________________
३७
सम्मति. काण्ड , गा.. व्याधिदुःखाभिभूतान् , यदभिहितम् " सृजेच शुभमेवैकमनुकम्पाप्रयोजितः" इति । केषांचिजन्तूनां परमसुखभाक्त्वेन केषाश्चिञ्चातिदुःखभाक्त्वेनोत्पादने विषमप्रवृत्तिप्रसङ्गतः कारुण्यं नाममात्रावशेषं स्यात् । उक्तञ्च स्याद्वादरत्नाकरे"क्षुद्रग्रामे निवासः कचिदपि सदने रौद्रदारिद्रयमुद्रा, जाया दुर्दर्शकाया कटुरटनपटुः पुत्रिकाणां सवित्री। दुःस्वामिप्रेष्यभावो भवति भवभृतामत्र येषां बतैतान् , शम्भुर्दुवैकदग्धान सृजति यदि तदा स्यात्कृपा कीदृगस्य ? ॥१॥" इति अत एवेश्वरस्यापरम्पारलीलेति तयैव जगत्सर्जने प्रवर्तत इत्यपि वार्तम् , लीलाया दोषविलासरूपत्वेन दोषाक्रान्तत्वं स्यात्तस्य, स्वेर्जगत्प्रकाशने स्वभाववदीशस्य स्वमावादेव जगत्सृष्टौ प्रवृत्तिरित्यपि न विद्वन्मनोरञ्जकम् , यत ईश्वरे स स्वभावः प्रतिनियतदेशकाला. धधिकरणकप्रतिनियतस्वस्त्रासाधारणधर्मविशिष्ट कार्यजननात्मक एवाभ्युपगन्तव्यः । अन्य थानियतदेशकालकार्योत्पत्तिप्रसङ्गः कथमुद्धरणीयस्स्यात् , तारस्वभावो विचित्रविपाके तसत्प्राणिविविधकर्मण्येवाऽभ्युपगम्यताम्। तथा च चेतनानधिष्ठितेनापि तत्तजीवकर्तृकेन कर्मणैव तत्तत्स्वभावमलात्रिलोकीकार्य भविष्यतीति किमीश्वरकल्पनापरिक्लेशेनेति । एतेनेश्वरस्य यथेच्छं जगत्सृष्टी प्रवृत्तिरित्यपि निरस्तम् , इच्छाया मोहजन्यत्वेनेश्वरे रागादिमत्त्वं स्यात् । जगद्विधायकेश्वरनिरसनं विस्तरेणास्मत्कृततत्वार्थविवरणटीकायां विहितमिति तत एव तद्विस्तरार्थिनाऽवलोकनीयम् , ग्रन्धगौरवभीत्या नेहाधिकं प्रपश्यत इति, तदेवं लोके रागादिमन्त एव कर्त्तारो दृष्टा इति तादृशस्यैव जगत्कर्तुरीश्वरस्य सिद्धिस्स्यादिति तस्य विपक्षभावनाभ्यासेन रागादिजये सत्येव शासनप्रणेतृत्वं सिध्यति, नान्यथेति भव: संसारः तब्धेतुत्वाद्रागादिकं जितवन्त इति भवजिना इति सिद्धम् । " भवजिनानाम् ". इत्यत्र भवे जिनाः भवजिनास्तेषाम् , लुप्तसप्तम्या आधेयत्वार्थकत्वेन भवस्थजिनानाम् भवस्थकेवलिनाम् , यद्वा भवे वर्तमाना भववर्तमानाः, भववर्तमानाश्च ते जिना भवजिना इति मध्यमपदलोपिसमासस्तेषामित्यप्यों ज्ञेयः। अथ यद् यस्य कारणं तद्विपक्षासेवनेन सर्वथा तनिवृत्तौ तत्कार्यस्याप्यभावः, यथा विकृतिभावापन्न श्लेष्माद्यात्मककारणस्य तद्वि. पक्षौषधोपचारतः सर्वथा निवृत्तौ तत्कार्यभूतविशिष्टशिरोऽायभावः तथा भवकारणस्य रागादेस्तद्विपक्षदृढावस्थापनसुविशुद्धाऽध्यात्मभावनातस्सर्वथा निवृत्ती तत्कार्यभूतस्य भवस्याभावस्स्यादिति तल्लक्षणमुक्त्यवाप्तौ सत्यां सर्वथा रागादिनिवृत्तिलक्षणरागादिजयवतां जिनानां शासनप्रणेतृत्वानुपपत्तिः, मुक्त्यवस्थायां जिनानामशरीरत्वेन शासनस्य च शब्दात्मकत्वेन तत्कारणताल्वादिसंयोगादेरभावात् , अथ सर्वथा रागादेन निवृत्तिरिति मुक्त्यवाप्तेः प्रागेव जिनानां शासनप्रणेतृत्वानोक्तदोष इति चेत्, तर्हि रागलेशाश्लिष्टत्वेन
"Aho Shrutgyanam"