________________
सम्मतिः काण्ड , . . ___ " सुव्यक्तं गुणमात्सर्य,-मकारणमिदं तव ।
दोकपक्षपातित्वं, किं ब्रूमस्तत्सखेऽधुना ॥१॥" इत्युक्तं सत्यापितं स्यात् । ननु गुणविप्रतिपनं प्रत्यनुमानमेव तत्साधकं शरणभूतमिति तत्कीदृशमिति चेत्, तदपि शृणु सावधानीभूय, विवादाध्यासितेषु ज्ञानहेतुषु गुणास्सन्ति, अन्यथाऽनुपपद्यमानसम्यग्ज्ञानजनकत्वात् , यद्वा प्रमा ज्ञानसामान्यकारणभिन्नकारणजन्या ज्ञानत्वे सति कार्यविशेषत्वात् अप्रमावत् । यदि च ज्ञानसामान्यकारणमात्राधीना भवेदप्रमाऽपि प्रमैव भवेत् । अस्ति हि तत्र ज्ञानसामान्यहेतुः, अन्यथा ज्ञानमपि सा न स्यादित्यनुमानेन सामान्यतस्तादृशभिन्न कारणजन्यत्वसिद्धौ चाक्षुषादिनमा चक्षुरादीन्द्रियवृत्तिगुणजन्या प्रमाविशेषत्वात् , यन्नैवं तन्नैवम् , भ्रान्तज्ञानवदिति व्यतिरेक्यनुमानेन तादृशगुणजन्यत्वसिद्धौ तटकतया गुणसिद्धिः, यद्वा प्रमा कारणवृत्तिगुणजन्या कार्यविशेषात्मकत्वात् , यद्यत्कार्यविशेषात्मकं तत्तत्कारणवृत्तिगुणजन्यं, मालाकारनैपुण्यगुणसञ्जातस्रग्वत् , यद्वा प्रमात्वं जन्यत्वसम्बन्धेन गुणव्याप्यं तत्कार्यमात्रवृत्तित्वात् , यद्यत्कार्यमात्रवृत्ति तजन्यत्वसम्बन्धेन तद्वथाप्यम् , यथा धूमत्वं जन्यत्वसम्बन्धेन वहिव्याप्य. मित्यायनुमानप्रकारा गुणसाधनेवबोदव्या: । यद्वा प्रमात्वं ज्ञानसामान्यकारणभिन्नकारणजन्यतावच्छेदकं ज्ञानवृश्यनित्यधर्मत्वात् अप्रमात्ववदिति सामान्यानुमानेन ताशसाध्यसिद्धौ दोषजन्यतावच्छेदकत्वबाधेन परिशेषानुमानेनेन्द्रियादिगतगुणजन्यतावच्छेदकत्वं प्रमात्वस्य सिद्धयति । किश्च सविकल्पकज्ञानं कार्य यथार्थायथार्थभेदेन द्विविधमेवाव. लोक्यते, न तु तृतीयप्रकारम् , तत्राद्यं गुणवत्कारणोत्पाद्यम्, द्वितीयन्तु दोषवत्कारणो. त्पाद्यम् , ज्ञानकार्यस्य द्वैविध्ये च सति तत्कारणेनापि द्विविधेनैव भाव्यमित्युक्तकारणातिरिक्तं कार्यवत्कारणमपि नोपलभामह इति सम्यग्ज्ञानलक्षणं कार्य गुणवत्कारणादेवोपजायत इति सिद्धम् । एतेन यथार्थज्ञानं स्वरूपावस्थितेभ्य एव कारणेभ्यो जायत इति न तत्कारणगतगुणकल्पनाये तत्प्रभवतीति निरस्तम्, गुणदोषविरहितस्य तृतीयकारणस्यासम्भवात् । ननु क आह तृतीयकारणमस्तीति, किन्तु नैर्मल्यादिकं नयनादीन्द्रियाणां स्वरूपमेव, न पुन: स्वरूपातिरिक्तो गुण इति चेत्, कुतो नैर्मल्यादेनयनादिस्वरूपतावगतिः, नयनादितः पार्थक्येन तस्यानुपलम्मात्सेति चेत् , तर्हि तिमिरादिदोषा नयनादिस्वरूपाः पृथक्तयाऽनुपलम्मात् नैर्मल्यादिवदित्यपि सिद्धं कथं न स्यात् । किश्च तत्र स्वरूपशब्दवाच्यार्थः को भवदभिलषित इति वाच्यम् , अथ किमत्र वक्तव्यम् , तादात्म्यं तन्मात्रत्वं वेति चेत् , तर्वाऽऽद्यविकल्पे नैर्मल्यादेर्गुणत्वाऽनिषेधः, तादात्म्यस्य गुणत्वेन सहाविरोधात् , अन्यथा रूपादेरपि गुणत्वं न स्यात् । अथ रूपादिकं घटादिधर्म्यतिरिक्तमेवेति तद्गुणरूपमेवेति चेत्, तहिं नैर्मल्यादावपि तुल्यमेतदित्यपि विचार्यताम् । नापि द्वितीयो विकल्पो युक्तः, यावद्द्रव्यमावि यदेव तदेव तन्मात्रस्वरूपम् , न च तथा नैर्मल्यादिकम् , चक्षुरादावनुवर्तमानेऽपि
"Aho Shrutgyanam"