________________
सम्मति काण्ड १
स्यात्, एवं घटपदादावपि ज्ञेयम्, तस्य चानेकपदार्थघटितत्वेन सखण्डरूपतया तत्पक्षस्य - जातिविशिष्टव्यक्तौ शक्त्यभ्युपगमे गोपदशक्यतावच्छेदिकाया गोत्वजातेरखण्डरूपतया लघुरूपत्वेन तदपेक्षया गौरवास्पदत्वेनायुक्तत्वात् । न च व्यक्तीनामानन्त्याद् गोशृङ्गग्राहिकया प्रतिव्यक्तिसङ्केत करणाऽसम्भव इति वाच्यम्, जातिविशिष्टायां व्यक्तावविवक्षितविशेषरूपायामत एवोदासीनरूपाय सङ्केतकरणस्य तद्ग्रहणस्य च सम्भवाद्, आकाशादिशब्दवद् येषां च शब्दानामर्थेषु जातिर्नास्ति तत्र तेषां केवलायां व्यक्तावेव सङ्केतकरणम् । उक्तश्च
येषामर्थेषु सामान्यं, न सम्भवति तैः पुनः ।
उच्यते केवला व्यक्ति, - राकाशादिपदैरिव ॥ १ ॥ इति ॥
न च पूर्व शब्दाच्छक्तिद्वारा जात्यवगमः पश्चाद्वयक्ति विना जात्यनुपपत्तेरर्थापत्या व्यक्त्यवगम इति क्रमिकप्रतीत्यनुभव इति वाच्यम्, विरम्य शब्दव्यापाराभावात् ! किश्च व्यक्तेरवाच्यत्वे विभक्त्यर्थ सङ्ख्याकर्मत्वादेस्तत्राऽनन्वयस्स्यात् । न च तत्रानन्वय इष्ट एवेति वाच्यम् । सुब्विभक्तीनां प्रकृत्यर्थान्वितस्वार्थबोधकत्वस्य व्युत्पत्तिसिद्धत्वादिति न्यायपन्थाः । न चायमपि समीचीनो मार्गः, यतो जातिव्यक्च्योनैकान्त मेदः, किन्तु कथश्चिदेव, सामान्यविशेषात्मकस्यैव वस्तुनः सर्वस्यां प्रतिपत्तौ प्रतिभासनादिति तदात्मके वस्तुन्येव पूर्वोक्तनीत्या सङ्केतग्रहः, न त्वेकान्तभिन्नजातिविशिष्टव्यक्तौ न च तन्मात्रेण शब्दस्यार्थप्रत्यायकत्वमपि, किन्तु स्वाभाविकशक्तिसङ्केतग्रहाभ्यामेव शब्दे स्वाभाविकशक्तिमन्तरेणार्थप्रत्ययोत्पादकत्वाभावात् । नहि षण्ढः पुत्रोत्पादको दृष्ट इति स्वतोऽशक्तस्य कस्यापि कार्योत्पादकत्वादर्शनात् । उक्तञ्च प्रमाणनयतच्चालोकालङ्कारे "स्वाभाविकसामर्थ्य समयाभ्यामर्थबोधनिबन्धनं शब्दः " । ४ । ११ । इति । इदमत्रात्रधेयम्, यद्यपि शब्दः श्रोत्रेन्द्रियग्राह्यः तथापि न श्रूयमाणादेव शब्दाच्छाब्दबोधो भवति । शाब्दबोधम्प्रत्यर्थोपस्थितिद्वारा शब्दज्ञानस्य शब्दज्ञानत्वेनैत्र कारणत्वम्, न तु शब्दप्रत्यक्षत्वेन तेन जन्यायामर्थोपस्थितावपि सङ्केतग्रहो योऽपेक्षणीयः सोऽपि न श्रोत्रेन्द्रियजन्य प्रत्यक्षरूपः, अस्मात्पदादयमर्थो बोद्धव्यः एतत्पदजन्यबोधविषयोऽयमर्थो भवत्वित्येवं रूपस्य इदं पदममुमर्थं बोधयतु- एतदर्थविषयक बोधजनकमिदम्पदम्भवत्वित्येवं रूपस्य वेच्छाविशेषलक्षणस्य सङ्केतस्य विषयताविशेषसम्बन्धेन शब्दगतत्वेऽपि श्रोत्रेन्द्रियाग्राह्यत्वेन तज्ज्ञानस्य श्रोत्रेन्द्रियजन्य प्रत्यक्षरूपत्वाभावात्, किन्त्वनुभवात्मकमपि प्राथमिकं संकेतग्रहणं श्रोत्रेन्द्रिय'जन्यप्रत्यक्ष भिन्नमेव, निरुक्तसङ्केताभिव्यज्यमानतयाऽभिमतस्य वाच्यवाचकमावस्यार्थगतवाच्यतासामर्थ्यरूपशक्तिलक्षणस्य पदगतवाचकतासामर्थ्यरूपशक्तिलक्षणस्य वा श्रोत्रेन्द्रि'याग्राह्यत्वेन तदभिव्यक्तिर्निरुक्तसङ्केतग्रहाजायमाना न श्रोत्रेन्द्रियजन्यप्रत्यक्षात्मिका, किन्तु तदन्यज्ञानरूपैव न हि प्रत्यक्षमेवाभिव्यक्तिशब्देन वक्तुं योग्यं नान्यदित्यस्ति नियम,
"Aho Shrutgyanam"