यक् अयते परिच्छिनत्ति जीवाद्यर्थान् यस्स समयः, सम्यगयन्ति गच्छन्ति जीवादयोऽर्थास्स्वस्वरूपे प्रतिष्ठां प्राप्नुवन्त्यस्मिन्निति वा समयः, अर्हन्मतानुसारि शास्त्रम् । परमः प्रमाणान्तराबाधितप्रमाणगोचरयथार्थस्वरूपा, अर्यते परिच्छिद्यते ज्ञानविषयीक्रियत इत्यर्थः । परमश्वासावर्थश्च परमार्थः, प्रमाणान्तराबाधिततया वास्तविकोऽर्थः, समयस्य परमार्थः समयपरमार्थः, तस्य विस्तरो रचनाविशेषः, विस्तीर्यत इति विस्तरः, "स्तृ" आच्छादने कैयादिको धातुः। ततः " ऋदोरप्" । ३ । ३ । ५६ । इति सूत्रेणाप्रत्ययः । नन्वर्थस्य विस्तरणमित्यर्थे शब्दसम्बन्धिनः प्रथनस्याभावात् अर्थविस्तारस्यैव गृहीतत्वात् "विपूर्वात् स्तृणातेर्षञ् स्यादशब्दविषये प्रथने इत्यर्थ कस्य " प्रथने
"Aho Shrutgyanam"