________________
धम्मति० काण्ड १, गा.. भगवता " श्रीवर्द्धमानात् त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन । अङ्गानि पूर्वाणि चतुर्दशाऽपि, स गौतमो यच्छतु वाञ्छितं मे ॥ १॥ इत्युक्तेर्मुहर्तमात्रेण विनीतशिष्यः सुखग्रहणगुणनधारणनिश्चयायथं पद-वाक्य-प्रकरणा-ऽध्याय-प्राभृतादिनियतक्रमेण रचितं द्वादशाङ्गयात्मकश्रुतमेव शासनमिति तस्य शब्दरूपतया पौगलिकत्वेन विशरा. रुस्वभावत्वात्तदानीमेव विनष्टं तत् नैतावत्कालपर्यन्तं स्वस्वरूपेण सत्तामनुमवितुमर्हतीति कथमिदानीं तदेवास्तीति श्रद्धेयमिति चेत् यद्यपि गणधरभगवता सूत्ररूपेण प्रथितं द्वादशाङ्गयात्मकं वचनमिदानीं नास्त्येवेति सत्यमेतत् , तथापीदानीं तदनुवादे श्रुतज्ञाननिधानाचार्यमगवदनुक्रमेण पुनः पुनस्तदुच्चारणात्मकेऽनूद्यस्य भगवद्वचनस्य गणधरवचनस्य वाऽभेदोपचारादाप्तागमत्वं ज्ञेयम् , आगच्छत्याचार्यपरम्परया वासनाद्वारेणेत्यागमः शासनद्वादशाग्यपरपर्याय इति व्युत्पत्तेः । अभिहितश्च-तत्वार्थविवरणे " इदानींतनतदनुवादेप्यनूद्याभेदोपचारात्तथात्वं " इत्यादि । नन्वेवं तर्हि आगम्यन्ते मर्यादयाऽवबुध्यन्तेऽर्था अनेनेत्यागम इति व्युत्पच्याऽऽप्तवचनाजातं श्रोतुरर्थज्ञानमागम इत्यपि सिद्धान्ते गीयते, तत्कथमिति चेत् , उच्यते, मुख्यवृत्तिमाश्रित्यैव तत्राभिधीयते, अत्र तु श्रोतृज्ञानकारण. स्वादाप्तवचनस्य तद्रूपद्रव्यागमे कारणे भावागमरूपकार्योपचारं कृत्वैवागमत्वं प्रोक्तमिति, अत एव तातपादश्रीवादिदेवमूरिभिः--
"आप्तवचनादाविर्भूतमर्थसंवेदनमागमः ॥ ४।१।
उपचारादाप्तवचनश्च ॥ ४।२।" इत्युक्तमपि सङ्गच्छते । ननु मुख्यार्थबाधे उपचारः प्रयोजने सति क्रियत इत्यत्रोपचारप्रयोजनं किमिति चेत् , उच्यते, शिष्याणामविच्छिन्ननिराबाधश्रद्धोत्पादनफलमेव लक्षणाबीजमिति जानीहि ।
नन्विदं शासनं जिनप्रणीतमित्यत्र किमानमित्यत आह-"सिद्धत्थाणं" इति । सिद्धाः प्रमाणान्तरसंवादतो निश्चिता येऽर्था नष्टमुष्टिचिन्तालामालाभसुखासुखजीवितमरणाहोपरागमन्त्रौषधादयस्तेषामित्यर्थः, अत्र षष्ठयर्थः प्रतिपादकत्वम् , तत्र प्रकृत्यर्थस्य सिद्धार्थात्म कस्य स्वनिष्ठप्रतिपाद्यतानिरूपितत्त्वसम्बन्धेनान्वयः, तस्य चाश्रयत्वसम्बन्धेन शासनेऽन्वयः, इदश हेतुविधया विशेषणम् , तथा चेदं शासनं प्रमाणान्तरसंवादियथोक्तनष्टमुष्ट्यादिसूक्ष्मा: न्तरितार्थप्रतिपादकत्वान्यथानुपपत्तिहेतोर्जिनप्रणीतमेवाऽभ्युपगन्तव्यम् , यन्नैवम् तन्नैवम् , यथा. परकल्पितदर्शनान्तरम् , न चात्र व्याप्तिनिश्चायकदृष्टान्तान्वेषणं कर्चव्यम् , मीमांसकाभ्युपगतार्थापत्ताविवास्मिन्ननुमाने साध्यधर्मिण्येव व्याप्तिनिश्चयात् , न चै त यं हेतुस्सपक्षसत्वरूपामावात्सद्धेतुन स्यादिति वाच्यम् , निश्चितान्यथाऽनुपपत्तिनियमादेव हेतो. र्गमकत्वोपपत्तेौद्धाभ्युपगतस्य त्रिरूपस्य नैयायिकाद्यभ्युपगतस्य पश्चरूपस्य च तत्रा. किश्चित्करत्वात् , अत एव श्रीमद्वादिदेवसरिभगवद्भिः-निश्चितान्यथानुपपश्येकलक्षणो
.
उपचार
"Aho Shrutgyanam"