________________
सम्मति • कान्ड १, गा० १ कारणत्वाभ्युपगमे स्वतन्त्रोपस्थितानिष्टमेदाग्रहस्य निवृतिं प्रति कारणत्वमभ्युपगन्तव्यम्, एव रजतरङ्गयोरिमे रङ्गरजते इति ज्ञाने जाते भवन्मते रजते रजत मेदग्रहस्यान्यथा ख्यातिप्रसङ्गभयादनभ्युपगन्तव्यत्वेन रजतप्रवृत्तिकारणस्य स्वतन्त्रोपस्थितेष्टरजत मेदाग्रहस्य सवेन रजतगोचरप्रवृत्तेः रङ्गगोचरनिवृत्तिकारणस्य स्वतन्त्रोपस्थितानिष्टरङ्गमेदाग्रहस्य दोषबलाद्भावेन रङ्गगोचरनिवृत्तेश्च युगपदेव रजते प्रसङ्गः, एवं रङ्गेऽपि रङ्गमेदग्रहस्यान्यथाख्यातिप्रसङ्गमयादनभ्युपगन्तव्यत्वेन रङ्गभेदाग्रहस्य रङ्गगोचरनिवृत्तिकारणस्य सद्भावाद्रङ्गगोचरनिवृत्तेर्दोषबलाद्रजतभेदाग्रहस्य भावेन रजतगोचरप्रवृत्तेश्च युगपदेव प्रसङ्गः, एवमनुमितिम्प्रति परामर्शस्य विशिष्टज्ञानत्वेन कारणत्वे अयोगोलकं वह्निमदित्यनुमित्यनुरोधेन वह्निव्याप्यधूमवदयोगोल कमित्यन्यथाख्यातिशपद्येत, भेदाग्रहस्य कारणत्वे तु हदे वह्निव्याप्यधूमवद्भेदाग्रहाद् हदो वह्निमानित्यन्यथाख्यातिरका मेनाप्यभ्युपगन्तव्येति । तादृशभेदाग्रहस्य प्रहृष्यनियामकत्वे च सिद्धे विवादापनं रजतसंवेदनं पुरोवर्तिशुक्तिशकलगोचरमेव, तत्रैव प्रवृत्तिनिमित्तत्वात् यद् यत्रैव प्रवृत्तिनिमित्तं तत् तद्गोचरमेव, यथा सम्यग्रजते रजतज्ञानम्, पुरोवर्त्तिन्येव शुक्तिशकले प्रवृत्तिनिमित्तं चेदं ज्ञानं, तस्मात्तद्गोचरमेवेति । किञ्च नेदं रजतमिति बाधकप्रत्ययानन्तरं यदेव शुक्तिशकलं कलधौतरूपेण मया प्राक् प्रत्याकलितं तदेवेदमिति प्रत्यभिज्ञानमात्मलाभमनुभवदनुभूयत इति तद्द्बलेनापि शुक्तिशकले इदं रजतमिति ज्ञानमखण्डैकरूपमेव कामलादिदोषदूषित नेत्रादिसामध्या पूर्वरजतानुभवजनितसंस्कारप्रबोधप्रभवस्मरणद्वारा जायमानमभ्युपेयमिति । तदेवं सर्वज्ञानस्य यथार्थ - त्वादेव प्रमाणाप्रमाणविभागोऽनुपपन्न इति प्रभाकरमतमपि न युक्तियुक्तमिति सिद्धम् । कुमारिलाद्यभ्युपगतपक्षत्रयेऽप्यधिकं विस्तरभया नेह प्रतन्यत इति । एतेन सर्वज्ञानस्यायथार्थस्वात्प्रमाणाप्रमाणविभागोऽनुपपन्न इति शून्यवादिमतमपि निरस्तम्, सर्व ज्ञानमयथार्थ - मिति ज्ञानस्य यथार्थत्वा यथार्थस्वाभ्यामुत्तरविरोधात्, तथाहि - सर्वज्ञानमयथार्थमिति ज्ञानस्य यथार्थत्वे सर्वान्तर्गतं तज्ज्ञानमपीति तस्य यथार्थत्वात् सर्वं ज्ञानमयथार्थमित्य सङ्गतं स्यात् । अयथार्थत्वे च तद्विशेष्यीभूतस्य सर्वज्ञानस्य यथार्थत्वप्रसक्त्योक्तमसङ्गतं स्यादिति । किश्च शून्यतासाधकं किञ्चित्प्रमाणमस्ति चेत्कथं सर्वशून्यता, प्रमाणस्यैव वस्तुरूपत्वात्, कथञ्च सर्वज्ञानमयथार्थमिति वचोऽपि शोभां लभेत ? शून्यतासाधकप्रमाणाभ्युपगमेन सर्वज्ञानस्यायथार्थत्वाभावात् सर्वान्तर्गतस्य शून्यतासाधकयथार्थज्ञानस्य सद्भावात् । ननु सर्वज्ञानमयथार्थमित्यभ्युपगच्छन् कथं शून्यतासाधकप्रमाणस्य यथार्थत्वं स्वीकुर्यादिति चेत्, तर्हि शून्यतासिद्धिः कथम्, यथार्थप्रमाणनिबन्धनत्वाद्विदुषामिष्टसिद्धेः, अथ शून्यतासाधकप्रमाणं नास्तीति चेत्तर्हि कथं शून्यता सिद्धयेत् प्रमाणमन्तरेण कस्यापि वस्तुनस्सिद्धयभावात् उक्तञ्च शून्यतानिरासेऽन्यत्र -
*
"Aho Shrutgyanam"
.