________________
सम्मति•
० काण्ड १, गा० १
41
शास्ता शास्त्रं शिष्यः, प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाचाऽप्रमाणं स्यात् ॥ १ ॥ प्रतिषेद्धप्रतिषेधौ स्तच्छून्यं कथं भवेत्सर्वम् १ | तदभावेन तु सिद्धा, अप्रतिषिद्धा जगत्यर्थाः ॥ २ ॥ " इति ।
तस्मात्किश्चिज्ज्ञानं प्रमाणं किञ्चिच्चाप्रमाणमिति विभाग एव परमार्थभूतोऽभ्युपगन्तव्य इति निष्कर्ष: । अत्र योगाः सङ्गिरन्ते उक्तनीत्याऽस्तु प्रमाणाप्रमाणविभागः, परन्तु स्वतः परतः प्रामाण्याऽप्रामाण्यनिश्वयविभागो न प्रमाणपद्धतिप्रतिष्ठामञ्चति, स्वप्रकाशज्ञानासिद्धया स्वतः प्रामाण्यनित्रयायोगेन परत एव प्रामाण्यनिश्चयस्य सद्भावादिति चेत्, मा स्वरध्वम्, यतस्स्वप्रकाशज्ञानप्रतिष्ठापनमग्रे द्वितीयकाण्डे करिष्यामः । इत्यलं प्रसङ्गानुप्रसङ्गेन, प्रकृतमनुसरामः । ननु जिनप्रणीतद्वादशाङ्गात्मकशासनस्य निश्चितप्रामाण्यं परपुरुषगतप्रमात्मक तदर्थविषय कशाब्दबोधजनकत्वनिश्चयविषयत्वलक्षणमेव, न च तदुपपद्यते, अतिमधुरस्यापि स्वाति नक्षत्र जलस्याशीविषमुखपतितस्य विषरूपेणेव सद्गुर्वनपेक्षमिध्यादृष्टिपरिगृहीतस्याङ्गानङ्गप्रविष्टस्य सम्यक् श्रुतस्याप्ययथावस्थितबोधतो वैपरीत्येन योजनान्मिध्यारूपेण परिणतिभावेन मिथ्यादृशां तदर्थविषयकाप्रमात्मकशाब्दबोधजनकत्वादिति चेत्, मा स्वरस्व, उच्यते समाधिः, समुद्रदोषात्समुद्रनिहित छिद्रत्वविशिष्टघटो न श्रियते इति न, किन्तु स्वीय छिद्रत्वदोषादेव, एकचन्द्रमसि द्विचन्द्रज्ञानं यज्जायते तन्न चन्द्रदोषात्, किन्तु पुरुषीय दृष्टिदोषादेव, तद्वत्प्रकृतेऽपि भवान्धि समुद्दिधीर्षुम गुरुनिरपेक्षाणां मिथ्यादृष्टीनां केषां चित्स्वपक्षनिषद्धोद्धुरानुबन्धानां स्वतस्सिद्धान्तावलोकनतो यन्मिथ्याज्ञानं जायते तदपि
न
सम्यकश्रुतस्य प्रमात्मकज्ञानजननाऽसामर्थ्यदोषबलादप्रामाण्यदोपबलाद्वा, किन्तु पूर्वभवीय मिध्यावासनाजनिताऽयथार्थसङ्केतानुसन्धानसहित स्त्री यमिध्यात्वदोषप्राबल्यादेवेति तज्ज्ञानमज्ञानमेव, उक्तदोषविगमेन सम्यग्दर्शनाशयशुद्धौ तत्सहकृतं श्रुतमप्रामाण्यज्ञानानारुकन्दितज्ञानविषयप्रामाण्यविशिष्टयथार्थज्ञानं जनयति, यथा स्वीय दृष्टिदोषनाशे नैर्मल्यगुणसहकृतं चक्षुरेकचन्द्र इति प्रमात्मकं ज्ञानं जनयति, न च तत्र पश्चादिदं ज्ञानं प्रमा न वेति संशयः, न वेदं ज्ञानमप्रमात्मकमेवेति विपर्ययज्ञानं भवति, अत एवोत्पत्तौ प्रामाण्यमप्रामाव्यश्च परत एव, ज्ञप्तौ तु स्वतोऽपि सिद्धान्ते गीयते, उक्तञ्च प्रमाणनयतच्चालोकालङ्कारेतदुभयमुत्पत्तौ परत एव ज्ञतौ तु स्वतः परतश्चेति । " १ ॥ २१ ॥ इति ॥
64
२७
>
44
"
अत्र ' तदुभयमिति प्रामाण्यमप्रामाण्यश्चेत्यर्थः, परत एव इति कारणगत• गुणदोषापेक्षयैवेत्यर्थः । तदुभयमपि बहिरर्थापेक्षयैव, न तु ज्ञानापेक्षया, तदपेक्षया ज्ञानमात्रस्य प्रमाणैकरूपत्वात् । तदुक्तमाप्तमीमांसायां -
"Aho Shrutgyanam"