________________
३४
पम्मतिः काण्ड १, मा.. समयपदश्च सम्यक्प्रमाणान्तराविसंवादित्वेने यन्ते परिच्छिद्यन्ते इति समया इति व्युत्पत्या प्रमाणान्तराविसंवादिपरिच्छेदविषयपरम्, ते च विषयाः प्रकृते नष्टमुष्टिचिन्तालाभालामसुखासुखजीवितमरणग्रहोपरागमन्त्रौषधशक्त्यादयः, विशासनमित्यत्र विरुपसर्गश्च विविधार्थकः, विविधश्च प्रकृते अन्यपदार्थकारणत्वेनान्यपदार्थकार्यत्वेन चानेकप्रकारमित्येवं स्व. रूपम् , शासनपदश्च प्रतिपादकपरम् , उपमानभूतं पृथिव्याश्शासनश्च पृथ्वीकाठिन्यादि. प्रतिपादकवचनविशेषरूपम् , उपमानोपमेयभूतयोः पृथ्वीशासनसमयविशासनयोः सादृश्यश्च प्रकृते स्वविषयाविसंवाद्यलिङ्गानुपदेशानन्धयव्यतिरेकपूर्वकत्वस्वविषयसाक्षात्कारिज्ञानविशेषप्रभवत्वरूपसाधारणधर्माभ्याम्, तत्र पृथ्वीकाठिन्यादिप्रतिपादकवचनविशेषे उपमानभूतपृथ्वीशासने निरुक्तधर्मद्वयं सिद्धं वादिप्रतिवादिनोः, उपमेयीकृते प्रकृतशासने तु पूर्वोक्तयुक्त्या स्वविषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकत्वं सिद्धम् , स्त्रविषय. साक्षात्कारिज्ञानविशेषप्रभवत्वन्तु विप्रतिपन्नम् , तदपि सिद्धेनोक्तधर्मेण स्वाविनाभूतेन सिध्यत्येवेति गाथासूत्राययवेन 'कुसमयविसासण'मित्यनेन सुसूत्रितम्भवत्यवतरणोपदर्शित. मर्थनिकुरम्बमिति । अथ " कर्म-क्लेश-विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" [योगद. पा. १, सू. २४] इति सूत्रोक्तलक्षणलक्षितः "ज्ञानमप्रतिघं यस्य, ऐश्वर्यञ्च जगत्पतेः। वैराग्यं चैव धर्मश्च, सह सिद्धं चतुष्टयम् ॥१॥" इत्यभियुक्तोक्त्यनुसारिस्वभावसिद्धज्ञाने. श्वर्यवैराग्यधमैतचतुष्टयविशिष्ट ईश्वर एवं शासनप्रणेता, तेनानादिसर्वेक्षेन सर्वजगत्स्रष्ट्रा प्रणीतत्त्वाच्च तत्प्रमाणम् , न तु रागद्वेषादीन् शत्रून् जितवन्त इति जिना इति व्युत्पत्तिसिद्धलक्षणलक्षितः सामान्ययोगी तत्प्रणेतेति ये पातञ्जलनैयायिकादयो मन्यन्ते तन्मतनिरासायाह- भवजिणाणं' भवजिनानाम् । भवन्ति नारक-तिर्यग्-नरामपर्यायत्वेनोत्पद्यन्ते प्राणिनोऽस्मिन्निति भवः संसारः, तद्धेतुत्वाद्रागद्वेषादयो भवशब्देनोपचाराद् विवक्षिताः, तान् जितवन्त इति भवजिनास्तेषाम् , उपचाराश्रयणे किं बीजमिति चेत् , उच्यते, न ह्यविकलकारणे रागादावध्वस्ते तत्कार्यस्य संसारस्य जयः शक्यो विधातुमिति प्रतिपादनमेव । यतो दृढतमनिरन्तराभ्यस्तानित्यत्वादिद्वादशभावनाद्यात्मकेन रागादिजयोपायेनैव पुरुषविशेषे निश्शेषरागादिजयस्स्यात, न तु स्वभावत एव, न [पायव्यतिरेकेणोपेयसिद्धिः, अन्यथोपेयस्य निर्हेतुकत्वेन देशकालस्वभावप्रतिनियमो न स्यादिति सर्वप्राणिनामीश्वरत्वं न वा कस्यचित्स्यात् । तदुक्तं धर्मकीर्तिनाऽपि
" नित्यं सत्वमसत्त्वं वा, हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः ॥१॥" इति तन्न रागादिक्लेशविगमः स्वभावत एवेश्वरस्येति युक्तमिति । अथ यस्य देशतः क्षयो दृश्यते तस्य सर्वथाऽपि क्षयः, दिनकरनिकरनिरोधकनवीननीरदमालावत् , देशतो रागादि
"Aho Shrutgyanam"