________________
३६
सम्मति० का १, ०१
दोषवत्कर्तृकत्वस्य कर्तृकत्वाव्यापकत्वमपि सम्भवेत्, तदेव स्वद्यापि न क्वचित्सिद्धं, सर्वस्य कर्तुर्दोषवत एव दृष्टिगोचरत्वादिति दोषवत्कर्तृकत्वं सकर्तृकत्वव्यापकमेवेति व्यापकधर्मापादनादुक्तलक्षणाया उत्कर्षसमाया जातेरत्राप्राप्तेः, रागद्वेषादिदोषाभावे तत्र सदोषत्वव्याप्य विषमकर्तुत्वमपि न स्यात्, व्यापकाभावे व्याप्याभावस्यावश्यम्भावात् । प्राणिगत विविधकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति, न स्वेच्छयेति विषमफलकारित्वेऽपि न सदोषत्वप्रसङ्ग इत्यपि न च वाच्यम्, जडस्य कर्मणः प्रेरकत्वाऽयोगात्, न वेश्वरप्रेरितं कर्म ईश्वरस्य प्रेरकमिति वाच्यम्, कर्मेश्वरयोः प्रवर्त्त्यप्रवर्त्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात्, अथातीतकर्मणा प्रेरित ईश्वरो वर्त्तमानं कर्म तत्फलाय प्रेरयतीत्यनादिस्वात् प्रेर्यप्रेरक भावस्य नानुपपत्तिरित्यपि नाशङ्कनीयम्, यतोऽतीतकर्मणोऽपि जडत्वा नेश्वरप्रेरकता, न च तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयतीत्यपि वाच्यम् उक्तान्योन्याश्रयप्रसङ्गात् । अथ ततोऽप्यतीत कर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्त्तमाने कर्मणि फलदानाय प्रेरयतीति चेत्, न मानहीनाया मूलक्ष्यावहाया अनवस्थायाः प्रसङ्गात् । किश्वेश्वरस्य कर्मप्रेरितत्वाम्युपगमे कर्माधीनप्रवृत्तिकस्स स्यादिति तस्य कर्मपरतन्त्रत्वापच्या स्वतन्त्रतैव हीयेत, एवश्च रथ्यापुरुषवदनीशतैव स्यात् । किश्वेश्वराभ्युपगमोऽप्यत्र पक्षे न घटते, यतः कर्मैव तत्तत्कालक्षेत्राद्यपेक्षतत्तत्फल प्रदानोन्मुखं विचित्रां त्रिलोकीं करिष्यति । नन्वचेतनं चेतनानधिष्ठितं न क्रियायां प्रवर्त्तत इति नियमात्कर्मप्रेरितेश्वरप्रेरितमेव कर्म विविधकार्यकरणे समर्थं नान्यथेति चेत्, मैवम् उक्तनियमे प्रमाणाभावात् । यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रम्, न प्रेरकमिति नोक्तदोष इति, तदपि न विद्वन्मनोरञ्जकम्, तत्तत्प्राणिभिस्तत्तद्विषयकर्माणि कारयितुरीश्वरस्य रागादिदोषवच्चानपायात् पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताऽप्रामाणिकाऽनवस्थादोषतादवस्थ्यात् । अपि च न हि कश्विददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्त्तमानो दृश्यते, स्वार्थे प्रवृत्त एवं च सर्वो जनः परार्थेऽपि प्रवर्त्तते, तथा च ईश्वरः स्वार्थरागादिमान् प्रवर्त्तकत्वात् सम्मतपुरुषवदित्यनुमानेन रागादिमन्त्रं सिद्ध्यति, तदसिद्धौ चेश्वरस्याऽनीश्वरत्वप्रसङ्गः । न चोक्तानुमाने कारुणिके व्यभिचार इति वाच्यम्, परदुःखप्रयुक्तस्वदुःखनिवृत्यर्थित्वात्तस्य । तथा च कारुणिके स्वदुःखनिवृत्तिरूपस्वार्थसद्भावेन व्यभिचारो नेति भावः । अथोदासीन एवेश्वरः प्रवर्त्तक इति तु व्याघातदोषग्रस्तत्वान्नैव युक्तम्, एतेन क्रीडायै ईश्वरो जगत्सर्जने प्रवर्त्तत इत्यपि निरस्तम्, क्रीडायासदोषत्वव्याप्यत्वेन तदर्थं प्रवर्त्तकत्वे तस्य सदोषत्वप्रसङ्गात् या या क्रीडा सा सा दोषजन्येति व्याप्तावीश्वरक्रीडाभिन्नत्वे सतीति विशेषणदानमप्यद्यापीश्वराऽसिद्वयाऽसम्भवदुक्तिकम् | क्रीडायां जन्यत्वविशेषणमपि नोचितम् इतरावारकत्वात्, तनिवर्याया नित्यलीलाया अद्यापीश्वराऽसिध्धेरसिद्धत्वात् । एतेनेश्वरः करुणयैव प्रवर्त्तत इत्यपि पक्षो निरस्तः, यतः कारुण्यामृतपूरष्ठावितस्सोऽनुपमसुखाभिमन्नान् प्राणिनो विदध्यात्, न तु विविधाधि
>
>
>
"Aho Shrutgyanam"