________________
सम्मति काण्ड १ ० १
४३.
सपर्यामकृत्रिमानुपमभक्ति मरनिर्भरसुरासुरनिकायनायका अनेन भगवता सनाथा भवामेति सन्मतिमाविभ्राणा विरचयन्ति न च शचीपत्यादिकृतपूजाविरहे स स्याद्वाददेशना गिरः प्रयुक्त इति हेतुहेतुमद्भावोत्पद्य मानगाथान्तर्गतजिनादितचत्पदसंसूचितापायापममातिशयज्ञानातिशयपूजातिशयवा गतिशय चतुष्करूपस्वार्थ परार्थसम्पत्तिशालि भगवत्प्रणीत श्रुतमयेष्टदेवतासोल्लास स्तुतिविध्वस्तसमाप्तिप्रतिबन्ध कदुरित विशेषस्व रिस्सर्वेऽपि व्यवहाराः प्रयोजनव्याप्ताः, नान्तरेण प्रयोजनं प्रवृत्तिनिवृत्ती, पश्वादयोऽप्यभिसन्धाय प्रयोजनं प्रवर्त्तन्ते निवर्त्तन्ते चेति श्रोतुः प्रस्तूयमाने शास्त्रे निर्विघ्नप्रवृत्यर्थं तत् सप्रयोजनमादौ वाच्यम्, तदुक्तं मीमांसाश्लोकवार्तिके "अनिर्दिष्टफलं सर्व, न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन, वाच्यमग्रे प्रयोजनम् ॥ १ ॥ सर्वस्यैव हि शास्त्रस्य, कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोकं, तावत्तत्केन गृह्यते || २ ||" इति । तदपि चेदनभिमतप्रयोजनेन सप्रयोजनं वक्त्रा विरच्येत तदा जननीपाणिपीडनोपदेशवतत्र चतुराणामतितरामनादरस्स्यात्, प्रवृत्तिकारणीभूतस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताज्ञानस्याभावादिति तत्राभिमतं प्रयोजनं वाच्यम्, तदपि शक्योपाय न चेत् प्रदशर्येत तदा विषादिसर्वविघ्नशामकतक्षक नागराजशिरोरत्नादानोपदेशवत् प्रेक्षावस्तिदुपदर्शकं शास्त्रमनादेयं स्यात्, प्रयोजने सत्यपि तत्साधनानुष्ठानं मत्कृतिसाध्यमित्याकारकस्य प्रवृत्तिकारण कृतिसाध्यत्वप्रकारकज्ञानस्याभावादित्यनुगुणोपायं प्रयोजनं वाच्यम्, येन यद् दृष्ट्वा तत्प्राप्त्याशावशीकृतस्वान्तप्रेक्षावद्भिः प्रवृत्तिस्सादराऽऽदृता शीघ्रं स्यात्, अभ्यधायि च ।
44
शास्त्रस्य हि फले ज्ञाते, तत्प्रादयाऽऽशावशीकृताः । प्रेक्षावन्तः प्रवर्त्तन्ते, तेन वाच्यं प्रयोजनम् ॥ १ ॥ " इति ॥
एवं शास्त्रमभिधेयशून्यं चेत्, तदोन्मत्तादिवाक्यवदानर्थक्यं सम्भावयन् प्रेक्षावान् श्रोतुं न प्रवर्तेतापीत्यभिधेयं सुखोपादेयमस्यावश्यं वाच्यम् । एवं शास्त्रं सम्बन्धरहितं चेत्तदापि
44
जरद्गवः कम्बलपादुकाभ्य, द्वारि स्थितो गायति मङ्गलानि । तं ब्राह्मणी पृच्छति पुत्रकामा, राजोरुमायां लशुनस्य कोऽर्थः १ ॥ १ ॥ " इत्यादिनिराकाङ्क्षवाक्यवत् तथाऽसम्बद्धदशदाडिमा दिवाक्य वत्प्रेक्षाकारिणा मवज्ञास्पदं स्यादित्यादौ सम्बन्धोऽप्यसङ्गतिदूरीकरणार्थं वाच्यः, एवमजिज्ञासिताभिधेयकत्वेनानधिकारिकं चेचदा प्रेक्षावद्भिर्नाद्रियेत प्रेक्षावच्चक्षतेरित्यस्य शास्त्रस्य कोsधिकारीत्यपि वाच्यम्, यदभ्यधायि —
1
" विषयश्चाधिकारी च सम्बन्धश्च प्रयोजनम् ।
विनानुबन्धं ग्रन्थादौ मङ्गलं नैव शस्यते ॥ १ ॥ " इति ॥
"Aho Shrutgyanam"