________________
सम्मति० काण्ड १, गा..
तस्सेव य सेलेसिं, गयस्स सेलेसु व निप्पकंपस्स ।
वुच्छिन्नकिरियमप्पडि-वाई झाणं परमसुकं ।। ८४ ॥ इति ध्यानशतकग्रन्थवचनात् " खुच्छिन्नकिरियमप्पडिवाइं सेलेसिकालम्मि"।३०६९। इति विशेषावश्यकभाष्यवचनाच सर्वयोगनिरोधाचं शैलेशीकाले व्युपरतक्रियाऽप्रतिपात्याख्यचतुर्थभेदेनाशेषभवदुःखविटपिदावानलकल्पनाशेषमवोपग्राहिकर्मक्षये कृते सत्येव तस्य भगवतो मुक्तौ गमन मिति भवोपग्राहिकर्मकार्यभूतशरीरमुखादेर्भवस्थसयोगिजिने सद्भावेन न तस्य शासनप्रणेत्त्वानुपपत्तिः, न वा रागादिलेशसद्भावाभावादाप्तत्वक्षतिरिति नासमुख्ये शासनप्रणेतरि जिने अयथार्थवाक्यकारणस्य मिथ्याज्ञानस्य सर्वथैव निवृत्तेस्त. त्प्रणीतशासनस्याऽप्रामाण्यमपीति । अवयवार्थस्त्वेवम्-तिष्ठन्ति सकलकर्मक्षयावाप्ताऽनन्तज्ञानसुखरूपाध्यासिताश्शुद्धात्मानोऽस्मिन्निति स्थानं लोकाग्रलक्षणं विशिष्टक्षेत्रम्, न विद्यते उपमा इन्द्रियविषयायनपेक्षतया स्वाभाविकात्यन्तिकत्वेन सकलव्याबाधारहितत्वेन च सर्वसुखातिशायित्वाद्यस्य तदनुपमम् , अनुपमं सुखमखण्डानन्दरूपं यस्मिस्तत् तथा, तत् 'उप' इति कालसामीप्येन गतानाम् प्राप्तानाम् । यद्वा ' उपोढः प्रकर्षण प्राप्तो रागो येन स उपोढरागः, तेन इत्यर्थक 'उपोढरागेण' इति यद्वाक्यं तद्गतोपशब्दवत् 'उप' इति उपसर्गोऽत्र प्रकर्षवाची, तेन स्थानमनुपमसुखं प्रकर्षण गतानामिति । यद्यपि वेद्यमानतीर्थकरनामकर्मादिसद्भावेन भवजिनभगवन्तो लोकाग्रलक्षणं विशिष्ट स्थान न समुपागतास्तथापि " परार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि तमर्थ गमयन्ति" इति न्यायादनुभूयमानतीर्थकृनामकर्मलेशसद्भावेऽपि तद्गता इव गता इत्युक्ताः, तेषाम् , तेन शासनप्रणेतृत्वं तस्यामवस्थायां तेषामुपपन्नमेव" यद्वा तिष्ठत्यनवस्थाननिवन्धनकर्माभावेन सदाऽवस्थितो भवति स्त्रात्मा यत्र तत्स्थानम् , व्यवहारनयतो लोकाग्रलक्षणं सिद्धिक्षेत्रं " वत्धुं क्सइ सहावे सत्ताओ चेयणा व जीवम्मि" इति वचनानिश्चयनयतः क्षीणकर्मणो जीवस्य यथावस्थितस्वरूपं " इय सिद्धाण सोक्खं, अणोरम नत्यि तस्स ओवम्भ" इति सिद्धान्तवचनात्तदनुपममुपमातीतं प्रकर्षणापुनरावृत्या गतानां प्राप्तानामिति । एतेन
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः" ॥१॥ इति "यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत !!
अभ्युत्थानमधर्मस्य, तदात्मानं सृजाम्यहम् ॥ १॥" इति च केपाश्चिन्मतं निरस्तम् , बीजे दग्धे अङ्कुराभाववच्छुक्लध्यानाग्निनाऽखिलकर्मणि दग्धे कर्मरूपकारणाभावेन भवागमनात्मककार्याभावात् । उक्तश्च
"Aho Shrutgyanam"