________________
सम्मति० काण्ड १, गा० १
प्रयासेन । तस्यापि किं प्रयोजनमिति चेत्, स्थाने प्रश्नः, किन्तु संशयापगमस्याभ्यासलक्षणमेव प्रयोजनं किं न परामृशसि । यदा कदा संवादकज्ञानात्प्रामाण्यं निश्चितं भवति तदा सुखेनैवान्यदाऽभ्यासात्स्वत एव प्रामाण्यनिश्चयपूर्विका प्रवृत्तिस्सिद्ध्यति प्रतिपत्तॄणामिति । एतेन प्रथमे प्रवर्त्तकज्ञाने प्रामाण्यनिश्चयाऽभावे ततः प्रवृत्तिर्नोपपद्यत इति तनिश्चयात्प्रवृत्तिः, प्रवृत्तौ सत्यां तथा संवादकज्ञानम्, तस्माच्च प्रवर्त्तकज्ञाने प्रामाण्यनिश्चयः, ततः प्रवृत्तिरिति दुर्निवारचक्र कावतारः । किञ्च संवादकज्ञानमप्य निश्चितप्रामाण्यं न प्रवर्त्तकज्ञाने प्रामाण्यनिश्चयोत्पादने समर्थमिति तस्यापि प्रामाण्यनिश्चयोऽन्यस्मात्संवादकज्ञानादित्यभ्युपगमेऽनवस्था, प्रवर्तकज्ञानाश्चेत् तर्ह्यऽन्योऽन्याश्रयः । संवादकज्ञानस्य स्वतःप्रामाण्यनिश्चयाभ्युपगमे च प्रवर्त्तकज्ञानस्य तथाभावे किं कृतः प्रद्वेषः । यदाह भट्टः" यथैव प्रथमं ज्ञानं, तत्संवादमपेक्षते ।
संवादेनापि संवादः, परो मृग्यस्तथैव हि ॥ १ ॥ संवादस्याथ पूर्वेण, संवादित्वात्प्रमाणता । अन्योन्याश्रयभावेन, प्रामाण्यं न प्रकल्पते ॥ २ ॥ कस्यचित्तु यदीयेत, स्वत एव प्रमाणता । प्रथमस्य तथाभावे, प्रद्वेषः केन हेतुना १ ॥ ३ ॥
39
२१.
"Aho Shrutgyanam"
GOLA
सत्य
इत्यपि निरस्तम् । यदि हि संवादकज्ञानादेकान्तेन प्रवर्त्तकज्ञाने प्रामाण्यं निश्चित्यैव ततः प्रवृत्तिः प्रतिज्ञायते, तदा स्याच्चक्रकदूषणावतारः, न चैत्रम्, अनभ्यासदशायां प्रामाव्यसन्देहकादपि प्रथमज्ञानात्प्रवृत्तिभावात्, तत्र प्रामाण्यनिश्चयस्तु प्रवृश्यनन्तरभाविसंवादकज्ञानात् । ननु तत्रापि पूर्वज्ञानेन प्रामाण्यनिश्चयेऽन्योऽन्याश्रय इत्युक्तं प्रागिति चेत्, मुक्तम्, न च युक्तमुक्तम्, अभ्यासदशायां संवादकज्ञानस्य स्वत एव, अनभ्यासदशायां तु संवादकज्ञानान्तरादेव प्रामाण्यनिश्चयात् । न चैवं तर्हि तत्रापि संवादकज्ञानान्तरापेक्षायामनवस्थेति वाच्यम्, संवादक ज्ञानान्तरैरनभ्यासदशापनैरेव भाव्यमिति नियमाभावात् । एतेन नोदकाहरणरूपार्थक्रियाज्ञानेनार्थनिश्चयद्वारा पूर्वज्ञाने प्रामाण्यनिश्चयः, तस्यापि स्वमावस्थायामर्थव्यभिचारेण तेनाऽर्थनिश्चयासम्भवात् । नापि तज्जन्यसुखोत्पच्या पूर्वज्ञाने प्रामाण्यनिश्चयः, अयथार्थादपि स्वप्ने चन्दनलेपादिज्ञानात्सुखोत्पत्तेः, स्वप्नकालीनाssशामोदकादिभक्षणजन्यस्वास्थ्य सुखोत्पत्तेश्वार्थव्यभिचारित्वात् । तथैव संवादकज्ञानादपि पूर्वज्ञाने न प्रामाण्यनिश्चयः, तस्यापि स्वप्नकालेऽर्थव्यभिचारित्वादेवेत्यपि निरस्तम्, जाग्रत्प्रत्ययत्वे सत्यर्थक्रियाज्ञानजनकं संवादकज्ञानजनकं वा ज्ञानं प्रमाणमिति लक्षणे कृते सति स्वप्नालीनेऽर्थक्रियाज्ञाने संवादकज्ञाने च व्यभिचारप्रदर्शनस्यायुक्तत्वादेवेति । ननु ज्ञाने प्रामाण्यसन्देहे सत्यपि प्रवृत्तौ प्रेक्षावच्चं न स्यादिति चेत्, सत्यम्, यस्यैव
S