________________
सम्मतिः काण्ड १, मा० . येन पुरुषधौरेयेण करणं तत्कतकतया च प्रामाण्यं स पुरुषधौरेयस्तेनैव वचनविशेषेण लिङ्गभावमापद्यमानेन सर्वज्ञतया सिद्ध्यति, तथाहि अस्मदादिभिः पृथिव्याः काठिन्यादिक साक्षात्कृत्य कठिना पृथ्वीत्यादि वचनमुचार्यते, न चास्मदादिकर्तारमन्तरेणैव तादृशवचनविशेष उपजायते, वैशिष्ट्यं चोक्तचनस्य स्वविषयाविसंवादित्वाऽऽलिङ्गपूर्वकत्वानुपदेशपूर्वकस्वानन्वयव्यतिरेकपूर्वकत्वध:, तथाविषश्चोक्तवचनं स्वप्रतिपाद्यार्थसाक्षात्कार्यस्मदादिज्ञानप्रभवं यथा तथा नष्टमुष्टिचिन्तालाभालामसुखासुखजीवितमरणग्रहोपरागमन्त्रौषधशत्यादीनां स्वस्वप्रतिनियतकार्यकारणत्वेन स्वस्त्रप्रतिनियतकारणकार्यत्वेन च प्रतिपादक प्रकृतशासनमपि स्वविषयाऽविसंवादित्वाऽलिङ्गापूर्वकत्वानुपदेशपूर्वकत्वानन्वयव्यतिरेकपूर्वकत्वधर्मविशिष्टं स्वप्रतिपाद्यनष्टमुष्टाद्यर्थसाक्षात्कारिपुषधौरेयज्ञानप्रभवम् । अनुमानप्रयोगश्च यो यद्विषयाविसंवाधलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वको वचनविशेषः, स तत्साक्षात्कारिज्ञानविशेषप्रभवः, यथाऽस्मदादिप्रवर्तितः पृथ्वीकाठिन्यादिविषयस्तथाभूतो वचनविशेषः, नष्टमुष्टिविशेषादिविषयाविसंवायलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वकवचनविशेषश्चायं शासनलक्षणोऽथे इति । यथैव नष्टमुष्ट्यादयोऽर्थाश्शासने प्रतिपादितास्तथैव ते प्रमाणान्तरेणोपलभ्यन्त इति तत्प्रतिपादकस्य शासनस्याविसंवादित्वं, सम्यगर्थपरिज्ञानसामग्रीवैकल्यतो विसंवाद आपाततः कस्यचित्स्फुरन्नपि नाविसंवादप्रतिरोधी, तस्य शासनवचनाऽसत्यार्थस्वाप्रयुक्तत्वात् । चन्द्रैकत्वप्रत्यक्षस्य भ्रान्तद्विचन्द्रप्रत्यक्षेण विसंवादवत् , अतीन्द्रियैर्नष्ट. मुष्ट्यादिभिस्सममविनाभूतस्य लिङ्गस्याप्यस्मदायक्षाविषयत्वान्न लिङ्गप्रभवत्वमपि तत्प्रतिपादकशासनस्येत्यलिङ्गप्रभवत्वं, यो हि लिङ्गमतीन्द्रियं साक्षात्कर्तुमीशः स नष्टमुष्ट्यादिकमपि साक्षात्कर्तुं समर्थ इति तत्साक्षात्कारिज्ञानप्रभवत्वमेव तस्येति । उपदेशपरम्पराप्रभवत्वे वक्तुरज्ञानदुष्टाभिप्रायवचनाकौशलादिदोषैः श्रोतुर्वा मन्दबुद्धित्वविपर्यस्तबुद्धित्वगृहीतविस्मरण. स्वादिदोषैः प्रतिपुरुषं हीयमानस्यानादौ काले मूलतश्विरोग्छेदे एतावन्तं कालमागमनमेव न भवेदत उपदेशपरम्पराअभवत्वादेवान्तरातरा विच्छिन्नस्यापि नष्टमुट्यादिप्रतिपादकस्यास्य सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता पुरुषविशेषेणाभिव्यक्तस्यैतावत्कालमागमनमिति भवत्यनुपदेशपूर्वकत्वम् , अनियतदिक्प्रमाणफलकालादीनां ग्रहोपरागादीनां रसकल्कादिभेदतः कर्षादिमात्राभेदतो बालमध्यमाद्यवस्थाभेदतो मूलपत्राद्यवयवभेदतो विभिन्नानेक. योगसम्पर्कजानल्पविजातीयरोगोपशमनशक्तिशालिनीनामौषधीनाञ्च शासनप्रतिपाद्यानाम. न्वयव्यतिरेकाभ्यां युगसहस्रेणाऽप्यसर्व रस्मदादिमि तुमशक्यानां प्रतिपादकस्यास्य शासनस्यानन्वयव्यतिरेकपूर्वकत्वमपि सिद्धिपथमवतरत्येवेत्युपदर्शितार्थनिकरसंसूचनाभिप्रायवान सरिराह-कुसमयविसासणम् इति-अत्र समयानां विशासनं समयविशासन, कुरिव समयविशासनं कुसमयविशासनमिति समासः,कुपदमत्र लक्षणया पृथिवीशासनार्थकम् ,
"Aho Shrutgyanam"