________________
सम्मति० काण्ड १, गा० १
क्षयो दृश्यते तत्तत्पुरुषेष्विति सर्वथाऽपि कस्मिँश्चिदपि पुरुषधौरेये रागादिक्षयस्सम्भाव्यत एवेति यः पुमान् पूर्व रागादिमान् स्यात् तस्मिन्नुक्तोपायेन तद्विगमो युक्त एवेति को न स्वीकुरुते १, ध्वंसस्य सहेतुकत्वात्, पुरुषविशेषे ईश्वरे तु सर्वथा रागात्यन्ताभाव एव न तु पूर्व रागः पश्चात् तद्धंस इति रागत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावस्यानादिसंसिद्धस्य तत्र कालत्रयेऽपि सच्चे बाधकाभाव एव, रागादिकालीनत्वाभावविशिष्टश्वरात्मकतदीयस्वरूपसम्बन्धस्य सच्चैन सम्बन्धिनोऽत्यन्ताभावस्यापि तत्र सच्चात्, तादृश एव कर्मक्लेशाद्यभावः पूर्वोक्तपातञ्जलसूत्रे अपरामृष्टपदेन विवक्षितः, न तु कर्मक्लेशादिध्वंसरूप इति चेत्, मैवम्, ईश्वरात्मकस्य धर्मिण एवासिद्धौ तद्धर्माणां तादृशरागात्यन्ताभावादीनां सुतरां कल्पयितुमशक्यत्वात् । विमतं क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वाद् घटवदित्यनुमानेनेश्वरधर्मिसिद्धिरिति चेद्, यदि कार्यत्वेन हेतुनेश्वरस्साध्येत तर्हि तस्य रागादिदोषवचमपि स्यादेव, दृष्टानुसारिणी कल्पना न तु यथा कल्पना तथा तत्त्वव्यवस्था, कल्पनाया निरङ्कुशत्वेन arsonवस्थाप्रसङ्गादित्यर्थकेन दृष्टानुसारिणी हि कल्पना न तु कल्पनानुसारिणी दृष्टिरिति न्यायेन सर्वस्य कुम्भकारादेः कर्तुर्दोषग्रस्तस्यैव दृष्टत्वेनेश्वरस्यापि तद्वत एव सिद्धेः, यो यो विषमकारी स स दोषवानिति व्याप्तिमूलकात् 'ईश्वरो दोषवान् विषमकार्यकारित्वात् अस्मदादिवदित्यनुमानादपि हीनमध्यमोत्तमभावेन प्राणिभेदान् विदधति त्वन्मतसिद्धे ईश्वरे रागद्वेषादिदोषवश्वसिद्धेश्व, न चोक्तानुमाने ईश्वर एव व्यभिचार इति वाच्यम्, यतः पक्षीभूते तत्र न व्यभिचारप्रदर्शनं युक्तम्, पक्षे पक्षसमे वा न व्यभिचार इत्यभियुक्तोक्तेः । व्यभिचारस्थलान्तरन्तु नास्त्येव । दोषवत्येव विषम कार्यकारित्वस्य othsनुभूयमानत्वेन दृष्टविरुद्धकल्पनाया अप्रामाणिकत्वेनात्र व्यभिचारशङ्काऽपि न युक्तियुक्तेति । न चात्र पर्वतो वह्निमान् धूमात् महानसवदित्यनुमानाद् वह्निसिद्धौ पक्षधर्मताबलाद् यथा पर्वतीयस्यैव वस्सिद्धिस्तथोक्तानुमानादपीश्वरसिद्धौ पक्षधर्मताबलान्निर्दोषस्यैवेश्वरस्य सिद्धिस्स्यादिति तेन न रागादिदोषवच्त्रस्य प्रसङ्ग इति शङ्कचम्, क्षित्यङ्करादिरूपे पक्षेईश्वरमात्रसाधनेनैव तस्यानुमानस्य चरितार्थत्वेन तत्र निर्दोषत्वादिधर्मस्यापि साधने उदासीनत्वात्, पर्व वहून्यनुमानस्य पक्षधर्मताबलात्पर्वतीय वह्निसाधकत्वेनैव चरितार्थत्वाचगतोष्णत्वादिधर्मसाधने उदासीनत्ववत्, न चोत्कर्षसमा जातिरियम्, सा च साध्याऽव्यापकस्य दृष्टान्तगतस्य धर्मस्य पक्षे आपादनलक्षणा, यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतकत्वहेतुना यदि घटवच्छब्देऽनित्यत्वं साध्येत तर्हि तेनैव हेतुना शब्दे सावयवत्वमपि स्यात्, अत्रानित्यत्वापेक्षया सावयवत्वस्याव्यापकत्वम् गन्धादावनित्यत्वस्य सच्चेऽपि सावयवत्वाऽभावात् तथाsत्रापि सकर्तृकत्वापेक्षया दोषवत्कर्तृकत्वस्याप्यव्यापकत्वमेव, क्षित्यादौ कर्तृकत्वस्य सच्वेऽपि दोषवत्कर्तृकत्वस्याभावात्, तस्यैव च दोषवत्कर्तृकरवस्य क्षित्यङ्करादौ भवताssपाद्यमानत्वादिति वाच्यम्, निर्दोषस्य कर्तुः क्वचित्सिद्धौ सत्यमेव
३५
" Aho Shrutgyanam"