________________
सम्मतिः काण्ड , गा.. "न पुणो तस्स पसूई, बीयाभावादिहंकुरस्सेव ।
बीयं च तस्स कम्मं, न च तस्स तयं तओ निच्चो ॥१॥" इति किश्वेह तदागमनं रागादिसद्भावे सत्येव भवेत् , नान्यथा, तथा चानुन्मूलितरागादिदोषत्वासदचसोऽप्रामाण्यमेव स्यात्, अथोन्मूलितसर्वथारागादिदोषो मुक्तात्मेति चेत्, तहि कुतः पुनस्तदागमनमिह, कारणीभूतरागाधभावेन तत्कार्यागमनानुपपत्तेः । अत एव "मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः" इति परकल्पितमतमपि निरस्तम्, यद्देशावच्छिन्नयगुणोपलब्धिस्स तत्परिमाणनियतपरिमाणकः, यथा कपालद्वयावच्छिमोपलभ्यमानगुणको घटः कपालद्वयपरिमाणनियतपरिमाणकः । शरीरात्मकदेशावच्छेदे. नैवानुभूयमानधुध्यादिगुण आत्मेति स तत्परिमाण नियतपरिमाणवानित्यनुमानेन आत्मा स्वकर्मनिरूपितप्रतियोग्यनुयोगिभावसम्बन्धाश्रयकृतशरीरावगाहकनमःप्रदेशसङ्खथासमव्याससङ्ख्याकनमा प्रदेशाऽवगाहनाकः स्वशरीशवच्छिन्नभोगवत्वात् , यन्नैवं तन्नैवं यथा घटा, इत्यनुमानढीकृतपर्यवसनस्वरूपेणाऽऽत्मनो व्यापकत्वाभावसिद्धिरित्यव्यापकस्य तस्याऽऽतपशुष्कवीजकोशपन्धनविनिर्मोकप्रयुक्तोर्ध्वगमनस्वभावरण्डबीजवद् धनमृत्तिकाष्टलेपसम्बन्धपरित्यागप्रयुक्तजलोपरिगतिस्वभावालाबुवच सर्वकर्मसङ्गपरिमुक्तस्योगमनस्वभावत्वेन " जत्तियाइ जीवो ओगाढो तचियाए चेव फुसमाणो गच्छइ" इत्यादि सिद्धान्तोक्तप्रकारेण लोकाग्रस्थानगतस्यानवास्थितिकारणकर्माऽभावेन सर्वदा तत्रैवाऽवस्थानादिति । अथवाऽवच्छेदकतासम्बन्धेनाऽऽत्मविशेषगुणं प्रति तादात्म्यसम्बन्धेन शरीरस्य कारणत्वेन तदभावान्न मुक्तौ तदुत्पत्चिरित्यशेषविशेषगुणात्यन्तोच्छेदलक्षणात्ममुक्त्यभ्युपगन्तनैयायिक मतनिरासार्थमाह सूरिः “ ठाणमणोवमसुहमुवगयाणं " इति। स्थितिः-स्थानं स्वरूपप्राप्तिः, तदनुपमसुखम् 'उप' इति सकलकर्मक्षयानन्तरमव्यवधानेन गतानां प्राप्तानाम्, अनेकान्तभावनाजनितनिखिलजगत्तचविषयककेवलज्ञानोपबृंहितशैलेश्यवस्थाचरमसमयोपजातनिखिलवेदनीयकर्मक्षयाविर्भूतमनन्तसुखस्वभावमात्मनः कथञ्चिदनन्यभूतं स्वरूप प्राप्तानामिति यावत् । यो यो गुणो येन येनानियते तत्तनाशे सति स स आविर्भवति, यथा रविप्रकाशगुणो मेघेनावृतस्सर्वथा तन्नाशे सति साशनिरावृतः प्रकटीभवति तथाऽऽत्मीयानन्तसुखरूपपरमानन्दगुणोऽपि यावन्न मुक्तिस्तावद्वेदनीयकर्मणाss. पृतस्वभावस्सर्वांशाखिलवेदनीयकर्मक्षये मुक्ती सत्यां स्वत एव सर्वांशप्रकाशीभवतीति तल्ल. क्षणव साऽभ्युपगन्तव्या, यतस्स्रक्चन्दनवनितादिभोगोपभोगजन्यव्यावहारिकसुखं प्रत्येवा. स्मनः संयोगादे कारणत्वेन मुक्तौ तदभावात्तदभावेऽपि न पारमार्थिकानन्दसुखस्याप्यभावा, तस्य निरावरणात्ममात्रजन्यत्वात् । न च पश्चादपि तस्य विनाशः, तद्विरोध्युत्तरविशेषगुणाभावेन नाशकहेत्वभावात् । न चैत्र तर्हि तस्योत्पादव्ययध्रौव्यलक्षणं सत्त्वं न स्यादिति वाच्यम् , स्वरूपतो ध्रौव्यम्, प्रतिक्षणभेदेन पूर्वपूर्वक्षणविशिष्टस्य तस्य विनाश:
"Aho Shrutgyanam"