________________
सम्मति काण्ड 1, गा० 2
મ
व्यवहारः, तथाप्युक्तव्यवहारविषये ज्ञानेऽन्यथाख्यातित्वमस्ति न वेति विप्रतिपद्यामहे इति चेत्, मैवम्, यतो विप्रतिपत्तिर्विधिनिषेधोभयकोटिका भवतीति भवदभ्युपगतनिषेधफोटो तत्प्रतियोगिनोऽन्यथाख्यातित्वस्य कुत्रापि सत्वमस्ति न वेत्युच्यताम्, अस्तीति ब्रूम इति तर्हि पर्यवसितं विवादेन, यत्रैव सभ्त्रं तस्यैवायथार्थत्वेनोभयवादिसिद्धत्वात् । नास्तीति चेतर्हि कुत्राप्यसतो निषेधः कर्तुमशक्य एव, यतो न हि प्रेक्षावद्भिरसतश्शशशृङ्गस्य निषेधः क्रियते । अथ तत्र महिष्यादौ प्रसिद्धमेव शृङ्गं शशीयत्वेन रूपेण निषिध्यते arroछादौ प्रसिद्धमेवान्यथात्वं व्यधिकरण प्रकारत्वलक्षणं ख्यातौं निषिध्यते, नन्वेवं af शुक्ताविदं रजतमित्या कारकस्येदंत्वावच्छिन्नविशेष्य तानिरूपितरजतत्वनिष्ठ प्रकार तानिरूपकस्य ज्ञानस्याभावे रजतार्थिनः मरुमरीचिकादाविदं जलमिति ज्ञानस्याभावे च जलार्थिनः प्रवृत्तिः कथं स्यादिति चेत्, उच्यते, इदं रजतमिति सम्यग्ज्ञानद्वयं, विभिन्नकारणजन्यत्वात् विभिन्नगोचरत्वाच्च तत्रेन्द्रियकारणजन्यमिदमिति प्रत्यक्षं पुरोवर्तिशुक्तिकाशकलविषयकम्, तत्र दोषवशात्तद्गत शुक्तित्व विशेषस्याऽग्रहः । साधारण भास्वररूपदर्शनोबुद्धसंस्कारजन्यं रजतमिति स्मरणं हट्टपट्टादिव्यवस्थितरजतविषयकम्, न च तत्तोले खाभात्रात्कथं तत्स्मरणमिति वाच्यम्, गृहीतग्रहणस्वभावेऽपि तस्मिन् स्मरणे दोषवशागृहीततत्तांशप्रमोषाद्रजतमात्रग्रहणस्यैव स्मृतिरूपत्वात् तस्मादेव च स्मरणात्प्रवृत्तिरिति चेत्, तदपि न विद्वन्मनोरञ्जकम्, पुरोवर्त्तिनं यमुद्दिश्य प्रवृत्तिस्तद्विषयकज्ञानादेव साऽनुभूयत इत्यन्य विषयक ज्ञानादन्यत्र प्रवृत्त्यसम्भवात्, अन्यथाऽतिप्रसङ्गात् । अथोक्तज्ञानमपि प्रवृत्तौ नियामकमभ्युपगम्यत एवेति चेत्, तर्हि शुक्त्यादौ रजतादिभेदग्रहेऽपि प्रवृत्यापत्तेः, प्रवृत्तिकारणीभूतोक्तज्ञानद्वयस्य सच्चात् । न च दोषाधीनः पुरोवर्त्तिनि स्वतन्त्रोपस्थित - रजतभेदाग्रहः प्रवृत्तिनियामक इति नोक्तदोषः, अयम्मावः - इदं रजतमित्यस्य ज्ञानद्वयरूपत्वेऽपि तत्र द्रष्टुः शुक्तिरजत योरसंसर्गग्रहो नास्ति, तावतैव रजतमर्थमर्थयमानोऽपि इदंशब्दवाच्ये पुरोवर्त्तिनि प्रवर्त्तते, न च ज्ञानद्वयरूपत्वे कथं विशिष्टव्यवहार इति वाच्यम् ज्ञानयोरपि मिथोऽसंसर्गग्रहाभावात्, तथा च रजतस्मृतेः पुरोवर्त्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च दोष प्रयुक्त मेदाग्रह एव प्रवर्त्तक इति वाच्यम् रजते नेदं रजतमिति ज्ञानमन्यथाख्यातिप्रसङ्गमीत्या न भेदग्रहरूपमिति भेदाग्रहस्य सच्चात्तत्रापि प्रवृत्यापत्तेः ।
अथ रजतभेदासंसर्गाग्रहाभाव एव तदर्थ इति नोक्तदोष इति चेत् तर्हि सत्यरजतस्थले 'विशिष्टज्ञानस्य हेतुताया भवतापि क्लृप्तत्वाद् रङ्गगोचररजतार्थिप्रवृत्तावपि तत्कल्पनाया एवोचितत्वात् न च संवादिप्रवृत्तौ तत्कारणम्, विसंवादिप्रवृत्तौ तुक्तलक्षणभेदाग्रहः कारणमिति वाच्यम् संवादिविसंवादिमेदेन कार्यकारणभावद्वयापेक्षया लाघवतर्कसहकारेण प्रवृत्तिमात्रे विशिष्टज्ञानस्यैव हेतुत्वकल्पनौचित्यात् । किञ्च निरुक्तभेदाग्रहस्य प्रवृत्तिं प्रति
;
"Aho Shrutgyanam"