________________
सम्मति काण्ड १, गा० १
४१.
"
"1
उत्तरोत्तरस मयोत्पश्या तद्विशिष्टस्य तस्य चोत्पत्तिरित्येवमुत्पादव्ययत्रौव्यलक्षणस्य सच्चस्याsक्षतेः, " षड्गुणहानिवद्विभ्यां यथाऽगुरुलघुस्तथा । पर्यायः क्षणभेदाच, केवलारूयोऽपि सम्मतः | १ | इत्युक्तेः । अत्र क्षणभेदात् केवलज्ञानपर्यायोsपि भिन्न एव प्रदर्शितो यथा तथा स्वस्वरूपतो ध्रुवस्वभावमप्यनन्तसुखं तत्तत्क्षणविशिष्टं भिन्नमेव, विशेषणमेदेन तद्विशिष्टस्यापि कथञ्चिद्भेदादित्युत्पादव्ययधौन्यलक्षणं सत्रं तस्योपपन्नमेव । न चात्र विशेषणस्यैव नाशोत्पादाविति वाच्यम्, यतः शिखायां विनष्टायां शिखी विनष्ट इति प्रतीतेरप्यनुभूयमानत्वेन विशिष्टस्यापि तथात्वमभ्युपगन्तव्यम् अधिकमत्रास्मत्सन्तब्ध स्याद्वादबिन्दुतोऽत्र सेयमिति । एतेन दुःखकारणीभूतस्य पापस्येव सुखहेतुपुण्यस्थापि तत्राभावादुःखस्येव सुखस्याप्यभाव एव युक्त इत्यारेकापि निरस्ता, व्यावहारिक सुखं प्रत्येव पुण्यस्य कारणत्वेन कृत्स्नकर्मक्षयजन्यसिद्धत्व परिणतिवन्मुक्तात्मनो वैषयिकसुखविलक्षणाया वेदनीय कर्मक्षयजन्यालौकिक निराबाध साद्यनन्तसुखपरिणतेर्भावादिति । मुक्तात्मनि घातिकर्मचतुष्कक्ष यसमुत्पन्नानन्त ज्ञानदर्शन चारित्रवीर्य लक्षणानन्त चतुष्कगुणा अषातिकर्मचतुष्कक्ष निष्पन्नानन्ताऽश्चय स्थिस्य मूर्त्तभावाव्याबाधसुखाऽगुरुलघुभावलक्षणगुणास्संस्थानवर्णादिप्रतिषेधात्मका अन्येऽपि च गुणा विद्यन्त इत्यात्यन्तिका शेष विशेषगुणोच्छेदलक्षणा मुक्तिर्न युक्तियुक्तेति सिद्धम् । एतेन
66
,
यावज्जीवेत् सुखं जीवेत्, ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः १ ॥ १ ॥ अङ्गनाऽऽलिङ्गनाजन्य-- सुखमेव पुमर्थता ।
कण्टकादिव्यधाजन्यं, दुःखं निरय उच्यते ॥ २ ॥
त्याज्यं सुखं विषयसङ्गमजन्म पुंसां, दुःखोपसृष्टमिति मूर्खविवारणैषा । व्रीही जिहासति सितोत्तमतण्डुलादधान् को नाम भोस्तुषकणोपहितान् हितार्थी ॥ ३ ॥
लोकसिद्धो भवेद्राजा परेशो नाऽपरः स्मृतः । देहस्य नाशो मुक्तिस्तु, न ज्ञानान्मुक्तिरिष्यते ॥ ४ ॥
""
इत्यपि निरस्तम् । वीतरागजन्मादर्शनात् सरागस्यैव जन्म, रागस्य च कारणं पूर्वानुभूतविषयानुचिन्तनम्, पूर्वानुभवश्च जातमात्रस्यास्मिन् जन्मनि न सम्भवतीति तदर्थं पूर्वजन्माभ्युपगन्तव्यम्, तदपि सरागस्यैवेत्येतद्भवीयाद्यस्तन्यपानादिप्रवृत्तिजनक स्तन्यपानं मदिष्टसाधनमिति मत्कृतिसाध्यमिति च यत्स्मरणं सत्कारणपूर्वभवानुभवद्वारा तत्पूर्वजन्म एवं तत्पूर्वपूर्व जन्म प्रथम प्रवृत्तिकारणरागानुबन्धानुरोधेन सिध्यत्प्रवाहतोऽनाद्येव
"Aho Shrutgyanam"