________________
८
पम्मतिः काल , पा.. सिद्ध्या सृष्टिकर्तुरीश्वरस्य च निराकृतत्वानिराकरिष्यमाणत्वाच तत्कर्वकत्वाभावेन घातिकर्मक्लेशादिसकलदोषाऽपरामृष्टपुरुषविशेषप्रणीतत्वेनैव हेत्वन्तरानपेक्षणेन स्वतस्सिद्ध शासनस्य प्रमाकरणत्वलक्षणं प्रामाण्यम्, वक्तृगतयथार्थज्ञानात्मकगुणजन्यत्वविवक्षायां तु परतः प्रामाण्यमपि, अत एव द्वादशाङ्गयात्मकशासनप्रतिपाद्यार्थविषयकज्ञाने प्रमात्वलक्षणस्य प्रामाण्यस्योत्पत्तिनिकारणगतगुणापेक्षणात् परत इत्युच्यते, एवमेव प्रत्यक्षज्ञानादा. वपि प्रामाण्यस्य ज्ञानकारणगतगुणापेक्षया अप्रामाण्यस्य च ज्ञानकारणगतदोषापेक्षयोपजायमानत्वात्तदुभयमुत्पत्तौ परत इति । ननूत्पत्ती परतः प्रामाण्ये किं प्रमाणमिति चेत्, उच्यते, प्रामाण्यं ज्ञानहेत्वतिरिक्तहेत्वधीनं ज्ञानवृत्तित्वे सति कार्यविशेषत्वाद, अप्रामाण्यवत् । यदि पुनः प्रामाण्यं ज्ञानहेतुमात्राधीनं भवेत्तदा निर्विवादाप्रामाण्यं पार्वणेन्दुदयसंवेदनमपि प्रमाणतामास्कन्देत् , ज्ञानहेतोस्तत्रापि सच्चात्, अन्यथोक्तसंवेदनानुत्पत्तिप्रसक्तिस्स्यात् , कारणाभावे कार्याभावस्यावश्यम्भावनियमात् । अथ तत्र ज्ञानहेत्वतिरिक्तदोषोऽभ्युपेयत इत्यप्रामाण्यमिति चेत्तर्हि प्रमात्मकज्ञानेऽपि ज्ञानहेत्वतिरिक्तगुणोऽप्यम्युपगम्यताम् , युक्तेस्तोल्यात् , प्रामाण्यं विज्ञानमात्रोत्पादकनिखिलहेत्वतिरिक्तहेतूत्पाद्यं विज्ञा. नमात्रानुवृत्तावपि व्यावर्त्तमानत्वात् , यदित्थं तदित्थं, सम्यग्ज्ञाने विज्ञानमात्रानुवृत्तावपि व्यावर्त्तमानाप्रामाण्यवत् , तथा चेदं तस्मात्तथा । न चात्र हेत्वसिद्धिरिति वाच्यम् , मिथ्याज्ञाने विज्ञानमात्रानुवृत्तावपि प्रामाण्यव्यावृत्तेरुभयसम्प्रतिपन्नत्वात् । तथा चोक्तानुमानेनापि ज्ञाने परतः प्रामाण्योत्पत्तिरभ्युपगन्तव्येति । अथ प्रत्यक्षज्ञानकारणचक्षुरादीन्द्रिये सूक्ष्मेक्षणेऽपि गुणानुपलम्भात् ते न सन्तीति चेत् , अत्र चक्षुरादीन्द्रियं किमतीन्द्रियशक्तिरूपं किं वा बाह्यगोलकादिरूपं गृह्यत इति विकल्पद्वयम् , नाद्यः गुणवद् दोषाणामप्य. भावप्रसङ्गात् , अतीन्द्रियस्येन्द्रियस्य प्रत्यक्षेणाग्रहणे तद्गतगुणानामिय तद्गतदोषाणामप्यनुपलम्भस्य तुल्यत्वात् । नापि द्वितीयः, यतोऽत्रापि गुणानुपलम्भः किं स्वप्रत्यक्षेण किंवा परप्रत्यक्षेणेति विकल्पद्वयम् , तत्र नाधविकल्पो युक्तः, दोषाणामप्यनीक्षणेनाभावप्रसङ्गात् स्वस्पार्शनप्रत्यक्षेणापि स्वचक्षुर्गोलकादिमात्रस्यैवोपलम्भात् । नापि द्वितीयविकल्पो युक्तः, परप्रत्यक्षेण काचकामलादिदोषा इव नैमल्यादिगुणा अपि परपुरुषीयचक्षुर्गोलकादावीक्ष्यन्त एवेति न तदनुपलम्भात्तदभावो युक्तः। अथ तदहर्जातस्यापि बालस्य नैर्मल्यादिस्वरूपेण नयनादीन्द्रियप्रतीते मल्यादीनां गुणरूपत्वाभाव इत्युच्यत इति चेत्, तर्हि जन्मकालीन. तिमिररोगव्याप्तस्य तत्कालोत्पन्नवालस्य तिमिरादिदोषाक्रान्तेन्द्रियप्रतीतेरिन्द्रियस्वरूपा. तिरिक्तदोषाणामप्यमावः कथं न स्यात् १ कथञ्चैवं रूपादीनामपि कुम्भादिगुणस्वभावता, उत्पत्तेरारम्य कुम्भे तेषां प्रतीयमानत्वाऽविशेषात् । तदेवं परचक्षुर्गोलकादौ दोषाणामिव गुणानामपि परप्रत्यक्षप्रतीयमानत्वाद्गुणमात्सर्य परिहाय निष्पक्षपातेन दोषा इव गुणा अप्यभ्युपगन्तव्याः । अन्यथा
"Aho Shrutgyanam"