________________
सम्मति० काण्ड , गा.
१७ शक्तिः कारणत्वं कारणतावच्छेदिका वा शक्तिरिति पक्षद्वयेऽप्यतीन्द्रियायाश्शक्तेरभि. व्यञ्जकत्वादेव वह्निजनकतान्यूनवृत्तीनामपि तुणत्वारणित्वमणित्वादीनां वह्निजनकताबच्छेदकत्वोपचारात् , न च कारणतातदवच्छेदकान्यतररूपाया अतीन्द्रियायाश्शक्तेरभिव्यक्तिः प्रत्यक्षामिका, किन्तु ज्ञानान्तररूपैव, अथाप्यमिव्यक्तिरिति व्यपदिश्यते, शाब्दबोधे च यथा स्मरणलक्षणे सङ्केतग्रहणमपेक्षित, तथा वाच्यवाचकभावग्रहणमपि स्मरण लक्षणमपेक्षितमिति । नन्वेवं तर्हि श्रूयमाणाच्छब्दात्तद्गतशक्तिबलाच्छाब्दप्रत्ययोत्पत्तेस्सैव कारणं तत्रास्तु किं सङ्केताभ्युपगमेनेति चेद् , मैत्रम् , जिनानुगैः सर्वे शब्दास्सर्वार्थवाचका इति नियमाभ्युपगमादेकस्मादपि शब्दादशेषार्थप्रतीतेः प्रसङ्गस्स्यात् , न च सा भव. तीत्येकैकशब्दस्य सर्वार्थवाचकत्वेऽपि सङ्केतसहकृतस्यैव शब्दस्य स्वयोग्यताऽपरपर्याय. शक्तिमाहात्म्यतः प्रतिनियतार्थप्रतीतिजनकत्वेन प्रतिनियतार्थप्रतीतिव्यवहारोपपादनाय सङ्केताभ्युपगमस्यापि साफल्यात् । अत एव न शक्तिबलाद् गवादिशब्दादश्वादिप्रतीतिः, न वाऽव्युत्पन्नस्यापि पुंसः सर्वगोशब्दाऽविध्वग्वृत्तिगोशब्दत्वावच्छिन्नगोशब्दात्सदृशपरिणामलक्षणगोत्वावच्छिन्नगोव्यक्तिबोधः, सङ्केतो ह्ययमर्थोऽस्य शब्दस्य वाच्यः, अस्य चार्थस्यायं शब्दो वाचक इत्येवंरूपो वाच्यवाचकयोर्विनियोगः, स येन पुंसाऽवापोद्वापद्वारा निश्चितस्तस्यैव पुंसः पुनर्गोशब्दश्रवणे तत्स्मृतौ शब्दः स्वशक्तिद्वारा स्वार्थ प्रतिपादयति, नापरस्य पुंसः, नान्यार्थश्च । प्रतिनियतसङ्केतानुसारिणो नियताच्छब्दात्प्रतिनियतार्थप्रतिपत्तिदर्शनात् , एतेन न शब्दस्वरूपं नियतार्थप्रतिपत्तिहेतुः, तस्य सर्वार्थान् प्रत्यविशिष्टत्वादि. स्पपि निरस्तम्, नियतसङ्केतसहकृतस्य शब्दस्य सर्वार्थान् प्रत्य विशिष्टत्वाऽसिद्धेः। ततो वाच्यवाचकोत्पत्तिसमयसम्भृष्णुशक्तिस्वभावस्य कथश्चिनित्यानित्यस्य वाच्यवाचकाभ्यां कथञ्चिद्भिन्नस्य सामान्यविशेषोभयस्वभाववस्तुगोचरोपचरितसङ्केताभिव्यक्तस्य वाच्यवाच. कभावसम्बन्धस्य बलेन ताल्वादिसंयोगजन्यानां शब्दानामर्थावबोधलक्षणशाब्दबोधानुकूलसामयं स्वाभाविकाररीकृत्य तेषां प्रामाण्यं प्रतिपत्तव्यम् । न पुनरनित्यानां शब्दानामेकान्तभिन्नसामान्यविशिष्टेऽनुल्लिखितशाबलेयादिविशेषेऽथै आवापोद्वापद्वारा निश्चित. सङ्केतमात्रशेनार्थावबोधजनकानाम् , न वा नित्यानामपि शब्दानां नित्यवाच्यवाचकभाका सम्बन्धाभिव्यञ्जकसङ्केतवलेन जातिमात्रावबोधकानामर्थापच्या व्यक्त्यवगमकानामिति । अस्थिरस्थापि शब्दस्यार्थेन सह वाच्यवाचकमावसम्बन्धस्य गुणीभूतजातिविशिष्टप्रति. नियतार्थसङ्केतग्रहबलेन ग्रहस्तु वद्विधूमव्यक्त्योरनित्यत्वेऽप्यविवक्षितव्यक्तिविशेषस्य वह्नित्वावच्छिन्नस्याऽविवक्षितव्यक्तिविशेषरूपे धूमत्वावच्छिन्ने ऊहाख्यतर्कवलेन सर्वोपसंहारेण भ्याप्तिग्रह इव सम्भवत्येवेति न तत्र कोऽपि दोषः । इत्यलं पल्लवितेन, ग्रन्थगौरवभीत्याs. धिकं योक्तं तद्न्थान्तरादस्मत्संदृब्धस्याद्वादविन्दुतश्चावसे यम्, तदेवं शब्दानामनित्यत्व
"Aho Shrutgyanam"