________________
सम्मतिः काण्ड , गा जन्म सिध्यति, जन्म च जन्मवन्तं विनाऽनुपपनं सत्पूर्वपूर्वोत्तरोत्तरभवानुयायिनमेतकबीयाऽऽधस्तन्यपानादिप्रवृत्तिजनकतत्तद्विषयस्मृतिपूर्वभवीयतत्समानविषयकातुभवकर्तारमास्मानं साधयति । एतद् विवेचयिष्यते चाग्रे । एवश्वाऽऽत्मनोऽनादित्वे सिद्धे आत्माऽनन्तः भावत्वे सत्यनादित्वात् , यन्नैवं तन्नैवम् , यथा घट इत्यनुमानात्तस्यानन्तत्वमपि सिद्ध्यति, तस्य चानन्तकृत्ववतुर्गत्यात्मकभवपरिभ्रमणमन्यथाऽनुपपत्रं सत्तत्कारणतया प्रवाहतोऽनादिकर्म साधयतीत्यनादिकालसम्बद्धाऽऽत्मकर्मणोरनादिकालसम्बद्धमृत्सुवर्णद्रव्ययोरग्निसंयोगेनेव शुक्लध्यानाग्निना सर्वथा पृथग्भावे सति इह शरीरं परित्यज्य स्वकर्मक्षयकृत. त्रिभागहीनचरमशरीरपरिमाणसमपरिमाणवतया समश्रेण्यैकसमयेनैवोचं गतः
" अलोए पडिहया सिद्धा लोयग्गे य पइडिया।
इह बोदिं चइत्ताणं तत्थ गन्तूण सिज्झइ ।। १ ।।" इति प्रज्ञापनासूत्रवचनात् केवलाकाशास्तिकायरूपालोके गत्यादिसहायकधर्मास्तिकायाघमावेन प्रतिस्खलनाल्लोकमूर्द्धनि प्रतिष्ठितो-निराकृतस्वभावमात्राविर्भूताखण्डानन्तचिदा. नन्दादिस्वरूपमुक्तिमवाप्नोतीति पूर्वोक्तयुक्तिभिर्मिथस्संयुक्तात्मकर्मणोरनादित्वस्य नानाविधमिथ्यात्वादिकारणवशोपनविचित्रकर्मपरिणतिकृतचतुर्गत्यात्मकसंसारसन्ततात्मपरिभ्रमणस्य च परमशुक्लध्यानादिनाऽऽत्मसम्बद्धाशेषकर्मवियोगलक्षणकर्मक्षये सति कर्मकारणाभावात् संसारपरिभ्रमणात्मकतत्कार्यनिवृत्याऽऽत्मनोऽष्टकर्मक्षयजन्यानन्तज्ञानदर्शनाद्यष्ट. गुणावाप्त्या मुक्तेश्च सिद्धौ "न देहातिरिक्त आत्मेति देहविनाशो मुक्तिः" इति चाकिमतं न युक्तमिति सिद्धमित्यलं पल्लवितेन । एतेन " दीपो यथा निवृत्तिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । विशंन काश्चिद्विदिशं न काश्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥१॥ जीवस्तथा निर्वृत्तिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काञ्चित् , स्नेहक्षयात् केवलमेति शान्तिम् ।।२।।"
इत्यपि मतमपास्तमवसेयम् । ग्रन्थगौरवभीत्याऽत्र यत्रोक्तं तद् वृहट्टीकातोऽवबोद्धध्यमिति प्रथमकारिकार्थः परिपूर्ति प्राप्त इति । " यवत्र न अन्धमहत्त्वभीत्यो,-क्तं तद् यदग्रेऽप्यधिकं न वक्ष्ये । तट्टीकयाऽाभयदेवसूरे-ऑनन्तु विस्ताररुचीद्धप्रज्ञाः ॥१॥"
अथ भगवान् जगत्त्रयजयिमहामोह मल्लस्य सर्वथा पराजयं तन्नान्तरीयकज्ञानावरणदर्शनावरणान्तरायाख्यधनधातिकमंत्रयपराजयक्षाकृत्वा नाशेषविश्वत्रयगोचरकेवलज्ञानल. क्षणविशिष्टज्ञानानन्त्यमवाप्नोति, न च तदुत्पत्ति विना तस्य कमनीयाशोकाद्यष्टमहाप्रातिहार्य
"Aho Shrutgyanam'