________________
सम्मति० काण्ड १, गा, नैर्मल्यादेनिवर्तमानत्वादिति तस्य तन्मात्रत्वाऽनुपपत्तेः । एतेन नैर्मल्यादिगुणकार्यस्य यथार्थप्रत्यक्षस्य दोषामावमात्रेणापि चरितार्थत्वे सति किमतिरिक्तगुणकल्पनयेत्यपि निरस्तम्, गुणामावमात्रेणापि काचकामलादिदोष कार्यमयथार्थप्रत्यक्षं सेत्स्यतीति किमतिरिक्तदोषकल्पनयेति विपर्ययस्यापि सुवचत्वात् । किञ्च दोषाभावोऽपि न तुच्छरूपोऽम्युपगन्तुमर्हः, खरशृङ्गस्येव तस्यासत्कल्पत्वेन मीमांसकैरभ्युपगमात्, किन्तु पर्युदासवृत्त्या गुणात्मक एवेति गुणाभावे स तदात्मकः कथं स्यात् । अथाभावस्थाधिकरणस्वरूपत्वेनाभ्युपगमाद् दोषरहितचक्षुस्स्वरूप एव दोषाभावः, स एव यथार्थबुद्धिमुत्पादयतीति तत्कारण. तयाऽभ्युपेयते इति चेत् , तर्हि भूतलस्वरूपस्यापि घटाभावस्य तद्विषयकप्रत्यक्षम्प्रति घटाभावत्वेन कारणत्ववत् ताम्प्रति दोषाभावत्वेन तस्य कारणत्वमभ्युपगतं स्यात्, तदपेक्षया गुणत्वेन कारणत्वे लाघवतर्कोऽपि किन्न स्मृतिगोचरी क्रियते । “ संविदेव भगवती वस्तुतत्वप्रसाधनी" इत्युक्तलोकप्रतीतितोऽपि गुणा अभ्युपगन्तव्याः, सा चैवम्-कश्चित्काच. कामलादिदोषकलुषितलोचनस्तथाविधौषधप्रयोगसमासादितनिर्मलतरचक्षुर्गुणः केनचित् परमसुहृदा पृष्टो ब्रूते, मे लोचने पूर्व काचकामलादिदोषग्रस्ते समभूताम् , अधुना त्वौषधप्रयोगेण निर्मलतागुणसमालिङ्गिते सम्पन्ने इति, न तु विस्मृत्यापीदं वक्ति, यदुत पूर्व दोषषिकते मे लोचने अभूताम् , इदानीं पुनस्तयोरौषधप्रयोगेण तिमिरादिदोषामावमात्रं तुच्छं सञ्जातमिति । एतेन "इन्द्रियादिस्वरूपमेव ह्यन्यनिरपेक्षमर्थाऽविसंवादिज्ञानोत्पादकम् , अञ्जनादीनां च दोषापगमे व्यापारः, न गुणाधाने" इति मीमांसाश्लोकवार्तिकतात्पर्यटीकावचनमप्यपहस्तितम् , तथा च गुणवच्चक्षुरादिसामग्रीत उत्पद्यमानं ज्ञानं प्रामाण्यविशिष्टमेव, दोषवचक्षुरादिसामग्रीतश्चोत्पद्यमानं तत् अप्रामाध्यविशिष्टमेवोत्पद्यत इति सिद्ध ज्ञानस्य प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यत इत्यत उत्पत्ती परत इति । निश्चीयते तु तदुभयमभ्यासदशायां स्वतः, यतस्तत्र प्रतिपादोद्धारं परतः प्रामाण्यमप्रामाण्यं वा निश्चित्य प्रवृत्तिनिवृत्तिर्वा न, किन्तु प्रथमज्ञाने स्वतस्तनिश्चित्यैव, अनभ्यासदशायां तु परत इति । नन्वनभ्यासावस्थायां न ज्ञाने स्वतः प्रामाण्यनिश्चयस्तर्हि ततः प्रवृत्तिः कथमिति चेव, प्रामाण्यसंशयादेवेति जानीहि । अथ प्रवृत्ति प्रति न संशयः कारणमित्यपि न च वाच्यम्, यतः कदाचित्फलप्राप्त्या वशीकृतान्तरात्मानः कृषीवला अपि सस्यसम्पत्त्यादिफलनिश्चयाभावेऽपि तत्सम्भावनयैव कृष्यादौ फलमुद्दिश्यैव प्रवर्त्तमाना दरीदृश्यन्ते, सम्भावनाया अपि सन्देहविशेषत्वात् , ननु यदि प्रामाण्यसंशयादपि प्रवृत्तिस्तहि घटज्ञानं प्रमात्मकं संवादिप्रवृत्तिजनकत्वादित्या. धनुमानादिलक्षमात् संवादकज्ञानात् प्रामाण्यनिश्चयस्य किं प्रयोजनम् , प्रवृत्त्यर्थ हि प्रामाण्यनिश्चयः कर्तव्या, सा च सन्देहादपि जातेति चेत्, उच्यते, तत्र प्रामाण्य. निश्चयस्य तद्विषयसन्देहापगम एव प्रयोजनं सुप्रतीतमिति किं प्रयोजनान्तरनिरूपण
"Aho Shrutgyanam"