________________
सम्मति० का १, गा. हेतुरिति ॥३॥ ११॥ न तु त्रिलक्षणकादिरिति ॥ ३॥ १२॥ तस्य हेत्वाभासस्यापि सम्भवादिति ॥३॥ १३ ॥ इति निष्टङ्कितं सङ्गच्छते । उक्त पात्रस्वामिनाऽपि-- .
" अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ।
नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ॥ १॥" इति । एतच्चाने विवेचयिष्यते । ननु जिनप्रणीतत्वात्तच्छासनं यथा निश्चितप्रामाण्य तथा सुगतकपिलादिप्रणीतत्वादपि तच्छासनं तथाभूतं किन्न स्यादित्याशङ्कानिवृत्त्यर्थमाह-यद्वा जिनशासनविपक्षभूतं यद्यच्छास्त्रं तत्तद्गतप्रामाण्यनिरासे सत्येव तत्प्रामाण्यं निरावा निश्चीयेत, अनेकान्ततत्वप्रतिपादकजिनशासनप्रतिपक्षभूतश्चैकान्ततस्त्रप्रतिपादकं बौद्धकापिलादिशात्रमित्यतस्तत्प्रामाण्यनिरासपूर्वकतत्प्रामाण्यनिश्वयार्थ शासनविशेषणमाह "कुसमयविसासणम्" इति । कुत्सिताः प्रमाणबाधितकान्ततत्वप्रतिपादकत्वेन समया बुद्धकपिलादिप्रणीत. सिद्धान्ताः कुसमया, तेषां विशासनं विपरीतं शास्यते दृष्टेटविषये विरोधायुद्भावकत्वेनाऽप्रामाण्यं ज्ञाप्यतेऽनेनेति विशासनम् , कुसमयविशेष्यकाऽप्रामाण्यप्रकारकं एते कुसमया अप्रमाणभूता इत्याकारकं यत्कुसमयेष्वप्रामाण्यज्ञानं तत्करणमित्यर्थः। तथा च बौद्धकापि. लादिशासनं न निश्चितप्रामाण्यकं दृष्टेष्टविषये प्रमाणवाधितैकान्त तत्वप्रतिपादकत्वात् , यद्यद्वचनं दृष्टेष्टविषये प्रमाणवाधितार्थविषयकं तत्तद्वचनं न निश्चितप्रामाण्यकम् , असम्बद्ध प्रलाप्युन्मत्तवचनवत्, किन्तु प्रत्यक्षानुमानादिप्रमाणाबाधितभिन्नापेक्षतत्तदभावधर्मविशिष्टवस्तुप्रतिपादकत्वात् शाखावच्छिन्नपिसंयोगप्रकारकमलावच्छिन्नतदभावप्रकारका वृक्षविशेष्यकप्रतिपत्तिजनकशाखावच्छेदेन वृक्षः कपिसंयोगी न तु मूलावच्छेदेनेति वाक्यवजिनशासनमेव निश्चितप्रामाण्यमभ्युपगन्तव्यम् । यद्वा ननु दूरान्तरितसूक्ष्मवादरव्यव. हिताव्यवहिताद्याः सर्वेऽपि पदार्थाः कस्यचित्प्रत्यक्षा ज्ञेयत्वात्प्रमेयत्वाद्वस्तुत्वाद्वा घटादिव. दित्यनुमानेन ज्ञानप्रकर्षतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वात् महत्त्वपरिमाणाणुपरिमाणादिप्रकर्षतारतम्यवदित्यायनुमानेन वा सर्वज्ञस्य सिद्धावपि सर्वज्ञ आगमकर्ता भवत्येव सर्वज्ञो विशिष्टमर्थमुपदिशत्येवेति नियमासिद्धौ न सर्वज्ञत्वाकलिते पुरुषधौरेये आगमप्रणेतृत्वं सिद्धिपथमुपयाति, न च सर्वज्ञस्यागमप्रणेतृत्वसिद्धिमन्तरेण सर्वज्ञप्रणीतत्वमागमस्य प्रकृतस्य सिद्ध्यति, न च सर्वज्ञप्रणीतत्वमन्तरा निश्चितप्रामाण्यकत्वलक्षणं स्वतः सिद्धत मागमस्योपपत्तिपद्धतिमेति । यदि केनापि हेत्वन्तरेणागमप्रणेतृत्वमपि सर्वज्ञस्य सिख्यत्येव सदा स हेतुरभिधातव्य एव केनचिद्वचनेन, ज्ञातस्यैव हेतोस्साध्यसाधनपटिष्ठत्वात् , तथा च तादृशहेतुतत्परिकरशुद्धयादिप्रतिपादकवचनसन्दर्भलक्षणप्रकरणस्यापेक्षितत्वे तदुद्भावना यासोऽनायासेनैव सिद्धः प्रतिपादनगौरवफलको न निरोढुं शक्य इति चेत् ,सत्यं, प्रकारास्ता रेण सर्वज्ञसाधने स्यादेवैष उपालम्मः, न त्वेवम् , किन्तु यस्य शासनविशेषलक्षणस्य वचनस्य
"Aho Shrutgyanam"