________________
सम्मति० काण्ड १, गा० १
"
,
तच्छासनप्रतिपाद्यतच्चाभिन्नाऽन्यूनानधिकाऽवाघिततन्त्रप्रतिपादकत्वेन रूपेण तसच्छासनैस्सहा मेदसूचकमेवेति, अत एव महनीयमान्यगणधर श्री गौतमस्वामिप्रश्नोतररूपततत्सूत्रेषु मयैव नोच्यते किन्त्वर्थतोऽतीततीर्थ करैरप्येवं प्रोक्तम् उपलक्षणन्यायेनानागततीर्थकरैरप्येवं वक्ष्यते चेत्येवमर्थसूचकं " पनतं " इतिप्रभुश्री महावीर भगवता प्रोक्तमिति । " जिणाणं " इत्यत्र शासनत्वावच्छिन्नस्य तत्तच्छासनस्य तचजिन प्रणीतत्वप्रतिपादनाथ बहुवचनमिति । ननु शासनपदार्थैकदेशे शासनत्वे सिप्रत्ययार्थैकत्वान्वये कर्त्तव्ये सति " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन " इति व्युत्पत्तिविशेषप्रसङ्ग इति चेत्, दृष्टान्तद्वये सम्पन्नो व्रीहिरित्यत्र च दीयतां दृष्टिः उक्तदृष्टान्तद्वये पदार्थैकदेशे सिप्रत्ययार्थैकत्वस्यान्वयाभ्युपगमात् । सम्पन्नो व्रीहिरित्यत्रापि च सम्पश्याश्रयानेकव्रीहिष्वेकत्वस्य बाधेन श्रीहित्व एव त्रीहिपदोत्तर सिविभक्त्यर्थे कत्वस्यान्वयस्त्रीकाराश्च । अथ तत्रापि स्वाश्रयवच्त्रसम्बन्धेन सिप्रत्ययार्थैकत्वस्य सिप्रत्ययप्रकृत्यर्थ एवान्वयस्वीकारामोक्तव्युत्पत्तिविरोधप्रसङ्ग इति चेत् तर्हि प्रकृतेऽपीदृश्येव गतिरिति विभाव्यताम् । तथा चोक्तदृष्टान्तत्रयेsपि यथाक्रमं स्वाश्रयप्रमाकरणत्व-पदवाच्यत्व- व्रीहित्वद्वारैव वस्तुगत्या नानाविधप्रमाकरणपदवाच्यव्रीहिष्वेकत्वस्याऽन्वयस्वीकारवत् प्रकृतेऽपि स्वाश्रयशासनश्वद्वारैव परमार्थतस्तत्तरकालावच्छिन्नभिन्नभिन्नजिन प्रणीततत्तच्छासनेष्वेकत्वस्यान्वयस्वीकारात्तत्र सर्वत्र निश्चितप्रामाण्योपपत्तेर्न काऽपि क्षतिः । एतेन शासनत्वस्यात्रानुल्लिख्य. मानजातिरूपस्यान्वयितावच्छेद कशास नत्वत्वरूपेणानुपस्थितेस्तत्र न सिप्रत्ययार्थैकत्वस्यान्वय इत्यप्यारेका निरस्ता, शासनत्वेन रूपेणोपस्थिते शासनपदार्थ एवं स्वाश्रयवचरूपपरम्परासम्बन्धेन तस्यान्वयस्त्रीकारादिति । अथ तत्केषामित्यत आह-- “ जिणाणं " इति जिनानामिति, रागद्वेषादिरूपानरातीन् जयन्ति समूलकाएं कषन्तीति जिना:, तेषामू, यथा कृष्णस्य कृतिरित्यत्र " कर्तृकर्मणोः कृति " २-३-६५ इति पाणिनीयसूत्रेण कर्त्तरि षष्ठी तद्वच्छासनस्यापि कदन्तत्वात्तद्योगे ' जिनानाम् ' इत्यत्रापि कर्त्तरि षष्ठी, तथा च षष्ठयर्थस्याधेयत्वसम्बन्धेन प्रकृत्यर्थजिनान्वितस्य कर्तृत्वस्य निरूपकत्वसम्बन्धेन शासनेऽन्वयाद्यथा कृष्णस्य कृतिरित्यस्य कृष्णनिष्ठकर्तृतानिरूपककृतिरूपार्थपर्यवसायि कृष्णकर्तृककृतिरित्यर्थः ' तद्वद् जिनानां शासनमित्यस्य जिननिष्ठकर्तृत्वनिरूपकं शासनमित्यर्थपर्यवसायि जिनकर्तृकं शासनम्, अर्थतो जिनप्रणीतं शासनमित्यर्थः । यद्वा जिनानामित्यत्र सम्बन्धार्थे षष्ठी, सम्बन्ध कार्यकारणभावात्मकः तथा च स्वनिष्ठकारणतानिरूपित कार्यस्वसम्बन्धेन जिनसम्बन्धि, जिनप्रणीतमिति यावत्, अर्थतस्तदुपदिष्टत्वादिति भावः । ननु " सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं " इति सूत्रकृताङ्गनिर्युक्तयमिधानाच्छ्री तीर्थंकर भगवद्भाषित " उप्पखेह वा विगमेह वा धुवेइ वा " इति मातृकापदत्रयश्रवणमात्रावासप्रकृष्टश्रुतज्ञानावरणकर्मक्षयोपशमेन चतुर्दशपूर्वविदा श्रीगणधर
"Aho Shrutgyanam"