________________
सम्मतिः काण्ड १, गा. - "भावप्रमेयापेक्षायां प्रमाणाभासनिहवः।
__ बहिः प्रमेयापेक्षायां प्रमाणं तन्न वेति च ॥ १ ॥" इति ॥ मावेति सामान्यशब्दोऽपि बहिरित्यभिधानाज्ज्ञानस्वरूपे वर्तत इति । " स्वतः परतथेति " अभ्यासदशायां संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् प्रामाण्याप्रामाण्यनिश्चयः स्वतो भवतीत्यभिधीयते, विषयांशेऽभ्यासजन्यक्षयोपशमस्यैव तत्र व्यापाररूपत्वात् । अनभ्यासदशायां तु संवादकबाधकज्ञानाऽपेक्षया जायमानोऽसौ परतः, पूर्व प्रामाण्या: प्रामाण्यग्रहसामग्र्यसिद्धरित्यक्षरार्थः । तद्वत्प्रकृतेऽप्युक्ताशयशुद्धौ श्रुतजन्यतदर्थविषयकज्ञाने तद्गते स्वतः प्रामाण्यज्ञाने च नाप्रामाण्यसंशयविपर्ययाविति श्रुतस्योक्तलक्षणनिश्चितप्रामाण्यं निर्वहत्येवेति । नन्वेवं तर्हि सभ्यश्रुतज्ञानवता परोपकारकधुरीणसुगुरुणा सिद्धान्तोक्तविधिना यथार्थरूपेण पाठितानां मिथ्यादृष्टीनां किं प्रमात्मकमेव श्रौतज्ञानं जायते किम्वाऽन्यथेति चेत्, प्रमात्मकमेवेति जानीहि । न चैवं तर्हि तेषां ज्ञानस्य सज्ज्ञानत्वप्रसक्त्या सम्यग्दृष्टित्वप्रसङ्ग इति वाच्यम् , यतस्तेषां पूर्वपूर्वभवीयमिथ्यावासनावासितानामेकान्तदृष्टीनां सद्गुरुप्रोक्तमिदमित्थमेवेति सम्यक्तत्त्वार्थश्रद्धानामा वान्मिथ्यात्वदोषप्रावल्यादेव प्रमात्मकेऽपि तस्मिन् श्रौतज्ञाने इदं ज्ञानं प्रमात्मकं न वेत्या. कारक एतज्ज्ञानविशेष्यकप्रामाण्यतदभावप्रकारकोऽप्रामाण्यसंशयः, यद्वेदं ज्ञानमप्रमात्मकमेवेत्याकारकमेतज्ज्ञानविशेष्यकाऽप्रामाण्यप्रकारकं विपर्ययात्मकमप्रामाण्यज्ञानं तदानी जायते, प्रमात्मकौतज्ञानेऽप्रामाण्यसन्देहे तद्विषयेऽप्यसत्यत्वसन्देहाद्विपर्ययात्मकाप्रामा ण्यज्ञाने वा तद्विषयेऽपि पश्चाद्विपरीतत्वज्ञानातज्ज्ञानमज्ञानमेवेति सम्यग्ज्ञानाभावान सम्यः ग्दृष्टित्वप्रसङ्गः । निस्स्वार्थैकान्तपरमार्थहितबुद्धया जिनोक्ततत्वामृतरसनिपायिसद्गुरुभगवत
श्रृंत यथार्थमधीयाना अपि मिथ्यादृष्टय एकान्ततत्त्वमेव सत्यं मन्यन्ते, न त्वनेकान्ततश्व मित्यनेकान्ततत्वप्रतिपादकश्रुतजन्यज्ञाने प्रमात्मकेपि प्रामाण्यं सन्दिहन्ति, विपर्ययन्ति वा, न तु सम्यग्दृष्टय इव श्रुतस्य जिनप्रणीतत्वेन तजातं ज्ञानं प्रमात्मकमेवेति निश्चिन्व. न्ति, अत एव " चोदस दस य अभिन्ने, नियमा सम्मं तु सेसए भयणाए " इति सिद्धान्तवचोऽपि सङ्गच्छते, तथा च प्रामाण्यवत्यपि श्रौतज्ञाने संशयविपर्ययान्यतरलक्षणं यदप्रामाण्य: ज्ञान तद्विषयत्वलक्षणमलकालुष्येण न मिथ्यादृष्टिज्ञानं शुद्धम् , ज्ञाने हि शुद्धिनें केवलप्रमा, वलक्षणा, तथा सति मिथ्यादृष्टीनां निस्सीमकृपासुधासिन्धुसुगुरुणाऽध्यापितानां यथार श्रुतार्थज्ञाने जाते तत्र तथात्वप्रसक्त्या तेषु सम्यग्ज्ञानालिङ्गितत्वं स्यात् , किन्त्वप्रामाण्यझानानास्कन्दितज्ञान विषयप्रामाण्यलक्षणा, सा च सम्यग्दृष्टीनां श्रौतज्ञाने स्वतः प्रामाध्यज्ञाने सति तदुत्तरं नैव तत्र संशयविपर्ययान्यतरलक्षणाऽप्रामाण्यज्ञानं भवतीति तन्त्र सटते, मिथ्यादृष्टीनां तु श्रौतज्ञाने स्वतः प्रामाण्यज्ञानमेव न भवति, अन्यथा
"Aho Shrutgyanam'