________________
१२
सम्मति काण्ड १, गा० १ छग्रस्थपुंस एकदा प्रेक्षावरणकर्मणः क्षयोपशमस्तस्यैव पुंसः कालान्तरे तदुदयः, पुनश्च कालान्तरे तत्क्षयोपशम इति कारणीभूतस्य प्रेक्षावरणकर्मक्षयोपशमस्यानियतभावेन तत्कार्यस्य प्रेक्षावस्वस्याप्यनियतभावात् । तथा च यः कश्चिच्छमस्थात्मा एकदा प्रेक्षावरणक्षयोपशमविशेषादवाप्त प्रेक्षावद्वयपदेश: सुनिश्चितप्रामाण्यात्प्रमाणात् क्वचित्प्रवर्त्तते सोऽप्यन्यदा तथाविधक्षयोपशमानवाप्स्या समासादिताप्रेक्षावद्वयपदेशः संशयादेरपि क्वचित्प्रवर्त्तत इति न कश्चित्प्रतिनियतः प्रेक्षापूर्वकारी तदितरो वा । तथा चोक्तम्
" प्रेक्षावत्ता पुनर्ज्ञेया, कदाचित्कस्यचित्क्वचित् ।
अप्रेक्षाकारिताष्येव - मन्यत्राशेषवेदिनः ॥ १ ॥ " इति ।
तदेवं सिद्धमभ्यासदशायां प्रवर्तकज्ञाने संवादकज्ञानानपेक्षणात् स्वतः प्रामाण्यनिश्चयः, अनभ्यासदशायां तु यादृशोऽर्थः पूर्वस्मिन् ज्ञाने प्रथापथमवतीर्णस्तादृश एवासौ येन विज्ञानेन व्यवस्थाप्यते तल्लक्षणसंवादकज्ञानापेक्षया जायमानत्वात्परत इति । तदुक्तं स्याद्वादरत्नाकरे" तदित्थं ज्ञप्तिमाश्रित्या-नभ्यस्ते विषये स्फुटम् ।
प्रामाण्यं परतः सिद्ध, - मभ्यस्ते स्वत एव तु ॥ १ ॥ " इति ।
एतेन संवादकज्ञानं समानजातीयं किं वा भिन्नजातीयम्, समानजातीय मध्ये कसन्तानप्रभवं किं वा भिन्नसन्तानप्रभवम्, भिन्नजातीयमपि किमर्थक्रियाज्ञानमुतान्यदित्यादि कुचोद्यावकाशो निरस्तः, प्रामाण्यनिश्चयवदप्रामाण्यनिश्चयोऽप्यभ्यासदशायां बाधकज्ञानमनपेक्ष्य जायमानस्स्वतो भवतीत्यभिधीयते, अनम्यासदशापन्ने तु ज्ञाने पूर्वानुभवविषयीकृतस्य रजतस्य प्रतिषेधं बोधयतो नेदं रजतमित्याद्याकारस्योत्तरकालभाविबाधकज्ञानस्याऽपेक्षया प्रादुर्भवन् परत इति । अत्र मीमांसकास्त्वेवं मीमांसयन्ति- यदि हि ज्ञानं स्वगतं प्रामाण्यं स्वतो निखेतुं न शक्नुयात्, तर्हि जगति निश्चयात्यन्ताभाव एव स्यादित्यान्ध्यमेवाशेपस्य जगतः सम्पद्येत, न हि स्वतोऽनिश्चीयमानोऽर्थः परतो निश्चेतुं पार्थते परस्यापि तद्वदेवाऽसामर्थ्यात् । अतो यत्र क्वापि वा स्वतो ग्राह्यत्वमङ्गीकरणीयं तद्वरमुत्सर्गतः सर्वज्ञानेष्वेव प्रामाण्यं स्वतो गृह्यत इत्यभ्युपगमनम् । तच्च स्वतो ग्राह्यत्वं प्राथमिकज्ञानग्रहग्राह्यत्त्रम्, तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वमिति यावत् । एतादृशं स्वतो ग्राह्यत्वं मीमांसकानां त्रिष्वपि मतेषु सममेत्र, तत्र भाट्टानां मते ज्ञानमतीन्द्रियं घटोऽयमित्यादिज्ञाने जाते तेन ज्ञाततानाम कश्चित्सविषयः पदार्थों घट उत्पद्यते, घटत्वेन घटो ज्ञात इति प्रत्यक्षज्ञानोत्पत्तेः, अत एव सा प्रत्यक्षा, न चोक्तप्रत्यक्षज्ञानं ज्ञानस्य वैशिष्ट्यमवगाहते, नयनादेरात्मगुणग्राहकत्वात् मनपच बहिरस्वातन्त्र्येण घटरूपविशेष्याग्राहकत्वात्, किन्त्वतिरिक्तज्ञावतायाः, तथा च घटत्ववद्घटवृत्तित्वे सति घटत्वप्रकारकज्ञाततात्वविषयकप्रमात्मकप्रत्य - धानुभवरूपलिङ्गज्ञानेन ज्ञाततापक्षे घटत्ववद्घटविशेष्यक घटत्वप्रकारकज्ञानजन्यत्वमनुमीयते
"Aho Shrutgyanam"