________________
सम्मति० काण्ड १, गा, तेषां सर्वथाऽऽप्तत्वं नेति तत्प्रणीतशासनस्य नैकान्तिकं प्रामाण्यं स्यात्, कपिलादिप्रणीतशासनस्येवेत्याशङ्कयाह सूरिः-"ठाणमणोवमसुहमुवगयाणं" इति । अयम्भाव:पात्यघातिभेदेन कर्म द्विविधम् , तत्राद्यस्य ज्ञानावरणीयादिभेदेन चतुर्विधस्याऽऽत्मीयानन्तज्ञानादिचतुष्टयावारकस्य मध्ये क्षपकश्रेणिमारुह्य शुक्लध्यानस्य
" सविआरमत्थवंजण-जोगंतरओ तयं पढमसुक्कं ।
होइ पुहुत्तविअक्कं, सविआरमरागभावस्स ॥ ८० ॥" इति ।। ध्यानशतकग्रन्थसत्काशीतितमगाथोक्तलक्षणेन पृथक्त्ववितर्कस विचाराख्याधभेदेन प्रायः पूर्वधरनिषेव्येण निश्शेषमोहनीयकर्मणोऽचिन्त्यसामर्थ्यस्य महाशैलूषोपमस्य क्षये कुते तदनन्तरं तस्य ।
"जं पुण सुनिष्पकंप, निवायसरणप्पईवमिव चित्तं । उप्पायटिइभंगा-इयाणमेगम्मि पलाए । ८१ ।। अवियारमत्थवंजण-जोगंतरओ तयं वियसुकं ।
पुव्वगयसुआलंषण-मेगत्तविअकमवियारं ।। ८२ ॥" इत्युक्तलक्षणेनैकत्ववितर्काऽविचाराख्यद्वितीय भेदेनाकषायछमस्थवीतरागगुणस्थानभूमिकेन क्षीणमोहगुणस्थानान्त्यसमये ज्ञानावरणादिधातिकर्मत्रये युगपत्क्षपिते सति तदनन्तरं
" सुज्झाणाइ दुगवोलीणस्स ततियमपत्तस्स एताए।
झाणंतरियाए वट्टमाणस्स केवलनाणं समुप्पज्जह ॥ १ ॥" इति सिद्धान्तवचनाद् ध्यानान्तरकाले सयोगिगुणस्थानकायसमयेऽनन्तज्ञानादिचतु. ष्टयावातावपि द्वितीयभेदरूपापातिकर्मणो भवोपग्राहिणो यात्रस्थितिस्तावन शरीरनिवृत्तिा, अत एव न मुक्तिः, जघन्यतोऽन्तर्मुहूत्र्तमुत्कृष्टतो देशोनां पूर्वकोटिं यावत् केवलिमगवतां भव्यजनप्रतिबोधनार्थमस्खलत्प्रवृत्तिभावात् , ततः परं ।
"निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स।।
सुहुमकिरियाऽनिअहि, तइयं तणुकायकिरियस्स ॥ ८३ ॥” इति इति ध्यानशतकवचनात्त्रयोदशगुणस्थानकान्त्यान्तर्मुहूर्त्तकाले मुक्तिसाक्षात्कारणस्य शुक्लध्यानस्य सूक्ष्मक्रियाऽनिवृत्त्याख्यत्तीय भेदे तेन भगवता ध्याते सति तदनन्तरं
" हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति ।
अत्थइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥" विशेषावश्यकभाष्यवचनात् अ इ उ ऋल पंचइस्वस्वरकालमानचतुर्दशाऽयोगिगुणस्थानके
"Aho Shrutgyanam"